अहल्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अहल्या
Ahalya.jpg
राजारविवर्मणा लिखितम् अहल्यायाः चित्रम्(१८४८-१९०६)
देवनागरी अहल्या
संस्कृतानुवादः Ahalyā
सम्बन्धः ऋषिपत्नी, पञ्चसु महापतिव्रतासु अन्यतमा
गृहाणि गौतमाश्रमः
व्यक्तिगतविवरणम्
सहचारी गौतमः
अपत्यानि शतानन्दः

हिन्दू पुराणानामनुसारं अहल्या गौतमस्य पत्नी। सा इन्द्रेण सह सम्बन्धं स्थापितवती इति कृत्वा गौतममहर्षिः तां शप्तवान्। तेन सा शिलारूपिणी अभवत्। रामः तस्य शापविमोचनं अकरोत्।

ब्रह्मणा विश्वस्य परमसुन्दरी स्त्री अहल्या सृष्टा। तस्या विवाहः अधिकवयसा गौतमेन सह अभवत्। यदा इन्द्रः गौतमवेषेण तस्याः समीपे आगतः। इन्द्रस्य कापट्यं ज्ञात्वा अपि अहल्या इन्द्रेण सह गतवती। इदं ज्ञात्वा गौतमः अहल्याम् इन्द्रं च शप्तवान्। तेन अहल्याः शिलामयी जाता, इन्द्रश्च सहस्रनयनः जातः। रामस्य पादधूलेः अनुग्रहेण अहल्यायाः शापविमोचनम् अभवत्।

व्युत्पत्तिः[सम्पादयतु]

हलं नाम वैरूप्यम्। हले भवं हल्यम्। यस्याः न विद्यते हल्ययं सा अहल्या इति व्युत्पत्तिः रामायणस्य उत्तरकाण्डे दर्शिता।[१]

जन्म विवाहश्च[सम्पादयतु]

अहल्या अयोनिजसम्भवा।[२] इति रामयणस्य बालकाण्डे वर्णितं वर्तते। ओडिसाप्रदेशस्य कथानुसारं उर्वश्याः गर्वभङ्गार्थं परमसुन्दरी अहल्या सृष्टा।[३] भिल्लरामायणम् अहल्यावृत्तान्तेनैव आरभ्यते। तत्र अहल्या सप्तर्षिभिः यज्ञविभूतिना उत्पादिता गौतमाय उपायनीकृता चेति वर्णितम्[४] । अहल्या चन्द्रवंशस्य राज्ञः मुद्गलस्य पुत्री दिवोदासस्य च भगिनी इति हरिवंशे भागवते च वर्णितम्।[५][६]

ब्रह्मा अहल्यां सृष्ट्वा कन्यात्वप्राप्तिपर्यन्तं तस्याः पोषणदायित्वं गौतमाय दत्तवान्। गौतमः अहल्यां कन्यात्वप्राप्त्यनन्तरं [[ब्रह्मा|ब्रह्मणे प्रतिदत्तवान्। गौतमस्य कामनिरोधस्य प्रकटनेन हृष्टः ब्रह्मा अहल्यायाः विवाहं गौतमेन सह अकरोत्। इन्द्रः लोकस्य सर्वाः अपि सुन्दर्यः प्राप्तव्याः इति कामयते स्म। परन्तु अहल्यायाः विवाहवृत्तान्तं ज्ञात्वा तपसि प्रवृत्तः इति कथा रामायणे उत्तरकाण्डे विद्यते।[७][८]

ब्रह्मपुराणे अपि अहल्यायाः बाल्यविषये रामायणी कथा एव वर्णिता। परन्तु विवाहविषये काचित् भिन्ना कथा वर्तते। यः त्रीन् लोकान् (स्वर्ग-मर्त्य-पातालान्) अल्पे समये प्रदक्षिणीकरोति तस्मै अहल्या दीयते इति ब्रह्मणा उद्घोषितम्। इन्द्रः स्वम् ऐरावतमुपयुज्य विविधमायाः च प्रयुज्य त्रिभुवनं प्रदक्षिणीकृतवान्। तदानीं नारदः, गौतमः इन्द्रस्यापेक्षया न्यूने कालावधौ त्रिभुवनं प्रदक्षिणीकृतवान्। यतो हि सः प्रसुन्वानां गां प्रदक्षिणीकृतवान्। वेदानामनुसारं प्रसुन्वाना गौः त्रिभुवनसमा इत्यवोचत्। एतेन गौतमः अहल्यां प्राप[९]। पद्मपुराणे अपि इयमेव कथा संक्षेपेण वर्णिता।[१०]

विवाहात् परम् अहल्या गौतमेन सह तस्य आश्रमे तपः चरति स्म। रामायणानुसारम् गौतमाश्रमः मिथिलोपवने विद्यते[११][१२]ब्रह्मपुराणे गोदावरीनद्याः तीरे गौतमाश्रमस्य उल्लेखः अस्ति। स्कन्दपुराणे नर्मदानद्याः तीरे इत्युल्लिखितम्। पद्मपुराणे ब्रह्मवैवस्वतपुराणे च पुष्करनगरस्य पार्श्वे गौतमाश्रमः आसीत् इत्युक्तम् [११]

इन्द्रेण सह सम्बन्धः[सम्पादयतु]

ब्राह्मणेषु अहल्या-इन्द्रयोः सम्बन्धविषये वर्णनं दृश्यते। सामवेदस्य जैमिनीयब्राह्मणे, यजुर्वेदस्य शतपथब्राह्मणे, तैत्तरीयब्राह्मणे श्रौतसूत्रे च इन्द्रः अह्ल्यां कामयते स्म इति वर्णनं दृश्यते। सामवेदे मित्रस्य पुत्री मैत्रेयी एव अहल्या इति वर्णनं दृश्यते। सुब्रह्मण्यविधाने अहल्यायाः पतिः नासीत्। सद्विंशब्राह्मणे कौशिकनामा अहल्यायाः पतिः इति उल्लेखः दृश्यते। स एव इन्द्रः इति अन्येषां मतम्। [१३][१३][१४] शतपधब्राह्मणस्य व्याख्याने कुमारिलभट्टः अहल्या-इन्द्रयोः अन्धकारसूर्ययोः सादृशयं विवृतवान्। तथा च अहल्या अकृष्टा भूमिः इन्द्रश्च तत्र फलवत्ततां ददाति इत्यपि कल्पना विद्यते।[१५]

इन्द्रेण अहल्यायाः अवलोकनम्

रामायणस्य बालकाण्डे अहल्यायाः इन्द्रसम्बन्धविषये विस्तरेण विवृतमस्ति।[१६][१७]। इन्द्रः अहल्यायाः रूपेण मोहितः गौतमस्य आश्रमे अनुपस्थितिं ज्ञात्वा गौतमस्य वेषं धृत्वा अहल्यायाः प्रशंसां कुर्वन् कामनिवेदनम् अकरोत्। अहल्या इन्द्रस्य वेषं जानती अपि सौन्दर्यविषयकश्लाघनेन तुष्टा इन्द्रस्य प्रार्थनाम् अङ्गीकृतवती[१८] । ततः गौतमस्य कोपात् रक्षणार्थम् इन्द्रं प्रार्थितवती। कथासरित्सागरे इन्द्रः गौतमवेषमधृत्वैव अहल्यायाः समीपम् आगतः इति वर्णनम् अस्ति।[१९]रामायणस्य बालकाण्डे अहल्या बुद्धिपूर्वकम् इन्द्रेण सह भोगं कृतवती इति उल्लेखः विद्यते। परन्तु उत्तरकाण्डे पुराणेषु च इन्द्रः अहल्यायाः अत्याचारम् अकरोत् इति कथा वर्णिता[८][२०] । महाभारते नहुषेण इन्द्रः अहल्याविषये प्रतार्यते। एतेन अहल्या न व्यभिचारिणी इति तस्याशयः इति सोहनेन थैने अभिप्रैति।

उल्लेखाः[सम्पादयतु]

  1. https://sa.wikisource.org/s/678
  2. Bhattacharya & March–April 2004, pp. 4–7.
  3. Söhnen-Thieme 1996, pp. 50–1.
  4. Jhaveri 2001, pp. 149–52.
  5. Mani 1975, p. 17.
  6. Garg 1992, pp. 235–6.
  7. Bhattacharya 2000, pp. 14–5.
  8. ८.० ८.१ Doniger 1999, pp. 89–90, 321–2.
  9. Söhnen-Thieme 1996, pp. 51–3.
  10. Söhnen-Thieme 1996, pp. 54–5.
  11. ११.० ११.१ Söhnen-Thieme 1996, pp. 40–1.
  12. Goldman 1990, pp. 215–6.
  13. १३.० १३.१ Söhnen-Thieme 1996, pp. 46–8.
  14. Feller 2004, pp. 132–5.
  15. Söhnen 1991, p. 73.
  16. Söhnen-Thieme 1996, p. 39.
  17. Ray 2007, pp. 24–5.
  18. The Hindu & 25 June 2010.
  19. Söhnen-Thieme 1996, pp. 58–9.
  20. Söhnen-Thieme 1996, p. 45.


"https://sa.wikipedia.org/w/index.php?title=अहल्या&oldid=444918" इत्यस्माद् पुनः प्राप्तिः