पुष्करनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुष्करसरोवरस्य दृश्यम्, राजस्थानम्

राजस्थानप्रान्ते मेरुनगरसमीपे पुष्करनगरम् अस्ति । पुष्करं प्रसिद्धं तीर्थस्थलं वर्तते ।

अत्रत्यानि मन्दिराणि[सम्पादयतु]

पुष्करे ब्रह्मणः मन्दिरम्

अत्र भगवतः ब्रह्मणः विश्वप्रसिद्धं मन्दिरम् अस्ति । विश्वे पुष्करनगरमात्रे एव ब्रह्मणः मन्दिरं वर्तते । प्राचीनवराहमन्दिरम् अपि पुष्करे अस्ति । अत्र अन्यानि अपि बहूनि मन्दिराणि सन्ति । तेषु रङ्गजीमन्दिरं प्रसिद्धम् अस्ति । पर्वतस्य उपरि गायत्रीमन्दिरम् अस्ति । समीपे अन्यस्मिन् पर्वते सावित्रीमन्दिरम् अपि अस्ति । तत्रैव अन्नपूर्णादेवीमन्दिरं चामुण्डादेवीमन्दिरम् अपि स्तः । पुष्करनगरं परितः पर्वताः सन्ति, मध्ये च विस्तृतं पवित्रं सरोवरं वर्तते । सरोवरस्य तटे एव पुष्करनगरम् अवस्थितम् अस्ति ।

पुष्करं परितः पर्वतश्रेणयः

अन्यानि प्रेक्षणीयस्थलानि[सम्पादयतु]

पुराणेषु पुष्करतीर्थस्य माहात्म्यं वर्णितम् अस्ति । प्रतिवर्षं कार्तिकमासस्य पूर्णिमायाम् अत्र मेला भवति । पर्यटनदृष्ट्या पुष्करस्य बहुमहत्त्वम् अस्ति । अत्र बहवः पर्यटकाः आगच्छन्ति । अस्माकं दृष्ट्या पुष्करस्य धार्मिकं सांस्कृतिकं च महत्त्वं वर्तते । पुष्करस्मीपे कनिष्ठपुष्करं, मध्यमपुष्करम् अपि स्तः । समीपे एव भर्तृहरेः गुहा अपि अस्ति । किञ्चिद्दूरे गयाकुण्डम् अस्ति । पर्वतीयप्रदेशे चत्वारि देवीमन्दिराणि सन्ति - भीमादेवीमन्दिरं, चामुण्डादेवीमन्दिरं, नन्दासरस्वतीमन्दिरं, मृकण्डुमातृमन्दिरं च । तत्रैव चत्वारि भगवतः शिवस्य मन्दिराणि अपि सन्ति - कापालेश्वरमन्दिरम्, अटमटेश्वरमन्दिरं, पाण्डुकेशवमन्दिरं, वैद्यनाथमन्दिरं च । पुराकाले तत्र अनेके ऋषयः तपः आचरितवन्तः, तेषु प्रमुखाः सन्ति - मार्कण्डेयः, विश्वामित्रः, अगस्त्यः, वामदेवः, जमदग्निः, गौतमः च । अतः एव एतेषां नाम्ना तत्र आश्रमाणि सन्ति । पञ्चपाण्डवानां तपःस्थली अपि तत्र वर्तते । नीलकण्ठमन्दिरं देवनारायणमन्दिरम् अपि पुष्करक्षेत्रे स्तः । जनाः त्रीणि पुष्कराणि परितः परिक्रमं कुर्वन्ति । मेलाकाले अत्र राजस्थानशासनेन उष्ट्राणां धावनस्पर्धा अपि आयोज्यते ।

"https://sa.wikipedia.org/w/index.php?title=पुष्करनगरम्&oldid=366074" इत्यस्माद् प्रतिप्राप्तम्