उर्वशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उर्वशी
उर्वशी
उर्वशी ,पुरुरव

उर्वशी ( /ˈʊrvəʃ/) (हिन्दी: उर्वशी,आङ्ग्ल: Urvashi) इन्द्रसभायां अप्सराः आसीत् । अस्याः उत्पत्तिः नारायणस्य जङ्घायाः अभवत् इति मन्यते । इयं वेदकालीना स्त्री वर्तते । उर्वश्याः सुन्दरता अत्युत्तमा आसीत् । सा शिक्षिता, ज्ञानिनी च अपि आसीत् । “ब्रह्मैव विश्वकल्याणकः अस्ति” इति सा जानाति स्म । अतः सायणाचार्यः तां "ब्रह्मवादिनी" इति कथयति स्म ।

परिचयः[सम्पादयतु]

उर्वश्याः जन्मविषये पुराणेषु भिन्नमतानि प्राप्यन्ते । यथा – “पद्मपुराणानुसारम् उर्वश्याः जन्म कामदेवस्य उरसः अभवत्” इति । कुत्रचित् “नारायणस्य जङ्घायाः उर्वश्याः जन्म अभवत्” इति वर्णनं प्राप्यते । नर-नारायणौ द्वौ देवौ आस्ताम् । साम्प्रतम् उत्तरप्रदेश-राज्यस्य इलाहाबाद-नगरम् अस्ति । तस्य प्राचीनं नाम प्रयागः आसीत् । इदानीमपि प्रयागः इति विख्यातः अस्ति । प्रयागः तीर्थाणां राजा कथ्यते । तत्र कुम्भोत्सवः अपि आचर्यते । पुराणेषु वर्णनं प्राप्यते यत् – प्रयागे एव नारायणः साधनां करोति स्म । तत्रैव नारायणस्य उरोः उर्वश्याः जन्म अभवत् । इदानीम् अपि इलाहाबाद-नगरे (प्रयागे) उर्वशी-तीर्थम्, उर्वशी-कुण्डः च वर्तते [१] [२]

श्रीमद्भागवतानुसारम् उर्वशी स्वर्गस्य अप्सराः आसीत् । सा नदीनां जलमार्गे व्यापारं करोति स्म । अपसराः अर्थात् – “अप्सु सरन्तीति अप्सराः” । महत्परिश्रमेण, साहसेन च अप्सरसः समुद्रव्यापारेण धनार्जनं कुर्वन्ति स्म । अप्सराः नृत्यगायनादिषु कलासु निपुणाः भवन्ति स्म । ताभ्यः “कर्करी” नामकं वाद्ययन्त्रं रोचन्ते स्म । ताः अप्सरसः सर्वत्र वन्दनीयाः आसन् । जनाः ताः आदरपूर्वकं पश्यन्ति स्म । समुद्रे एव तासां गृहाणि भवन्ति स्म अर्थात् ताः सर्वदा समुद्रे एव कार्यं कुर्वन्ति स्म । उर्वशी अपि तादृशी अप्सराः आसीत् । सा अपि समुद्रे कार्यं करोति स्म ।

समुद्रमार्गात् विभिन्नदेशैः सह व्यापारः कठिनतमं कार्यम् आसीत् । किन्तु वेदकालीनाः स्त्रियः तादृशानि कार्याणि सरलतया, कुशलतापूर्वकं कुर्वन्ति स्म । जनाः तेषां कार्याणां प्रशंसाम् अकुर्वन्। “अप्सरसां कार्याणि आश्चर्यचकितानि सन्ति” इति अथर्ववेदे अपि प्राप्यते । अप्सरसः विद्वद्भिः पुरुषैः सह विवाहं कुर्वन्ति स्म । विवाहानन्तरं सर्वदा पतीनां सेवां, साहाय्यं च कुर्वन्ति स्म । उर्वशी अपि तादृश्यैव अप्सराः आसीत् । सा अपि स्वर्गलोके देवसभायां नृत्यं करोति स्म ।

उर्वशीपुरुरवसोः मेलनं वियोगश्च[सम्पादयतु]

एकदा उर्वशी इन्द्रस्य राजसभायां नृत्यं कुर्वती आसीत् । तदा राजसभायां पुरुरवा-नामकः राजा अपि विद्यमानः आसीत् । उर्वशी राज्ञि आकृष्टा अभवत् । तेन कारणेन उर्वश्याः नृत्यतालः भग्नः जातः । तदा इन्द्रः उर्वश्याः रुष्टः अभवत् । अनन्तरम् इन्द्रेण उर्वश्यै मृत्युलोकं गन्तुं शापः प्रदत्तः । मृत्युलोकं प्राप्य उर्वशी पुरुरवसा सह विवाहम् अकरोत् । किन्तु उर्वश्या पणाः प्रस्थापिताः यत् – “यदा सा (उर्वशी) पुरुरवसं नग्नावस्थां पश्येत्, यदा पुरुरवाः तस्याः (उर्वश्याः) इच्छायाः प्रतिकूलं सम्भोगं कर्तुं वदेत्, तदा सा (उर्वशी) सम्बन्धं विच्छेद्य स्वर्गं गन्तुं शापात् मुक्ता भविष्यति ।

ऋग्वेदे तयोः विवाहस्य उल्लेखः प्राप्यते । बहुवर्षाणि यावत् तौ दम्पतित्वेन जीवनं यापिवन्तौ । विवाहानन्तरं पुरुरवाः केवलं रतिक्रीडायाम् एव लीनः आसीत् । किन्तु उर्वशी एतत्सर्वं नेच्छति स्म । सा कथयति स्म यत् – “पुरुरवाः दुष्टानां संहारकः भवेत्, केवलं कामक्रीडायाम् एव समयं न यापयेत्, विश्वकल्याणस्य कार्याणि कुर्यात् च” इति । उर्वश्याः रूपयौवनं तादृशम् आसीत्, येन पुरुरवाः सर्वं विस्मरति स्म । आदिनं भोगे एव गच्छति । तेन पुरुरवसः पौरुषं नष्टं जातम् । तस्य पराक्रमः, कर्तृत्वं चापि नष्टम् अभवत् ।

समयान्तरे उर्वश्याः मनसि पुरुरवसे घृणा उद्भूता । उर्वशी दम्पत्योः सरलजीवनं जीवितुम् इच्छति स्म । “दम्पती परस्परं भावनानां सम्माननं कुर्याताम्” इत्येतादृशं जीवनम् इच्छति स्म । स्त्री केवलम् उपभोगस्य वस्तु नास्ति । अतः आदिनं विषयभोगे लीनं पुरुरवसं प्रति उर्वश्याः मनसि वितृष्णा उद्भूता । केवलं विषयवासना एव विवाहस्योद्देश्यं नास्ति । सा उत्तमगृहिणी भवितुम् इच्छति स्म ।

तस्मिन् समये उर्वशी अत्यन्तदुःखिनी आसीत् । किन्तु सा किमपि कर्तुम् असर्मथा आसीत् । तथापि यदि कोऽपि पतिः कामरोगेण ग्रस्तः भवेत्, तर्हि पत्न्या अपि साहसपूर्वकं पतिः त्यक्तव्यः । उर्वश्या अपि तादृशमेव कृतम् आसीत् । तया पुरुरवाः त्यक्तः । तस्मिन् समये सा गर्भवती आसीत् । तथापि सा ततः निर्गतवती । यतः सा स्वयं धनार्जनं कर्तुं सक्षमा आसीत् । सा साक्षरा अपि आसीत् । अतः तया भयेन विना पुरुरवाः त्यक्तः ।

यदा स्त्री साक्षरा, कर्त्तव्यपरायणी, आत्मविश्वासिनी च भवेत्, तर्हि सा स्वस्याः जीवनं श्रेष्ठतया यापयति । उर्वशी अपि श्रेष्ठतया जीवति स्म । यदा उर्वशी पुरुरवसं त्यक्तवती, तदा पुरुरवाः पाश्चात्तापं कुर्वन् आसीत् । पुरुरवाः स्वस्य त्रुटयः ज्ञातवान् आसीत् यत् - “स्वस्य कामवासनया राज्यस्य नाशः अभवत्” । सः उर्वशीं प्राप्तुम् इच्छति स्म । सः मनसि विचारितवान् यत् – “मया उर्वश्याः भावनाः न ज्ञाताः । तस्याः सम्माननं करणीयम् आसीत् । दाम्पत्यजीवने पतिपत्न्योः सङ्कोचहीनः, भयहीनः च संवादः आवश्यकं भवति” । एतत्सर्वं विचिन्त्य पुरुरवाः उर्वशीं कथयति यत् –

 

हये जाये मनसा निष्ठ घोरे । वचांसि मिश्रा कृणवावहै नु ।

त नौ मन्त्रा अनुदितास एते । मयस्करन् परतरे चनाहन्[३] ॥१॥

पुरुरवसा उर्वशी उक्ता यत् – “अस्माभिः कदापि परस्परसंवादः न कृतः । अतः एव एतादृशी स्थितिः जाता । इतः परम् एतावत् न भविष्यति” इति । किन्तु उर्वशी पुरुरवसः स्थितिं ज्ञातवती । पुरुरवसः भोगासक्तिः कदापि न गच्छति । अतः तया पुरुरवाः उक्तः यत् – “स्त्रीभिः सह मित्रता केवलं शरीरस्य उपभोगाय न भवति” । अतः अहं पुनः न आगमिष्यामि ।

उर्वश्याः वचांसि श्रुत्वा पुरुरवाः विललाप । तेन उक्तं यत् – “यदि भवती न आगमिष्यति चेत् अहं प्राणत्यागं करिष्यामि” । किन्तु उर्वश्या उक्तं यत् – “भवान् अप्सरसम् इच्छति, न तु उर्वशीम् । अतः यज्ञं कृत्वा स्वर्गलोकं गच्छतु । तत्र अन्यासाम् अप्सरसाम् उपभोगं करोतु” इति । ऋग्वेदे

 

पुरुरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् [४]॥१५॥

प्रजा ते देवान् हविष यजाति स्वर्ग उ त्वमपी मादयसे [५] ॥१८॥

अनेन प्रकारेण उर्वशी उपभोगिनः पुरुषान् बोधितवती यत् – “स्त्री भोगस्य साधनं नास्ति” इति । तदनन्तरं वेदकालीनः पुरुषः विवाहः समये मन्त्रेण प्रार्थनां करोति यत् – “समापो हृदयानि नौ” अर्थात् यथा जलं परस्परं मेलने सति एकरूपं भवति तथैव आवयोः हृदयम् अपि एकरूपं भवेत्” इति [६]

मेलनवियोगयोः विभिन्नमतानि[सम्पादयतु]

भिन्न-भिन्नस्थानेषु उर्वशीपुरुरवसोः मेलनस्य, वियोगस्य च भिन्न-भिन्नमतानि प्राप्यन्ते । वायुपुराणे अपि चन्द्रवंशस्य कथा प्राप्यते । पुरुरवाः राजा चन्द्रवंशीयः आसीत् । इलाबुधयोः पुत्रः पुरुरवाः आसीत् । पुरुरवाः पराक्रमी राजा आसीत् । सः उर्वशीं प्रति आकृष्टः आसीत् । अतः तया सह विवाहम् अकरोत् । उर्वशी स्वर्गलोकस्य अप्सराः आसीत् । देवसभायां नृत्यं करोति स्म । नृत्यसमये पुरुरवसः स्मरणेन ताले त्रुटिः अभवत् । अतः देवाः खिन्नाः अभवन्, मृत्युलोकं गन्तुं शापं प्रदत्तवन्तश्च । शापेन उर्वशी मृत्युलोके निवसन्ती आसीत् । पुरुरवसा सह विवाहसमये उर्वश्या प्रतिज्ञा प्रस्थापिता यत् – “मैथुनसमयं विहाय अन्यसमये यदि अहं त्वां नग्नावस्थायां द्रक्ष्यामि, तर्हि स्वर्गलोकं गमिष्यामि । अपरा – द्वयोः मेषयोः रक्षणं करणीयम् अस्ति । तौ मेषौ सर्वदा अस्माकं शयनकक्षे एव बन्धनीयौ । यदि ततः तौ कुत्रापि गच्छेताम्, तदापि अहं स्वर्गलोकं गमिष्यामि” इति । अनन्तरम् उर्वशी चतुष्षष्टिवर्षाणि यावत् पुरुरवसा सह न्यवसत् ।

स्वर्गलोके गन्धर्वाः, देवाः च उर्वश्या विना व्यग्राः अभवन् । अतः उर्वशीम् आनेतुं देवैः, गन्धर्वैः च योजना कृता । यतः यावत् पर्यन्तम् उर्वश्याः प्रतिज्ञाभङ्गः मा भवेत्, तावत्पर्यन्तम् उर्वशी स्वर्गलोकं न आगमिष्यति । अतः योजनानुसारं गन्धर्वाः शयनकक्षात् मेषान् चोरितवन्तः [७]। तस्मिन् समये पुरुरवाः नग्नः एव आसीत् । किन्तु उर्वश्याः वचनानुसारं पुरुरवाः मेषौ अन्वेष्टुं नग्नावस्थायाम् एव धावितवान् । अन्वेषणे सति पुरुरवाः उर्वश्याः समक्षं समुपस्थितवान् । नग्नावस्थायां दृष्ट्वा उर्वश्याः प्रतिज्ञा भग्ना जाता । तस्मिन् क्षणे एव उर्वशी विलुप्य स्वर्गलोकं गतवती ।

राजा पुरुरवाः विलापं कुर्वन् आसीत् । सः उर्वशीम् अन्वेष्टुं निर्गतवान् । सः कुरुक्षेत्रं प्राप्तवान् । तत्र कस्मिँश्चित् सरोवरे पञ्च कन्याः जलक्रीडां कुर्वत्यः आसन् । तासु कन्यासु उर्वशी अपि आसीत् । उर्वशीं दृष्ट्वा पुरुरवाः प्रसन्नः अभवत् । उर्वश्या उक्तं यत् – “प्रभो ! भवतः संयोगेन अहं गर्भवती अस्मि । एकवर्षानन्तरं भवतः पुत्रः मे गर्भात् उद्भविष्यति । राज्ञा सा रात्री उर्वश्या सह व्यतीता । एकवर्षानन्तरं पुरुरवाः पुनः तत्र गतवान् । पुनः उर्वश्या सह रात्रौ न्यवसत् । प्रातः काले पुरुरवसा याचना कृता यत् – “भवती मया सह निवासं करोतु” इति । उर्वशी उक्तवती यत् – “स्वर्गलोके निवासाय गन्धर्वराजस्य आज्ञां प्राप्नोतु” । पुरुरवसा गन्धर्वराजाय निवेदनं चकार । गन्धर्वराजः स्वर्गलोके निवासाय अनुमतिम् अददात् । अनन्तरम् उर्वश्याः षड्पुत्राः अभवन् । ते पुत्राः – आयुः, श्रीमान्, अमावसुः, विश्वायुः, शतायुः, गतायुः च [८]

पौराणिकी कथा[सम्पादयतु]

महाभारतस्य कथा[सम्पादयतु]

उर्वशी सुरलोकस्य सर्वश्रेष्ठनर्तकी आसीत् । इन्द्राय उर्वशीं रोचते स्म । एकदा चित्रसेनः अर्जुनाय सङ्गीतस्य, नृत्यस्य शिक्षणं यच्छन् आसीत् । तस्मिन् समये उर्वशी ततः गच्छन्ती आसीत् । उर्वश्या अर्जुनः दृष्टः । अर्जुनं दृष्ट्वा उर्वशी आकृष्टा अभवत् । अवसरं प्राप्य उर्वश्या अर्जुनः उक्तः यत् – “भवन्तं दृष्ट्वा मे कामवासना प्रस्फुटिता । अतः कृपया मया सह विहारं कृत्वा कामवासनायाः आपूर्तिं करोतु” इति ।

उर्वश्याः वचनं श्रुत्वा अर्जुनः उक्तवान् यत् – “हे देवि ! अस्माकं पूर्वजः भवत्या सह विवाहम् अकरोत् । अतः भवती जननीतुल्या अस्ति । अतः अहं ते नौमि । अर्जुनस्य वचनं श्रुत्वा उर्वशी क्रुद्धा जाता । तया अर्जुनः उक्तः यत् – “भवता नपुंसकसदृशानि वचांसि उक्तानि । अतः भवान् एकवर्षं यावत् नपुंसकः भविष्यत” इति । अनन्तम् उर्वशी ततः प्रस्थितवती । यदा उर्वश्यर्जुनयोः संवादम् इन्द्रः ज्ञातवान्, तदा इन्द्रेण उक्तं यत् – “ इयं तु भगवतः इच्छा वर्तते । त्रयोदशवर्षाणां वनवासस्य अन्तिमे वर्षे अज्ञातवासे एकवर्षं यावत् अयं शापः फलीभूतः भविष्यति । तस्मिन् अन्तराले एव भवान् पुंसत्वहीनः भविष्यति । अज्ञातवासानन्तरं भवान् पुनः पुंसत्वं प्राप्स्यति । अतः चिन्ता मास्तु । इन्द्रस्य वचनं श्रुत्वा अर्जुनः निश्चिन्तः अभवत् । [९]

नाटककाव्यानि[सम्पादयतु]

उर्वशी[सम्पादयतु]

“रामधारी सिंह दिनकर” इत्याख्यः हिन्दी-साहित्यस्य श्रेष्ठः कविः आसीत् । एतेन हिन्दी-साहित्ये बहूनि काव्यानि रचितानि सन्ति । तेषु “उर्वशी” नामकं काव्यं रचितम् अस्ति । “रामधारी सिंह दिनकर” इत्याख्येन वैदिककालाधारितायाः उर्वशीपुरुरवसोः प्रणयकथायाः काव्यत्वेन रचना कृता आसीत् ।

ई. स. १९६१ तमे वर्षे “उर्वशी” काव्यं प्रकाशितम् अभवत् । इदं काव्यं हिन्दी-भाषायां प्राप्यते । लेखकेन अस्मिन् काव्ये प्राचीनाख्यानस्य नूतनाख्याने परिवर्तनं कृतम् अस्ति । उर्वशीपुरुरवसोः तृष्णा भिन्ना वर्तते । काव्येऽस्मिन् पुरुरवाः भूमिपूत्रः, उर्वशी देवलोकस्य नारी च वर्तते । पुरुरवसः मनसि देवत्वस्य इच्छा आसीत् । किन्तु उर्वशी पृथ्वीलोके निवसितुम् इच्छति स्म । अस्मिन् काव्ये पुरुरवसः प्रेम, उर्वश्याः सौन्दर्यं च प्रतिपादितम् अस्ति । “रामधारी सिंह दिनकर” इत्याख्येन उर्वशीपुरुरवसोः प्रेमसौन्दर्ययोः वर्णनं मनोवैज्ञानिकदृष्ट्या कृतम् अस्ति [१०]

विक्रमोर्वशीयम्[सम्पादयतु]

संस्कृतजगतः महाकविना कालिदासेन अपि बहूनि काव्यानि, नाटकानि च रचितानि सन्ति । तेषु “विक्रमोर्वशीयम्” नामकं नाटकम् अपि वर्तते । नाटकेऽस्मिन् उर्वशीपुरुरवसोः प्रेमप्रसङ्गः वर्तते । “उर्वश्याः प्रतिज्ञाभङ्गेन शापमुक्ता अभवत् । अनन्तरं सा पुरुरवसं त्यक्त्वा स्वर्गलोकम् अगच्छत्” इति कालिदासेन वर्णितम् अस्ति । कालिदासेन उर्वशीपुरुरवसोः वैदिकं, उत्तरवैदिकं च वर्णनं कृतम् अस्ति । “विक्रमोर्वशीयम्” नाटकस्य मूलाधारः एव प्रसङ्गोऽयं वर्तते [११]

बाह्यानुबन्धाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

अधिकवाचनाय[सम्पादयतु]

http://www.transliteral.org/dictionary/%E0%A4%89%E0%A4%B0%E0%A5%8D%E0%A4%B5%E0%A4%B6%E0%A5%80/word

"https://sa.wikipedia.org/w/index.php?title=उर्वशी&oldid=481456" इत्यस्माद् प्रतिप्राप्तम्