इला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बुधः
बुधः
बुधः



इला वैवस्वतमनोः पुत्री । वसिष्ठमुनेः अनुग्रहेण पुरुषत्वम् अवाप्य "सुद्युम्न" इति नाम्ना राज्यभारम् अकरोत् । ततः कदाचित् मृगयार्थं विपिनं प्रविष्टः सन् तत्राकस्मादिव पार्वतीदेव्याः शापपात्रं शरवणं प्रविश्य पुनः अङ्गना बभूव। ततः चन्द्रपुत्रः बुधः एनामकामयत्। तयोः सङ्गमेन च पुरूरवाः जज्ञे । ततः परमेश्वरानुग्रहेण मासाभ्यान्तरं पुंस्त्वम्, पुनरेकमासं यावत् स्त्रीत्वं च धारयितुं वरं लब्धवती । एवं च सा यदा पुरुषत्वेऽवर्तत तदा उत्कलः, गयः, विमलः इति नामनः त्रीन् पुत्रान् अलभत । एवं महाभारते आदिपर्वणि ६३तः ६९ अध्यायेषु कथा वर्तते । भागवते ९.१। हरिवंशे १. १०। मत्स्यपुराणे ११. ब्रह्मपुराणे ७. तथा देवीभागवते च १,३ तमेष्वध्यायेषु कथेयं दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=इला&oldid=394015" इत्यस्माद् प्रतिप्राप्तम्