श्रीमद्भागवतपुराणम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
श्रीमद्भागवतम्  
Krishna holding flute.jpg
भागवतं श्रीकृष्णलीलामृतम् ।
लेखक वेदव्यासः
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय श्रीकृष्णः भक्तिः
प्रकार प्रमुखवैष्णवग्रन्थः
पृष्ठ १८,००० श्लोकाः
१५०० ईशवीयाब्दे लिखिते भागवतपुराणे कृष्णं स्नापयन्ती यशोदा

श्रीमद्भागवतमहापुराणम् ( SrimadbhagavataPurana) हिन्दूधर्मस्य अनुयायिनाम् अष्टादशपुराणेषु अन्यतमम्। एतत् पुराणं श्रीमद्भागवतम् अथवा केवलं "भागवतम्" च उच्यते। पुराणस्य मुख्यवर्ण्यविषयः भक्ति योगः अस्ति। पुराणे कृष्णं सर्वेषां देवानां देव: इति वा स्वयं भगवान् इति रूपेण वा चित्रितवन्त: सन्ति। एतत् अतिरिच्य अस्मिन् पुराणे रसभावं भक्तिनिरूपणञ्च कृतवन्त: सन्ति, परम्परागतरुपेण एतस्य पुराणस्य रचयिता व्यासः । श्रीमद्भागवतम् भारतीयवाङ्मयस्य मुकुटमणिः इव अस्ति। भगवता शुकदेवेन महाराज्ञे परीक्षिताय उक्तस्य भक्तिमार्गस्य वर्णनं अस्मिन् पुस्तके अस्ति। पुराणस्य प्रत्येकं श्लोक: श्रीकृष्णप्रेम्णा सुगन्धित: अस्ति। साधन-ज्ञानं, सिद्धज्ञानं, साधन-भक्तिः, सिद्धा-भक्तिः, मर्यादा-मार्गः, अनुग्रह-मार्गः, द्वैताद्वैतसमन्वयेन सह प्रेरणादायीनि विविधानि उपाख्यानानि अद्भुतप्रकारेण सङ्गृहीतानि सन्ति। [१]

भागवतपुराणे महर्षि सूत गोस्वामी तस्य समक्षे प्रस्तुतसाधूभ्यः शौनकादिभ्यो एकां कथाम् उवाच। साधवः सूतसमक्षे भगवतः विष्णोः विभिन्नानाम् अवताराणां विषये जिज्ञासां कुर्वन्ति। सूतगोस्वामी समस्तप्रश्नानां उत्तरं ददाति। अस्मिन् ग्रन्थे द्वादश स्कन्धाः वर्तन्ते। प्रथमे स्कन्धे सर्वेषाम् अवताराणां संक्षिप्तरुपेण वर्णनं कृतमस्ति। द्वितीये स्कन्धे पुराणलक्षणानां वर्णनं कृतम्। एते लक्षणाः सर्गः, विसर्गः, स्थानं, पोषणम्, ऊतयः, मन्वन्तरम्, ईशानुकथा, निरोधः, मुक्तिः, आश्रयश्च। एतेषाम् लक्षणानाम् वर्णनं तृतीयस्कन्धादारभ्य द्वादशस्कन्धपर्यन्तं क्रमेण भवति।

विद्यावतां भागवते परीक्षा इत्युक्तेर्भागवतस्य काठिन्यं श्रुतचरम् । भागवतस्य पुराणत्वे लोकाः सन्दिहते, ते हि देवीभागवतमेवाष्टादशपुराणान्तर्गतं मन्यन्ते न श्रीमद्भागवतम् । त्रयोदशशतकोत्पन्नो वोपदेवनाम‌ वङ्गीयो विद्वान् श्रीमदभागवतं प्रणीतवानिति कथनमपि श्रीमदभागवतस्य पुराणत्वं सन्देहे पातयतां केषाञ्चनावस्तुतत्त्वविदामेव ।

वस्तुतस्तु पुराणेषु अपेक्षितस्य ग्रन्थविस्तरस्य ‘सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चेति पुराणं पञ्चलक्षणम्’ इति स्वरुपनिर्दिशस्य च भागवते सत्त्वेन तदीयं महापुराणत्वं न सन्देहदोलाधिरुढम् श्रीमदभागवतं गायत्रिमन्त्रेणारभ्यते तेनैव च समाप्तिमाप्नोतीति मन्ये महामन्त्रसम्पुटितमिदं न केवलं पुराणमेवापि तु महापुराणम् । अष्टादशपुराणेषु गणनाऽपि भागवतशब्दसाधारण्यादुभयोः प्राप्नोति, तत्र श्रीमदभागवतमुत्कृष्टगुणशालितया प्राथम्यमर्हति ।

वोपदेवेन त्रयोदशशतकोत्पन्नेन भागवतं रचितमिति कथनं तु नितान्तनिर्मूलम् तत्र कारणान्यधो निर्दिश्यते –

१. द्वैतमतानुयायी मध्वाचार्यो भागवतोपरि भागवततात्पर्यनिर्णयं नाम टीकाग्रन्थं व्यरचयत्, मध्वाचार्यः ११९९ ई. वर्षे जन्माग्रहीत्, अतस्त्रयोदशशतकात् पूर्वकालिकं भागवतं त्रयोदशशताब्द्यामुत्पन्नेन वोपदेवेन प्रणीतं न सम्भवति ।
२. एकादशशतकोत्पन्नो रामानुजाचार्यो वेदान्ततत्वसारनामके स्वग्रन्थे भागवतवर्त्तिवेदस्तुतेः पद्यमुदधृतवान् ।
३. चित्सुखाचार्येण नवमशतकसम्भूतेन विरचिताया भागवतव्याख्याया निर्देशो मध्वाचार्यश्रीधरस्वामिविजयध्वजैः स्वग्रन्थेषु कृतः ।
४. दशमशतकोत्पन्नः प्रत्यभिज्ञादर्शनाचार्योऽभिनवगुप्तः स्वीयायां गीतादीकायां भागव्तस्यैकादशस्कन्धतः कतिपयपद्यानि उद्धृतवान् ।
५. साङ्ख्याकारिकासु माठरवृत्तिनाम्नी व्याख्या विद्यते, यस्याः अनुवादःचीनदेशभाषायां ५५७-५६९ मध्ये कदाचिदजायत, तत्र भागवतस्य श्लोकद्वयं निर्दिष्टम् ।
६. अष्टमशतकोत्पन्नः शङ्कराचार्यः गोविन्दाष्टक-प्रबोधसुधाकरनामकयोः स्वस्तोत्रयोः स्तुतिप्रसङ्गे यासां घटनानां चर्चामकृत ता भागवत इव स्थिताः ।
७. शङ्कराचार्यस्य परमगुरवः गौडपादाचार्याः पञ्चीकरणव्याख्यां ‘जगृहे पौरुषं रुपम्’ इति भागवतस्य पद्यं भागवतनामोपादानपूर्वकसुद्धृतवान् । अयं गौडपादाचार्यः षष्ठ शतकात् परतो नैव सम्भावयितुं शक्यते ।

इमानि प्रमाणानि सभेरीनादं साधयन्ति भागवतस्य षष्ठशतकात्प्राचीनताम्, तथा सति त्रयोदशशताब्दीजातेन वोपदेवेन निर्मितत्वं वक्तुरुपहासायैव केवलम् । पद्मपुराणान्तर्गत भागवतमाहात्म्यानुसारेण तु कलियुगप्रारम्भ एव भागवतस्य निर्माणं सिद्ध्यति । वोपदेवेन यदि भागवतं कृतं तदा हरिलीलामृतं मुक्ताफलं चेति ग्रन्थद्वयं कथं कृतम् ? हरिलीलामृते भागवतानुक्रमणी विद्यते, मुक्ताफलं च भागवतस्थसरसश्लोकानां संग्रहः, वोपदेवस्य भागवतरचयितृत्वे मुक्ताफलसदृशस्य ग्रन्थस्य तेनैव प्रणयनएप्यर्थमेव स्यात् ।

भागवतस्य कवितासौष्ठवम्[सम्पादयतु]

भागवतस्य पद्येषु गद्येष्वपि तादृशं चमत्कारकं सौष्ठवं प्राप्यते यत तेन विदुषां मनांसि हठादाकृष्यन्ते । नवेषु काव्यषु जातेष्वपि भागवतगता काव्यमाधुरी नापकृष्टतां गता । तत्पठतां मनांसि भागवतं काव्यमेव प्रथमं मन्यन्ते ततोऽनन्तरं पुराणादि किञ्चिदन्यत । भागवते समायातानि मथुराद्वारकाप्रभृतिनगरीवर्णनानि यथा कलायुतानि तथैव यथार्थान्यपि । केशिनो विकरालस्य रुपस्य जरासन्धभीमयोर्भीषणस्य गदायुध्दस्य च वर्णनमेकतो यदि रोमाञ्चमुदञ्चयति तदा गोपिगीतभ्रमरगीतादि पठयमानमेव हृदयं स्तिमितयति नयने उदस्रयति च । दृश्याताम –

रत्नप्रदीपनिकरद्युतिभिर्निरस्त-
ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।
नृत्यन्ति यत्र विहितागुरुधूपमक्षै –
र्निर्यान्तमीक्ष्य घनबुध्दय उन्नदन्तः॥

द्वारकावर्णनपद्येऽस्मिन् मयूराणां भ्रमस्य वर्णनं नितान्तमनोहरमिदम् । भागवतस्थितेषु वर्णनेषु चमत्कारस्तदाऽतिशयमाप्नोति यदा तत्र वर्णनेष्वपि आत्महिताधायका आध्यात्मिका उपदेशा रसवृष्टिं कुर्वते –

गिरयो वर्षधाराभिर्हन्यमाना न विव्यथुः ।
अभिभूयमाना विषयैर्यथाऽधोक्षजचेतसः ॥ ( १०/२०/१५)
सरिद्भिः संगतः सिन्धुःचुक्षुभे श्वसनोर्मिवान् ।
अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग्यथा ॥ (१०/२०/१४)

रासपञ्चाध्यायी भागवतस्य काव्यकलायाः पराकाष्ठाया निदर्शनम् –

शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका वरद विध्नतो नेह किं वधः ?॥
चरसि तंयद् व्रजाच्चारयन् पशून् नलिनसुन्दरं नाय ते पदम् ।
तृणकृशाङ्कुरैः खिद्यतीतिः नः कलिलतां मनः कान्त गच्छति ॥

ईदृशं सङ्गीतमयं हृदयोद्गारप्रकाशनक्षमं च सरसं काव्यं वस्तुतः संस्कृतसाहित्येऽपरत्र दुर्लभमिति कथनं भूतार्थकथनमेव ।

भागवतस्य टीकासम्पत्[सम्पादयतु]

वैष्णवदर्शनिकैः सर्वैरेव भागवतस्य व्याख्या कृता, तदयं भागवतग्रन्थो ब्रह्मसूत्रसमतां गतः । अस्य ग्रन्थस्य टीकासम्पदेवादसीयं गौरवं गमयितुमलम् –

  1. चित्सुखाचार्यकृता टीका, नोपलभ्यते, केवलं निर्दिश्यते ।
  2. श्रीधरकृता टिका, इयं प्रामाणिकी, ‘श्रीधरः सकलं वेत्ति श्रीनृसिंहप्रसादतः’ इति श्रुतेः ।
  3. सुदर्शनसूरिणः शुकपक्षीया टीका, श्रीवैष्णवमतपोषिका ।
  4. वीरराघवाचार्यस्य भागवतचन्द्रचन्दिकाटीका, श्रीवैष्णवमतपोषिका ।
  5. विजयध्वजकृता पदरत्नावली, माध्वमतपोषिका ।
  6. सनातनगोस्वामिनः बृहद्वैष्णवतोषिणी, दशमस्कन्धस्य ।
  7. जीवगोस्वामिनः क्रमसन्दर्भः ।
  8. विश्वनाथचक्रवर्तिनः सारदर्शिनी ।
  9. जीवगोस्वामिनः षट्सन्दर्भः, तत्त्वविवेचनग्रन्थः ।
  10. वल्लभाचार्यस्य सुबोधिनी, वल्लभसम्प्रदायस्य ।
  11. शुकदेवचार्यस्य सिध्दान्तप्रदीपः, निम्बार्कसम्प्रदायस्य ।
  12. श्रीहरेः हरिभक्तिरसायनं नाम पद्यमयी टीका ।

एवं वयं पश्यामो यदाचार्याः भागवतं स्वमतपोषणाय सादरं व्याचख्युः, अतोऽस्य ग्रन्थस्य सारत्त्वं प्रतीमः ।

स्कन्ध[सम्पादयतु]

स्कन्धसंख्या विवरणम्
प्रथमस्कन्ध: भक्तियोग: तथा भक्तियोगा

त् उत्पन्नस्य वैराग्यस्य वर्णनम् ।

द्वितीयस्कन्ध: ब्रह्माण्डस्य उत्त्पत्ति: एवं विराट्पुरुषस्य स्थिति: स्वरूपं च ।
तृतीयस्कन्ध: उद्धवद्वारा कृष्णस्य बाल-चरित्र-वर्णनम् ।
चतुर्थस्कन्ध: राजर्षि ध्रुव: एवं पृथु: इत्यादीनां चरित्राणि ।
पञ्चमस्कन्ध: समुद्र-पर्वत-नदी-पाताल-नरकादीनां स्थिति: ।
षष्ठस्कन्ध: देवता, मनुष्य, पशु, पक्षी इत्यादीनां जन्मन: कथा ।
सप्तमस्कन्ध: हिरण्यकश्यिपु-हिरण्याक्षाभ्यां सह प्रह्लादस्य चरितम् ।
अष्टमस्कन्ध: राजवंशानां विवरणानि ।
नवमस्कन्ध: श्रीरामस्य कथा ।
दशमस्कन्ध: भगवत: श्रीकृष्णस्य अनन्तलीला:।
एकादशस्कन्ध: यदुवंशस्य संहारः।
द्वादशस्कन्ध: विभिन्नयुगा: प्रलय: तथा भगवतः उपाङ्गादीनां वर्णनम् ।

स्रोत[सम्पादयतु]

बाह्य लिंकानि[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=श्रीमद्भागवतपुराणम्&oldid=258586" इत्यस्माद् पुनः प्राप्तिः