शुकमुनिः
शुकमुनिः वेदव्यासस्य पुत्रः आसीत्। पुराणकथानुसारं कदाचित् भगवान् शिवः पार्वतीमुद्दिश्य अमरकथां उक्तवान्। तदानीं पार्वती सुप्ता आसीत्। परन्तु वृक्षे उपविष्टः कश्चित् शुकः तां कथां शृण्वन् हूँकारं करोति स्म। एतेन क्रुद्धः शिवः त्रिशूलेन शुकं प्रहर्तुमुद्युक्तः। शुकः डयमानः वेदव्यासाश्रमं प्राप्य सूक्ष्मरूपेण वेदव्यासस्य पत्न्याः उदरं प्राविशत्। ततः द्वादश वर्षाणि शुकः गर्भे एव आसीत्। भगवता कृष्णेन बहिः मायाप्रपञ्चस्य संस्पर्शः तव न भविष्यति इति शुकः आश्वस्तः। ततः सः बहिरागतः। जन्मनः अपरस्मिन् क्षणे पित्रा सह शास्त्रसंवादम् अकरोत्। ततः पितुः अनुमतिं प्राप्य विद्यार्जनर्थं गुरुकुलम् अगात्। भागवतस्य मुख्यः निरूपकः शुकः एव। सः परीक्षितमुद्दिश्य भागवतं कथयति। शुकमुनेः पत्नी पितृदेवतानां पत्नी पीवरी। तस्त च कृष्ण, गौरप्रभः, भूरिः, देवश्रुतः इति चत्वारः पुत्राः आसन्। अन्ते च मोक्षस्य सिद्ध्यै नारदस्य उपदेशानुसारं प्राणत्यागमकरोत्।