कैकेयी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कैकेयीप्रलापः दशरथस्य सान्त्वनम्

कैकेयी केकयदेशस्य अश्वपतिमहाराजस्य पुत्री। दशरथस्य प्रिया पत्नी आसीत् । कौसल्यायाः पुत्रे रामे अत्यन्तं प्रीतिमती एषा दास्याः मन्थरायाः दुर्बोधनेन रामस्य वनवासे कारणीभूता अभवत् । पूर्वं तया दशरथद्वारा वरद्वययं प्राप्तम् आसीत्। सा कथा एवम् अस्ति ।

तिमिध्वजः नामा असुरः स्वर्गलोकम् आक्रम्य देवताभिः सह युद्धम् अकरोत् । देवताः पराजिताः अभवन् । तदा ते दशरथस्य साहाय्यं याचितवन्तः । दशरथः कैकेय्या सह देवलोकं गतवान् । तिमिध्वजेन सह युद्धं कुर्वन् तस्याघातेन दशरथः मूर्च्छितोऽभवत् । तस्मिन् क्षणे कैकेयी मूर्च्छितं दशरथं सुरक्षितं स्थलं नीत्वा तस्य शुश्रूषामकरोत् । जागरित: दशरथः तुष्टो भूत्वा कैकेय्याः कृते वरद्वयं दत्तवान् । आवश्यकतायां सत्यां तद् वरद्वयं प्राप्नोमीति कैकेयी अवोचत् ।

रामायणे कैकेय्याः पात्रम्[सम्पादयतु]

कैकेयी रामायणकथायां बहु मुख्यपात्रं वहति | तस्याः इच्छानुसारेण एव रामस्य वनाभिगमनम् भवति। केकयराजस्य पुत्री कैकेयी दशरथमहाराजस्य तृतीया तथा बहुप्रियतमा पत्नी । सा वीरनारी आसीत् । एकदा इन्द्रस्य साहायार्थं दशरथः शम्बरेन सह युद्धं करोति । तत्सन्दर्भे यदा दशरथः बहु विचलितः भवति तदा तस्य सारथिरूपेण उपस्थिता कैकेयी अधीरा न भवति। वीरनारी कैकेयी दशरथं युद्धभूमितः दूरं नीत्वा तस्य शुश्रूषां करोति । तदनन्तरं प्रतिफलरूपेण दशरथमहाराजः ’भवत्या अपेक्षितं ददामि’ इति उक्तवान् भवति । तदा कैकेयी ’सूक्तसमये वदामि’ इति उक्तवती भवति। तस्य प्रयोजनं सा रामस्य यौवराज्याभिषेकसन्दर्भे करोति । ’रामं वनं प्रेषयतु’ इति दशरथम् उक्त्वा रामस्य दण्डकाराण्यवासं कारयति। कैकेयी दुष्टा स्त्रीः न । सा अपि रामं बहु प्रीणयति स्म । परन्तु यदा रामस्य यौवराज्याभिषेकः आयोजितः भवति तदा मन्थरा नामिकया सेविकया उत्तेजिता भूत्वा तथा व्यवहरति। स्वत्रस्य अधिकारः भवतु इति लोभेन तथा राजभवने कौसल्यायाः अपेक्षया ज्येष्ठस्थानं प्राप्तं भवतु इति उद्देशेन ’स्वपुत्रस्य भरतस्य यौवराज्याभिषेकं तथा रामस्य वनाभिगमनं च अपेक्षते। दशरथः वचनबद्धः सन् तस्याः अनुरोधम् अङ्गीकृत्य वनं गन्तुं रामम् आदिशति । पितृवाक्यपरिपालनार्थं रामः वनं गच्छति। तदनन्तरं कैकय्याः ज्ञानोदयः भवति । यतः भरतः तस्याः स्वार्थकार्येण क्रुद्धः दुःखितः च भवति। अनन्तरं सा स्वदोषम् अङ्गीकरोति पश्चात्तापम् अनुभवति च। किन्त् तावति काले हानिः जाता आसीत् । रामः वनं गतः आसीत् , दशरथः अपि पुत्रशोकेन मृतः आसीत्।


ramayana patrani

"https://sa.wikipedia.org/w/index.php?title=कैकेयी&oldid=398609" इत्यस्माद् पुनः प्राप्तिः