सामग्री पर जाएँ

श्रवणकुमारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रवणकुमारः तस्य मातापितॄणां एकः एव पुत्रः आसीत् । तौ अन्धौ, वृद्धौ च । श्रवणकुमारः तौ उत्तमरीत्या प्रीत्या पालयति स्म । एकस्मिन् दिने तौ उक्तवन्तौ “मरणात् पूर्वम् आवां तीर्थक्षेत्राणि द्रष्टुम् इच्छावः” इति । श्रवणकुमारः शक्तियुतं कण्डोलद्वयं सज्जीकृतवान् । मातापितरौ तत्र उपवेश्य भुजस्य उपरि कण्डोलौ संस्थाप्य नीतवान् । मार्गे तयोः बहु पिपासा जाता । जलम् आनेतुं सः नदीं प्रति गतवान् । घटे जलपूरणसमये शब्दः जातः। दशरथः इति एकः राजा आसीत् । सः वने मृगयार्थम् आगतवान् आसीत् । सः जलपूरणशब्दं श्रुत्वा कश्चित् प्राणिः स्यात् इति मत्वा बाणप्रयोगं कृतवान् । सः बाणः श्रवणकुमारे लग्नः अभवत् । श्रवणकुमारः उच्चैः आक्रोशं कृतवान् । अनुक्षणं राजा दशरथः तत् स्थलं प्रति धावितवान् । प्रवृत्तं सर्वम् अवलोक्य ”मया बुद्ध्या एवं न कृतम् । अहं शब्दं श्रृत्वा कोपि क्रूरमृगः जलं पातुम् आगतवान् स्यात् इति चिन्तितवान् । क्ष्यम्यताम्” इति उक्तवान्। तदा श्रवणकुमारः “हे राजन् मम विषये भवान् चिन्तां मा करोतु। किन्तु कृपया एतत् जलं मम मातापित्रोः कृते ददातु , तौ बहु पिपासाग्रस्तौ स्तः” इति श्रवणकुमारः उक्तवान् । स्वस्य मरणस्य अपेक्षया मातापितॄणां विषये चिन्ता श्रवण्कुमारस्य । दशरथः जलं स्वीकृत्य श्रवणकुमारस्य मातापितृणां कृते दत्त्वा “ स्विकुरुतां जलम्” इति उक्तवान् । तदा तौ एककाले “ भवान् कः? भवान श्रवणः न” इति उक्तवन्तौ। राजा प्रवृत्तं सर्वम् उक्तवान् । श्रवणकुमारस्य वृद्धौ मातापितरौ तम् आघातं सोढुं न शक्तवन्तौ। पुत्रस्य आघातकर्या मरणवार्तया तौ पुत्रस्य चिन्तयामेव मरणं प्राप्तवन्तौ ।

""

"https://sa.wikipedia.org/w/index.php?title=श्रवणकुमारः&oldid=339866" इत्यस्माद् प्रतिप्राप्तम्