सामग्री पर जाएँ

युधिष्ठिरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(धर्मराजः इत्यस्मात् पुनर्निर्दिष्टम्)
सिंहासने पाण्डवैः आवृत्तः द्रौपद्या सह युधिष्ठिरः

युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।

युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमः, अर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः । महाराजः युधिष्ठिरः अपि भीष्मः इव अत्यन्तम् उच्चस्तरीयः महापुरुषः आसीत् । एषः साक्षात् धर्मस्य अंशतः जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अतः एव जनाः एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीतिः इत्यादयः अनेके अलौकिकगुणाः आसन् । एषः स्वस्य शीलस्य, सदाचारस्य, विचारशीलतायाः च कारणतः बाल्ये एव अतीवलोकप्रियः अभवत् । यदा एषः इतोऽपि लघुबालः आसीत् तदा एव एतस्य पिता पाण्डुः स्वर्गस्थः अभवत् । तदारभ्य एव एषः स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म । किन्तु धृतराष्ट्रः स्वस्य कुटिलस्वभावस्य कारणतः एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्रः दुर्योधनः एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरतः दूरं प्रेषयामः चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । सः स्वस्य अन्धस्य, पितुः अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदराः अपि वारणावतं गतवन्तः । तत्र एतेषां दहनं कर्तुं दुर्योधनः एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य विदुरस्य साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा ततः पलायितवन्तः । एते मृताः इति मत्वा कौरवाः हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं द्रौपद्याः स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवाः ज्ञातवन्तः यत् पाण्डवाः इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रैः सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवाः तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरतः उपस्थापितवान् । युधिष्ठिरः एतं प्रस्तावम् अपि अङ्गीकृतवान् । सः स्वसहोदरैः सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्तः । ज्येष्ठाः राजानः आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्तः । युधिष्ठिरमेव चक्रवर्तिः इति अङ्गीकृतवन्तः। किन्तु कौरवाः अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्तः । एतेषां वैभवं दृष्ट्वा दुर्योधनः असूयया ग्रस्तः अभवत् । सः एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुलः शकुनेः कुतन्त्रकारणतः युधिष्ठिरः पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्याः अपमाननं कृतवन्तः। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्रः अपि तेभ्यः ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुनः इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधनः न सोढवान् । सः कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुनः पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुनः द्यूतं क्रीडितवन्तः । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूतः । युधिष्ठिरः कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालकः धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्तिः ।

धर्मिष्ठः, सहनशीलः युधिष्ठिरः सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्याः अपमाननं जातं चेदपि धर्मपाशेन बद्धः एषः सर्वं मौनेन सोढवान् ।कोऽपि सामान्यः चेदपि स्वस्य पुरतः पत्न्याः एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजाः अपि किमपि न उक्तवन्तः । मनसि ज्वालाग्निः दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्तः । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्मः, प्रीतिः, सहनशीलतायाः इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।

यदा पाण्डवाः वनं प्रस्थितवन्तः तदा हस्तिनापुरस्य प्रजाः सर्वाः दुःखेन कौरवान् दूषयन्त्यः स्वगृहाणि त्यक्त्वा एतैः सह प्रस्थितवत्यः । तदापि युधिष्ठिरः कौरवाणां विषये एकशब्देनापि दूषणं न कृतवान् । जनानां समाधाननं कारयित्वा प्रतिप्रेषितवान् । तथापि केचन ब्राह्मणाः पाण्डवैः सह गतवन्तः । तदा धर्मराजस्य चिन्ता आरब्धा । एतेषां भोजनस्य व्यवस्था का ? इति । स्वकष्टानां विषये चिन्ता नास्ति चेदपि इतरेषां कष्टं द्रष्टुं न शक्नोति स्म । अन्ते एषः सूर्यदेवस्य आराधनां कृत्वा एकम् अपूर्वं पात्रं प्राप्तवान् । तस्मिन् कृतः किञ्चित् पाकः अपि अक्षयः भवति स्म । एतेन ते वने सन्ति चेदपि अतिथिजनानां ब्राह्मणानां च भोजनं दत्त्वा अनन्तरम् एते भोजनं कुर्वन्ति स्म । वनवासे अपि आतिथ्यधर्मस्य पालनं कृतवन्तः । एतेन धर्मप्रेम्णा आकृष्टाः श्रेष्टाः महर्षिणः वनवाससमयेऽपि तेषां समीपे आगत्य तिष्ठन्ति स्म । यज्ञानां विविधप्रकारस्य धर्मानुष्ठानं कुर्वन्ति स्म ।

महाराजः युधिष्ठिरः ‘अजातशत्रुः’ इति नाम्ना अपि प्रसिद्धः आसीत् । केनापि सह तस्य वैरभावः नासीत् । शतॄणां विषयेऽपि तस्य हृदये सर्वदा सद्भावाः एव भवन्ति स्म । तस्य दृष्ट्या शत्रवः अपि सेवासहानुभूत्यै अर्हाः आसन् । यः अपकारं करोति तस्मै अपि उपकारकरणं ज्येष्ठानां श्रेष्ठः गुणः । युधिष्ठिरः तु एतस्य वाक्यस्य सार्थक्यं भजते स्म । कदाचित् पाण्डवाः द्वैतवने आसन् । तदा घोषयात्रायाः कारणतः दुर्योधनः स्वस्य मन्त्रिभिः, अनुजैः, राज्ञीवासस्य महिलाभिः, सह बृहत् सैन्यं स्वीकृत्य, स्वस्य वैभवं दृष्ट्वा पाण्डवाः असूयाम् अनुभवन्तु इति दुरुद्देशेन तत्रैव आगतवान् । पाण्डवानां कुटीरस्य समीपे विद्यमाने सरोवरे जलक्रीडार्थं गतवान् । ततःपूर्वम् एव गन्धर्वाः सरोवरस्य आक्रमणं कृतवन्तः आसन् । दुर्योधनः तैः सह सङ्घर्षणं कृतवान् । भीषणयुद्धे गन्धर्वाणां विजयः अभवत् । ते राज्ञ्या सह दुर्योधनस्य अपि बन्धनं कृतवन्तः । तदा युधिष्ठिरः अनुजान् वदति यत् ‘भवन्तः गत्वा दुर्योधनं बन्धनात् मोचयित्वा आनयन्तु । सः अस्माकं शत्रुः चेदपि इदानीं कष्टे अस्ति । कष्टकाले साहाय्यकरणं तु अस्माकं धर्मः । सः तु अस्माकं सहोदरः एव । अस्माकम् उपस्थितौ तस्य एतादृशी दुर्गतिः न भवेत् ’ इति । क्षणाभ्यन्तरे अर्जुनः शरवर्षणेन गन्धर्वाणाम् अहङकारं भञ्जयित्वा अनुजैः, राज्ञ्या सह दुर्योधनस्य बन्धमोचनं कृतवान् । दुर्योधनस्य दुष्टषड्यन्त्रं ज्ञात्वा देवराजः इन्द्रः एव तस्य बन्धनार्थं गन्धर्वान् प्रेषितवान् असीत् । युधिष्ठिरस्य हृदयवैशाल्यं दृष्ट्वा ते सर्वे आश्चर्यचकिताः । धन्यः अजातशत्रुः !

कदाचित् आश्रमे द्रौपदी एकाकिनी आसीत् । पृष्ठतः दुर्योधनस्य आवुत्तः सिन्धुराजा जयद्रथः तत्र आगतवान् । द्रौपद्याः अनुपमसौन्दर्यं, लावण्यं च दृष्ट्वा तस्य मनसि विकारः उत्पन्नः । यदा सः स्वस्य दुर्भावनां प्रकटितवान् तदा द्रौपदी तं तिरस्कृतवती । तदा सः तां बलात् आकृष्य स्वस्य रथे उपवेश्य ततः प्रस्थितवान् । विषयं ज्ञात्वा पाण्डवाः तम् अनुसृतवन्तः । तस्य सैन्यं पराजितवन्तः च । भीतः जयद्रथः प्राणरक्षणार्थं धावन् आसीत् । भीमः गत्वा तं गृहीत्वा धर्मराजस्य पुरतः आनीतवान् । धर्मराजः तु सः सम्बन्धी इति मत्वा दयया तस्य मोचनं कृतवान् । एवं स्वस्य क्षमाशीलतायाः स्वभावं दर्शितवान् ।

महाराजः युधिष्ठिरः श्रेष्ठविद्वांसः, नीतिज्ञः, धर्मज्ञः च आसीत् । तस्मिन् अद्भुता समानता आसीत् । कदाचित् कश्चनः ब्राह्मणः कस्यचित् वृक्षस्य शाखायाम् अग्निहोत्रस्य उपयोगाय वृक्षस्य समिधाः स्थापितवान् आसीत् । कश्चनः हरिणः आगत्य स्वस्य शृङ्गेन वृक्षस्य घर्षणं कृतवान् । तदा तस्य शृङ्गे एषः समिधाग्र्न्थिः संलग्नः अभवत् । तेन विना अग्निहोत्रस्य कार्यं न चलति स्म । अतः सः ब्राह्मणः आगत्य समिधाः आनीय ददातु इति युधिष्ठिरं प्रार्थितवान् । पञ्चपाण्डावाः अपि हरिणस्य पृष्ठतः धावितवन्तः । सर्वेषु पश्यत्सु एव सः हरिणः कुत्रापि अदृश्यः अभवत् । पाण्डवाः बहुश्रान्ताः, पिपासिताः च अभवन् । धर्मराजस्य आज्ञां प्राप्य नकुलः जलस्य अन्वेषणं कर्तुं प्रस्थितवान् । स्वल्पे दूरे एव तेन एकः सुन्दरजलाशयः प्राप्तः । समीपं गत्वा यदा जलं पातुं यत्नं कृतवान् तदा काचन अशरीरवाणी श्रुता । ‘प्रथमं मम प्रश्नस्य उत्तरं ददातु, अनन्तरं जलं पिबतु’ इति । किन्तु पिपासितः नकुलः अशरीरवाण्याः निर्लक्ष्यं कृतवान् । जलं पीतवान् च । अनुक्षणं निर्जीवः भूत्वा भूमौ पतितवान् । ततः युधिष्ठिरः क्रमशः सहदेवम्, अर्जुनं, भीमसेनं च प्रेषितवान् । त्रयाणामपि सा एव स्थितिः अभवत् । अन्ते धर्मराजः स्वयं जलाशयस्य समीपं गतवान् । सोऽपि अशरीरवाणीं श्रुतवान् । पतितान् अनुजान् अपि दृष्टवान् । तावता सः विशालकायं कञ्चन यक्षं दृष्टवान् । सः यक्षः वदति ‘मम प्रश्नानाम् उत्तरम् अदत्त्वा जलं पीत्वा भवतः अनुजाः एतादृशीं स्थितिं प्राप्तवन्तः । भवान् अपि उत्तरदानेन विना यदि जलं पिबति तर्हि मरणं प्राप्नोति’ इति । युधिष्ठिरः उत्तरं दातुं सज्जः अभवत् । यक्षस्य सर्वेभ्यः प्रश्नेभ्यः एषः समिचीनतया उत्तरं दत्त्वा तस्य समाधाननं कारितवान् । तदा प्रसन्नः यक्षः वदति यत् ’भवतः अनुजेषु भवान् यम् इच्छति तम् जीवन्तं करोमि’ इति । तदा धर्मराजः नकुलस्य पुनर्जीवनम् इष्टवान् ।

बाल्यम्

[सम्पादयतु]

महाराजः युधिष्ठिरः अपि भीष्मः इव अत्यन्तम् उच्चस्तरीयः महापुरुषः आसीत् । एषः साक्षात् धर्मस्य अंशतः जन्म प्राप्य मूर्तिमान् धर्मः इव आसीत् । अतः एव जनाः एतं ‘धर्मराजः ’ इति आह्वयन्ति । एतस्मिन् धैर्यं, स्थिरता, सहिष्णुता, नम्रता, दयापरता अचलप्रीतिः इत्यादयः अनेके अलौकिकगुणाः आसन् । एषः स्वस्य शीलस्य, सदाचारस्य, विचारशीलतायाः च कारणतः बाल्ये एव अतीवलोकप्रियः अभवत् । यदा एषः इतोऽपि लघुबालः आसीत् तदा एव एतस्य पिता पाण्डुः स्वर्गस्थः अभवत् । तदारभ्य एव एषः स्वस्य ज्येष्ठपितृव्यं धृतराष्ट्रं पिता इव बहु गौरवेण पश्यति स्म । तस्य कस्यापि आज्ञामपि न उल्लङ्घयति स्म ।

लाक्षागृहप्रसङ्गः

[सम्पादयतु]

किन्तु धृतराष्ट्रः स्वस्य कुटिलस्वभावस्य कारणतः एतस्य गुणानां प्रशंसां श्रुत्वा श्रुत्वा मनसि एव करोति स्म । धृतराष्ट्रस्य पुत्रः दुर्योधनः एवं चिन्तितवान् ’ कथञ्चित् कतिपयदिनानि यावत् पाण्डवान् हस्तिनापुरतः दूरं प्रेषयामः चेत् तेषाम् अनुपस्थितौ पित्रार्जित- अधिकारं स्वीकृत्य अहमेव राजा भविष्यामि’ इति । सः स्वस्य अन्धस्य, पितुः अङ्गीकारं प्राप्तवान् । धृतरष्ट्रः पाण्डवान् आहूय उत्सवदर्शनार्थं तान् वारणावताय प्रेषणस्य प्रस्तावं कृतवान् । एषा तस्य आज्ञा इति मत्वा आक्षेपं विना मात्रा कुन्त्या सह पञ्चसहोदराः अपि वारणावतं गतवन्तः । तत्र एतेषां दहनं कर्तुं दुर्योधनः एकस्य लाक्षागृहस्य निर्माणं कृतवान् आसीत् । तस्मिन् एव गृहे ते निवसन्तु इति आग्रहः अपि कृतः । कनिष्ठपितृव्यस्य विदुरस्य साहाय्येन एते कथञ्चित् प्राणान् रक्षयित्वा ततः पलायितवन्तः । एते मृताः इति मत्वा कौरवाः हस्तिनापुरे अधिकारं गृहीतवन्तः । कतिपय- दिनानन्तरं द्रौपद्याः स्वयंवरे पाण्डवानां रहस्यस्य स्फोटनमभवत् । कौरवाः ज्ञातवन्तः यत् पाण्डवाः इतोऽपि जीवन्ति इति । तदा धृतराष्टः विदुरं प्रेषयित्वा पाण्डवान् हस्तिनापुरं प्रति आहूतवान् । स्वपुत्रैः सह तेषां कलहस्य निर्मूलनाय अर्धं राज्यं स्वीकृत्य खाण्डवप्रस्थे पाण्डवाः तिष्ठन्तु इत्येतं प्रस्तावं तेषां पुरतः उपस्थापितवान् । युधिष्ठिरः एतं प्रस्तावम् अपि अङ्गीकृतवान् । सः स्वसहोदरैः सह खाण्डवप्रस्थं गतवान् । तत्र ते इब्द्रप्रस्थनामिकां एकां पृथक् राजधानीं कृत्वा शासनम् आरब्धवन्तः । तत्रैव राजसूययज्ञमपि कृतवन्तः । ज्येष्ठाः राजानः आगत्य यज्ञे भागं गृहीत्वा अमूल्यानि उपायनानि दत्तवन्तः । युधिष्ठिरमेव चक्रवर्तिः इति अङ्गीकृतवन्तः।

वनवास:

[सम्पादयतु]

किन्तु कौरवाः अत्रापि एतान् आनन्देन स्थातुं न त्यक्तवन्तः । एतेषां वैभवं दृष्ट्वा दुर्योधनः असूयया ग्रस्तः अभवत् । सः एकं विशालं सभाभवनं निर्माय पाण्डवान् द्यूतक्रीडार्थम् आहूतवान् । द्यूतक्रीडा अनुत्तमा इति ज्ञात्वा अपि ’धृतराष्ट्रस्य आज्ञा’ इति निमन्त्रणं स्वीकृतवान् । क्रीडायां दुर्योधनस्य मातुलः शकुनेः कुतन्त्रकारणतः युधिष्ठिरः पूर्णं पराजयं प्राप्तवान् । पूर्णसभायां राज्ञ्याः द्रौपद्याः अपमाननं कृतवन्तः। तथापि धृतराष्ट्रस्य विषये एतस्य मनसि गौरवभावः एव आसीत् । धृतराष्ट्रः अपि तेभ्यः ऐश्वर्यं, सर्वं राज्यं च दत्त्वा पुनः इन्द्रप्रस्थय प्रेषितवान् । किन्तु एतत् दुर्योधनः न सोढवान् । सः कथञ्चित् धृतराष्ट्रम् अङ्गीकार्य दूतं प्रेषयित्वा पुनः पाण्डवान् आहूतवान् । वनवासस्य निबन्धनं स्थापयित्वा पुनः द्यूतं क्रीडितवन्तः । एतस्य दुष्परिणामः पुनरेकवारम् अनुभूतः । युधिष्ठिरः कौरवाणां नीतिं ज्ञात्वा अपि ज्येष्टपितृव्यस्य आज्ञां न तिरस्कृतवान् । अस्मिन् समयेऽपि पराजयः एव प्राप्तः । तेन कारणेन स्वस्य सर्वस्वमपि त्यक्त्वा सहोदरैः, राज्ञ्या द्रौपद्या सह द्वादशवर्षाणां वनवासम् , एकवर्षस्य अज्ञातवासं च करणीयम् आपतितम् । पितृव्यस्य आज्ञापालकः धर्मस्य आचरणाय सर्वं तूष्णीं सोढवान् । धन्या तस्य पितृभक्तिः ।

धर्मिष्ठः, सहनशीलः युधिष्ठिरः

[सम्पादयतु]

एषः सर्वविधम् अवमाननं सोढुं शक्नोति स्म । किन्तु धर्मस्य अपमाननं सोढुं न शक्नोति स्म । प्रथमवारं क्रीडायां चतुरः अनुजान्, द्रौपदीं, आत्मानं च विनष्टवान् । द्रौपद्याः अपमाननं जातं चेदपि धर्मपाशेन बद्धः एषः सर्वं मौनेन सोढवान् ।कोऽपि सामान्यः चेदपि स्वस्य पुरतः पत्न्याः एतादृशिं दुर्गतिं द्रष्टुं न अशक्ष्यत् । अग्रजस्य भयेन अनुजाः अपि किमपि न उक्तवन्तः । मनसि ज्वालाग्निः दहति स्म । इच्छन्ति चेत् तादृशस्य अत्याचारस्य स्थगनं कर्तुम् एते शक्नुवन्ति स्म । अग्रजं दृष्ट्वा सर्वे तूष्णीम् उपविष्टवन्तः । धर्मराजः एतद् सर्वं कापट्यम् एव इति ज्ञात्वा अपि धर्मस्य रक्षणार्थं सोढवान् । धर्मः, प्रीतिः, सहनशीलतायाः इतोऽपि श्रेष्ठ-उदाहरणानि जगति अन्यानि न स्युः ।

यदा पाण्डवाः वनं प्रस्थितवन्तः तदा हस्तिनापुरस्य प्रजाः सर्वाः दुःखेन कौरवान् दूषयन्त्यः स्वगृहाणि त्यक्त्वा एतैः सह प्रस्थितवत्यः । तदापि युधिष्ठिरः कौरवाणां विषये एकशब्देनापि दूषणं न कृतवान् । जनानां समाधाननं कारयित्वा प्रतिप्रेषितवान् । तथापि केचन ब्राह्मणाः पाण्डवैः सह गतवन्तः । तदा धर्मराजस्य चिन्ता आरब्धा । एतेषां भोजनस्य व्यवस्था का ? इति । स्वकष्टानां विषये चिन्ता नास्ति चेदपि इतरेषां कष्टं द्रष्टुं न शक्नोति स्म । अन्ते एषः सूर्यदेवस्य आराधनां कृत्वा एकम् अपूर्वं पात्रं प्राप्तवान् । तस्मिन् कृतः किञ्चित् पाकः अपि अक्षयः भवति स्म । एतेन ते वने सन्ति चेदपि अतिथिजनानां ब्राह्मणानां च भोजनं दत्त्वा अनन्तरम् एते भोजनं कुर्वन्ति स्म । वनवासे अपि आतिथ्यधर्मस्य पालनं कृतवन्तः । एतेन धर्मप्रेम्णा आकृष्टाः श्रेष्टाः महर्षिणः वनवाससमयेऽपि तेषां समीपे आगत्य तिष्ठन्ति स्म । यज्ञानां विविधप्रकारस्य धर्मानुष्ठानं कुर्वन्ति स्म ।

महाराजः युधिष्ठिरः ‘अजातशत्रुः’ इति नाम्ना अपि प्रसिद्धः आसीत् । केनापि सह तस्य वैरभावः नासीत् । शतॄणां विषयेऽपि तस्य हृदये सर्वदा सद्भावाः एव भवन्ति स्म । तस्य दृष्ट्या शत्रवः अपि सेवासहानुभूत्यै अर्हाः आसन् । यः अपकारं करोति तस्मै अपि उपकारकरणं ज्येष्ठानां श्रेष्ठः गुणः । युधिष्ठिरः तु एतस्य वाक्यस्य सार्थक्यं भजते स्म । कदाचित् पाण्डवाः द्वैतवने आसन् । तदा घोषयात्रायाः कारणतः दुर्योधनः स्वस्य मन्त्रिभिः, अनुजैः, राज्ञीवासस्य महिलाभिः, सह बृहत् सैन्यं स्वीकृत्य, स्वस्य वैभवं दृष्ट्वा पाण्डवाः असूयाम् अनुभवन्तु इति दुरुद्देशेन तत्रैव आगतवान् । पाण्डवानां कुटीरस्य समीपे विद्यमाने सरोवरे जलक्रीडार्थं गतवान् । ततःपूर्वम् एव गन्धर्वाः सरोवरस्य आक्रमणं कृतवन्तः आसन् । दुर्योधनः तैः सह सङ्घर्षणं कृतवान् । भीषणयुद्धे गन्धर्वाणां विजयः अभवत् । ते राज्ञ्या सह दुर्योधनस्य अपि बन्धनं कृतवन्तः । तदा युधिष्ठिरः अनुजान् वदति यत् ‘भवन्तः गत्वा दुर्योधनं बन्धनात् मोचयित्वा आनयन्तु । सः अस्माकं शत्रुः चेदपि इदानीं कष्टे अस्ति । कष्टकाले साहाय्यकरणं तु अस्माकं धर्मः । सः तु अस्माकं सहोदरः एव । अस्माकम् उपस्थितौ तस्य एतादृशी दुर्गतिः न भवेत् ’ इति । क्षणाभ्यन्तरे अर्जुनः शरवर्षणेन गन्धर्वाणाम् अहङकारं भञ्जयित्वा अनुजैः, राज्ञ्या सह दुर्योधनस्य बन्धमोचनं कृतवान् । दुर्योधनस्य दुष्टषड्यन्त्रं ज्ञात्वा देवराजः इन्द्रः एव तस्य बन्धनार्थं गन्धर्वान् प्रेषितवान् असीत् । युधिष्ठिरस्य हृदयवैशाल्यं दृष्ट्वा ते सर्वे आश्चर्यचकिताः । धन्यः अजातशत्रुः !

कदाचित् आश्रमे द्रौपदी एकाकिनी आसीत् । पृष्ठतः दुर्योधनस्य आवुत्तः सिन्धुराजा जयद्रथः तत्र आगतवान् । द्रौपद्याः अनुपमसौन्दर्यं, लावण्यं च दृष्ट्वा तस्य मनसि विकारः उत्पन्नः । यदा सः स्वस्य दुर्भावनां प्रकटितवान् तदा द्रौपदी तं तिरस्कृतवती । तदा सः तां बलात् आकृष्य स्वस्य रथे उपवेश्य ततः प्रस्थितवान् । विषयं ज्ञात्वा पाण्डवाः तम् अनुसृतवन्तः । तस्य सैन्यं पराजितवन्तः च । भीतः जयद्रथः प्राणरक्षणार्थं धावन् आसीत् । भीमः गत्वा तं गृहीत्वा धर्मराजस्य पुरतः आनीतवान् । धर्मराजः तु सः सम्बन्धी इति मत्वा दयया तस्य मोचनं कृतवान् । एवं स्वस्य क्षमाशीलतायाः स्वभावं दर्शितवान् ।

महाराजः युधिष्ठिरः श्रेष्ठविद्वांसः, नीतिज्ञः, धर्मज्ञः च आसीत् । तस्मिन् अद्भुता समानता आसीत् । कदाचित् कश्चनः ब्राह्मणः कस्यचित् वृक्षस्य शाखायाम् अग्निहोत्रस्य उपयोगाय वृक्षस्य समिधाः स्थापितवान् आसीत् । कश्चनः हरिणः आगत्य स्वस्य शृङ्गेन वृक्षस्य घर्षणं कृतवान् । तदा तस्य शृङ्गे एषः समिधाग्र्न्थिः संलग्नः अभवत् । तेन विना अग्निहोत्रस्य कार्यं न चलति स्म । अतः सः ब्राह्मणः आगत्य समिधाः आनीय ददातु इति युधिष्ठिरं प्रार्थितवान् । पञ्चपाण्डावाः अपि हरिणस्य पृष्ठतः धावितवन्तः । सर्वेषु पश्यत्सु एव सः हरिणः कुत्रापि अदृश्यः अभवत् । पाण्डवाः बहुश्रान्ताः, पिपासिताः च अभवन् । धर्मराजस्य आज्ञां प्राप्य नकुलः जलस्य अन्वेषणं कर्तुं प्रस्थितवान् । स्वल्पे दूरे एव तेन एकः सुन्दरजलाशयः प्राप्तः । समीपं गत्वा यदा जलं पातुं यत्नं कृतवान् तदा काचन अशरीरवाणी श्रुता । ‘प्रथमं मम प्रश्नस्य उत्तरं ददातु, अनन्तरं जलं पिबतु’ इति । किन्तु पिपासितः नकुलः अशरीरवाण्याः निर्लक्ष्यं कृतवान् । जलं पीतवान् च । अनुक्षणं निर्जीवः भूत्वा भूमौ पतितवान् । ततः युधिष्ठिरः क्रमशः सहदेवम्, अर्जुनं, भीमसेनं च प्रेषितवान् । त्रयाणामपि सा एव स्थितिः अभवत् । अन्ते धर्मराजः स्वयं जलाशयस्य समीपं गतवान् । सोऽपि अशरीरवाणीं श्रुतवान् । पतितान् अनुजान् अपि दृष्टवान् । तावता सः विशालकायं कञ्चन यक्षं दृष्टवान् । सः यक्षः वदति ‘मम प्रश्नानाम् उत्तरम् अदत्त्वा जलं पीत्वा भवतः अनुजाः एतादृशीं स्थितिं प्राप्तवन्तः । भवान् अपि उत्तरदानेन विना यदि जलं पिबति तर्हि मरणं प्राप्नोति’ इति । युधिष्ठिरः उत्तरं दातुं सज्जः अभवत् । यक्षस्य सर्वेभ्यः प्रश्नेभ्यः एषः समिचीनतया उत्तरं दत्त्वा तस्य समाधाननं कारितवान् । तदा प्रसन्नः यक्षः वदति यत् ’भवतः अनुजेषु भवान् यम् इच्छति तम् जीवन्तं करोमि’ इति । तदा धर्मराजः नकुलस्य पुनर्जीवनम् इष्टवान् ।

बाह्यसम्पर्कन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=युधिष्ठिरः&oldid=460545" इत्यस्माद् प्रतिप्राप्तम्