रघुमहाराजः
इष्वाकु |
---|
सूर्यवंशस्य राजा रघुः खट्वाङ्गः इति राज्ञः पुत्रः । अस्य पुत्रः अजः । रघुः स्वपराक्रमेण समग्रभूमण्डलं जित्वा सङ्गृहीतसम्पदा विश्वजिद्यज्ञं समाचर्य सकलां सम्पत् दानेन विनियोजितवान् । पश्चात् वरतन्तोः शिष्यः कौत्सः स्वगुरुदक्षीनार्थं १४कोटीः सुवर्णनिष्कान् सङ्ग्रहीतुं रघोः निकटम् आगत्य अयाचत । रघुमहाराजः ससन्तोषं स्वागतीकृत्य अर्घ्यपूजाद्रव्यानि मृत्पात्रे संस्थाप्य अतिथिपूजाम् अकरोत् । रघोः स्थितिं दृष्ट्वा आश्चर्यचकितः कौत्सः ते मङ्गलं भवतु अहं गुर्वर्थम् अन्यतः सम्पादयिष्याम् इति उक्तवा प्रस्थितः ।
सुवर्णवृष्टिः
[सम्पादयतु]अन्यतः गच्छन्तं कौत्सम् अवरुद्ध्य गघुः मा गच्छतु । दिनसेकस्य अवाशम् अनुगृह्णातु भवतः गुरुदक्षिणाकनकं सम्पाद्य दास्यामि इति आश्वासनं दत्तवान् । अन्येद्युः प्रातः एव कुबेरस्य राजसदने जैत्रयात्रामुदघोषयत् । वार्तां श्रुत्वा भीतः कुबेरः अयोध्यायाः रघोः राजकोशे सुवर्णवृष्टिम् अकरोत् । रघुः कौत्सं तत्रैव नीत्वा सर्वां सम्प्तत् स्वीकर्तुम् उक्तवान् । किन्तु कौत्सः १४कोटिनाणकानि सङ्गृह्य अवशिष्टानि तत्रेव गच्छान् आसीत् । तदा तमाहूय एषा सकला सम्पत् त्वदीया एव अवदत् । किन्तु कौत्सः सद्गुणभूषितं वंशोद्धारकं पुत्रं प्राप्नोतु । अयं प्रदेशः सुवर्णखनिः इति प्रसिद्धिमाप्नोतु । अस्मिन् पुण्यदिने वैशाखशुद्धद्वादश्याम् अत्र यः स्नानं करिष्यति सः पापविमुक्तो भूत्वा विष्णुलोकं गमिष्यति । इति आसिषम् उक्त्वा निर्गतः । पश्चात् रघुः अवशिष्टां सकला सम्पत् कोशे न विनिवेश्य ग्रामस्य विप्रेभ्यः वितीर्णवान् ।