हिमालयः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिमालयः
कोटि
शिखरम् एवरेस्टशिखर (नेपाल एवं चीनः)
औन्नत्यम् ८,८४८ m ( ft)
यामः 27°59′17″N 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528
भूगोल
Himalayas Map.png
The general location of the Himalayas mountain range.
Countries

भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः ।

जीवपरिसरविज्ञानम्[सम्पादयतु]

हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया (panjiya) भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर्(1/2 cm) पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।

Cedrus deodara Kullu 3.jpg

भूगोलम्[सम्पादयतु]

हिमालयपर्वतश्रेणी पश्चिमदिशि 'नङ्गापर्वत’तः पूर्वदिशि 'नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी । हिमालयपर्वतश्रेणिषु समानान्तरे स्थिताः तिस्रः विभिन्नश्रेण्यः भवन्ति ते एवं सन्ति - १) उपहिमालयः - एषः शिवालिकहिल्स इति भारते कथ्यते । १२०० मीटर् उन्नता एषा पर्वतश्रेणी सद्यः एव सृष्टा वर्तते । वर्धमानेभ्यः पर्वतेभ्यः पतितेन भूभागेन एषा श्रेणी सृष्टा वर्तते। २)अधस्तनः हिमालयः - सामान्यतया २०००-५००० मी. उन्नता एषा पर्वतश्रेणी भारतस्य हिमाचलप्रदेशनेपालदक्षिणप्रदेशयोः मध्ये भवति । डार्जिलिंग्, शिम्ला, नैनिताल, इत्यादीनि भारतदेशस्य प्रसिद्धानि गिरिधामानि अत्रैव सन्ति । ३)उपरितन हिमालयः - उत्तरभागे स्थिता एषा पर्वतश्रेणी नेपालस्य उत्तरभागे टिबेटप्रान्तस्य दक्षिणभागे च भवति । सामान्यतः ६००० मीटर अपेक्षया अधिकोन्नतेषु पर्वतेषु प्रपञ्चे अत्युन्नतानि शिखराणि एवरेस्ट्, k-२, काञ्चनगङ्गा अत्रैव अन्तर्भवन्ति ।

हिमनद्यः[सम्पादयतु]

हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी सियाचिन अत्रैवास्ति ।

नद्यः[सम्पादयतु]

हिमालयपर्वतशिखरणि सर्वदा हिमावृतानि भवन्ति । अनेकाः प्रमुखाः नद्यः इतः एव प्रवहन्ति । टिबेत् मध्ये सेङ्गे गारु नद्योः सङ्गमे प्रभूय पाकिस्थाने प्रवह्य ततः सिन्धुसागरं (अरब्बीसमुद्रं) प्रविशति । गङ्गोत्र्यां गङ्गनदी उद्भवति । ततः अलकनन्दां यमुनां च सम्प्राप्य भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । पश्चिमटिबेटमध्ये ब्रह्मपुत्रः नदः प्रभवति । ततः दक्षिणपूर्वदिशि प्रवहति । पुनः प्रवाहस्य दिक्परिवर्तनं कृत्वा भारते बाङ्ग्लादेशे च प्रवह्य गङ्गासागरं (बङ्गालकोल्लीं) प्राप्नोति । अन्याः हिमालयात् प्रभूताः नद्यः इरवड्डी, सल्वीन् इत्याद्यः नद्यः बर्मादेशे प्रवहन्ति ।

सरोवराणि[सम्पादयतु]

हिमालयप्रदेशे शताधिकानि सरांसि सन्ति । ५००० मीटर् औनत्यात् पूर्वमेव अत्र अनेकानि सरांसि सन्ति । किन्तु यथा यथा उन्नतस्थानं गच्छामः तथा तथा सरसां विस्तारः (वैशाल्यं) न्यूनः भवति । भारतटिबेटसीमारेखायां वर्तमानं सरः ८ कीलोमीटर् विशालं १३४ की.मी दीर्गं सर्वस्मात् सरसः अपि महत् सरः एतत् ४६०० मी. उन्नते स्थाने वर्तते । उन्नतप्रदेशे मुख्यम् एकं 'गरुडोग्मार' सरः अस्ति । उत्तरसिक्किं प्रदेशे वर्तमानं गुरुडोग्मारसरः ५१४८ मी. उन्नतप्रदेशे अस्ति । महत्सु सरस्सु भारतचीनासीमायां सिक्किं प्रदेशे छाङ्गु नामकं सरः अन्यतमम् । हिमनदीनां प्रभावेण सृष्टानि सरांसि Tarn इति भूविज्ञानिभिः कथ्यन्ते। अधिकाः टार्नाः हिमालयप्रदेशे ५५०० मी. तः अपि उन्नते प्रदेशे दृश्यन्ते ।

वातावरणास्योपरि हिमालयस्य प्रभावः[सम्पादयतु]

भारतटिबेटप्रदेशषु हिमालयस्य वातावरण्स्य प्रभावः अधिकतया भवति । आर्टिक्प्रदेशात् यः शीतवायुः वाति सः यथा भारतं प्रति नागच्छेत् तथा नियन्त्रणं करोति । अतः भारतस्य वातावरणं दक्षिणैशिया टिबेटप्रदेशस्य च अपेक्षया समशीतोष्णं भवति तथैव मानसून् मारुतं हिमालयः नियन्त्र्य मिजोराम्, मेघालय इत्यादिपूर्वराज्येषु यथा अधिकवृष्टिः भवेत् तथा करोति । मानसून्मरुतः हिमालयमुल्लङ्घ्य नागन्तुं शक्नुवन्ति इतिकारणतः टिबेट्, चीना प्रदेशेषु गोबिमरुस्थलस्य तथा तक्लमकान् मरुस्थलस्य च निर्मितः अभवत् । शैत्यकाले पश्चिम इरान् प्रदेशतः आगम्यमानां वातावरणस्य प्रक्षुब्धतां हिमालयश्रेणी नियन्त्रणं करोति । एतस्मात् कारणात् काश्मीरप्रदेशे अधिकतया हिमपातः भवति । उत्तरभारते पञ्जाबप्रान्ते च वृष्टिः महती भवति। हिमालयश्रेणी आर्क्टिकतः आगम्यमानं शीतमारुतं नियन्त्रयति । तथापि ब्रह्मपुत्रनदप्रदेशतः शीतमरुतः आगत्य बङ्ग्लाभारतयोः ईशान्यभागस्थितराज्यानां वातावरणम् उष्णीकरोति।

राजकीये संस्कृतिषु च हिमालयस्य प्रभावः[सम्पादयतु]

सहस्रशः वर्षेभ्यः अपि जनानाम् सहजतया गमनागमने हिमालयपर्वतः प्रतिबन्धकः अस्ति । हिमालयस्य महद्गात्रं, वैशाल्यम् औन्नत्यं च अत्र कारणं भवति ।, प्रमुखतया भारतीयानां चीनामङ्गोलियाजनैः सह व्यवहारं कर्तुं कष्टकरं भवति । अत एव एतयोः प्रदेशयोः जनानां मध्ये आचारविचारव्यवहारभाषासु च बहुभेदाः सन्ति । पुरातनकालारभ्यापि वाणिज्यमार्गे साम्राज्यविस्तारं कर्तुं च हिमालयः प्रतिबन्धकः एवास्ति । उदाहरणार्थं चेङ्गिस् खानः स्वसाम्राज्यं हिमालयपर्वतस्य दक्षिणदिशि भारतोपखण्डं च विस्तारयितुं न शक्तवान् ।

शिखरस्य नाम अन्यनामानि अर्थश्च टिप्पणीः
एवरेस्ट् सागरमाथा= अकाशस्य ललाटम् चोमोलुंग्मा अथवा कोमोलंग्म्
k.2. (के-२) छोगो गांग्रि, गाडविन आसृन् प्रपञ्चे द्वितीयमुन्नतं शिखरं पाकिस्तान -चीनासीमायामस्ति। पर्वतमारोढुमतिकष्टकरं भवति।
काञ्चनगङगा काङ्गचेन जोङ्गा -अद्भुताः पञ्चहिमनद्यः निधयः च प्रपञ्चस्य तृतीयमुन्नतं शिखरं, भारतस्य् अत्युन्नतं शिखरम्।
मकालु - प्रपञ्चे पञ्चमोन्नतं शिखरं नेपालदेशे अस्ति ।
धवलगिरिः श्वेतपर्वतः प्रपञ्चे सप्तमोन्नतं शिखरं नेपालदेशेऽस्ति ।
नङ्गा पर्वतः नङ्गापर्वतशिखरम् अथवा डियामिर् नग्नपर्वतः प्रपञ्चे नवमोन्नतं पर्वतशिखरम्। पाकिस्थाने अस्ति । आरोढुमतिकष्टकरम् अपायकारी च ।
अन्नपूर्णा अन्नपूर्णादेवी प्रपञ्चे दशमोन्नतं शिखरं नेपाले अस्ति।
नन्दादेवी -- --

धार्मिकं पौराणिकं च प्रामुख्यम्[सम्पादयतु]

हिन्दु पुराणेषु हिमालयः नाम पर्वतराजः पार्वत्याः पिता, सः देवः इति हिमालयस्योपरि व्याक्तित्वारोपणं कृतमस्ति । हिन्दुबौद्ध्धर्मेषु हिमालये स्थितानाम् अनेकस्थलानां प्रामुख्यं वर्तते ।

हरिद्वारम् -अत्र गङ्गानदी हिमालयात् निसृत्य समतलभूमिं प्राप्नोति। बदरीनाथः -अत्र विष्णुमन्दिरमेकं वर्तते । केदारनाथः -द्वाद्श ज्योतिर्लिङ्गेषु अन्यतमम् गोमुखम्-भागीरथीनद्याः उगमस्थानम्| गङ्गोत्रीनगरात् कानिचन मैल्परिमितदूरे वर्तते । देवप्रयागः-अत्र भागीरथी-अलकनन्दानद्योः सङ्गमः भवति । इतः अग्रे सा गङ्गा भूत्वा प्रवहति । ऋषिकेशः अत्र लक्ष्मणदेवालयः अस्ति कैलासपर्वतः -अस्य शिखरस्य औन्नत्यं ६६३८ मी.परिमितम् । हिन्दवः 'कैलासपर्वतः’ शिवस्य वासस्थानमिति विश्वसन्ति । बौद्धाः अपि पूज्यभावनया शिखरमिदं परिगणयन्ति । ब्रह्मपुत्रः नदः अस्मात् पर्वतात् प्रवहति मानससरोवरम् अपि अत्रैवास्ति । अमरनाथः -अत्र प्राक्रुतिकं शिवलिङ्गमुद्भवति । इदं शैत्यकाले कतिचन सप्ताहान् यावत् तिष्ठति। तदा लक्षसंख्यासु यात्रिकाः आगत्य शिवलिङ्गदर्शनं कुर्वन्ति । वैष्णोदेवी -दुर्गाभकताः विशेषतया अत्र आगच्छन्ति । दलैलामा निवासोऽप्यत्र भवति । टिबेटप्रदेशस्य बौद्धानां तीर्थक्षेत्राणि हिमालये दरीदृश्यन्ते ।

येति -वानरजातेः अयं प्राणिः अतिमहान् प्रसिद्धश्च, हिमालये अस्य वासः इति सर्वे विश्वसन्ति । परन्तु अद्यतनविज्ञानिनः "इयमेका अवैज्ञानिकी कल्पना" इति वा "किंवदन्ति स्यात् इति वा, "सामान्यप्राणिनं दृष्ट्वा जनाः एवम् अकल्पयन्" इति वा चिन्तयन्ति।

शम्भालः-बौद्धधर्मे उच्चमानमेकं दैविकं नगरम् । केषाञ्चन आधारविषयानामनुसारेण एतदेकं भौतिकं नगरं वर्तते । अत्र पुरातनं रहस्यं, बौद्धिक-उपदेशान् रक्षितवन्तः । पुनः अनेकेषाम् अभिप्राये इदं नगरं अस्तित्वे एव नास्तीति मानसिकनगरमिति अस्ति ।

श्रीहेमकुण्डसाहेब् -सिक्खधर्मस्य गुरुद्वारम् । सिक्खधर्मगुरुः गुरुगोविन्दसिंहः तस्य पूर्वजन्मनि एकस्मिन् अवतारे तपः कृत्वा मोक्षं प्राप्नोदिति केचन विश्वसन्ति ।

हिमालयपर्वतश्रेणी जगति एव अत्युन्नता पर्वतश्रेणी । पश्चिमस्य सिन्धुतः पूर्वस्य ब्रह्मपुत्रपर्यन्तं १५०० मैलपर्यन्तं प्रसृतः अस्ति हिमालयः । हिमालयस्य उत्तरभागे "त्रिविष्टप”नामिका (टिबेट्) विशाला प्रस्थभूमिः अस्ति । समुद्रतः १५,००० पादमिते औन्नत्ये अस्ति एषा पीठभूमिः । सर्वदा अपि हिमाच्छादितान् एतान् पर्वतान् "हिमाद्रिः” इति वदन्ति । गौरीशङ्करः, धवलगिरिः, काञ्चनगङ्गा, नङ्गप्रभातः, नन्दादेवी, गोसाईनाथः, फूलचौका, शिवपुरिः, महाभारतः, चन्द्रगिरिः, इन्द्रस्थानं, भिरवन्दिः, कुमारपर्वतः, त्रिशूलः, कैलासः, केदारः, हेमकुण्डम्, अमरनाथः इत्यादीनि असंख्यानि गगनस्पर्शिशिखराणि सन्ति हिमालये । सिन्धुनद्याः पश्चिमे विद्यमानः "हिन्दुकुश”पर्वतः अपि हिमालयस्य एव कश्चन भागः । हिमाद्रेः पूर्वशाखा आग्नेयदिशि विद्यमाने ब्रह्मदेशे (बर्मा) अपि प्रसृता अस्ति ।

हिमालयस्य विभागाः[सम्पादयतु]

पूर्व-पश्चिमदिशि वैशाल्यानुगुणं हिमालयः पञ्चधा विभक्तः ।

१. काश्मीर-हिमालयः :- अस्मिन् विभागे जम्मु तथा पूञ्छभागस्य गिरयः, काराकोरं च अन्तर्भवन्ति । लडाखस्था पीठभूमिः अपि अस्य भागः एव । नङ्गापर्वतः, गाड्विन्, आस्टिन् इत्यादीनि २६००० पादोधिक-उन्नतानि शिखराणि सन्ति अत्र । उन्नतानि शिखराणि, गभीराणि खातानि, हिमनद्यः च सन्ति अस्मिन् विभागे ।

२. पञ्जाब्-हिमालयः :- अस्मिन् विभागे पञ्जाब् तथा हिमाचलप्रदेशस्य पर्वतीयाः प्रदेशाः अन्तर्भवन्ति । पञ्जाबप्रदेशे प्रवहन्त्यः सर्वाः अपि नद्यः अस्मिन् हिमालयभागे एव उद्भवन्ति । पीरपञ्चालस्य अपेक्षया (१५००० पादमितम्) उन्नतानि शिखराणि सन्ति अस्मिन् विभागे ।

३. कुमावु-हिमालयः :- एषः विभागः अस्ति उत्तरप्रदेशे । एतेभ्यः पर्वतेभ्यः गङायाः यमुनायाः च प्रवाहाः वेगेन प्रवहन्तः अधः अवतरन्ति । अस्य विभागस्य उन्नतं शिखरम् अस्ति नन्दादेवी (२६,६९५ पादमितम्) । १८,००० – २४,००० पादमितानि उन्नतानि शिखराणि बहूनि सन्ति अस्मिन् विभागे ।

४. नेपाल-हिमालयः :- अस्मिन् भागे २६,००० पादापेक्षया उन्नतानि बहूनि शिखराणि सन्ति । धवलगिरिः (२६,७६५ पादमितम्), अन्नपूर्णा (२६,४९० पादमितम्), मनासल् (२६,६०० पादमितम्), गोसाईनाथः (२६,३९१ पादमितम्), चो ओयू (२६,५९० पादमितम्), गौरीशङ्करः (२९,००२ पादमितम्), मकालू (२७,९५०पादमितम्), काञ्चनगङ्गा (२८,१४६ पादमितम्) एतानि अत्रत्यानि प्रमुखाणि शिखराणि । अयं विभागः शतशः हिमनदीभिः प्रवाहैः च समृद्धः अस्ति ।

५. पूर्व-हिमालयः :- अयं विभागः घोरारण्ययुक्तः । ब्रह्मपुत्रः अस्य भागस्य प्रमुखः नदः । अस्मिन् भागे महता प्रमाणेन वृष्टिः भवति । नामचा बरवा (२५,४४१ पादमितम्) अस्य भागस्य प्रमुखं शिखरम् । एतत् शिखरम् अस्सांराज्ये अस्ति । अस्य भागस्य शिखराणाम् औन्नत्यम् अन्यभागानां शिखराणाम् औन्नत्यस्य अपेक्षया न्यूनम् ।

अस्य पर्वतराजस्य हिमालयस्य परिवारे आहत्य १४६ गगनस्पर्शि-शिखराणि सन्ति इति उच्यते । तेषु शिखरत्रयं २८,००० पादमितापेक्षया उन्नतम् । ५ शिखराणि २७,००० पादमितापेक्षया उन्नतानि । १६ शिखराणि २६,००० पादमितापेक्षया उन्नतानि । ४८ शिखराणि २५,००० पादमितापेक्षया उन्नतानि । ७४ शिखराणि २४,००० पादमितापेक्षया उन्नतानि । २२,०२२ पादमितः उन्नतः कैलासपर्वतः टिबेट्प्रदेशे अस्ति । भारतस्य अनेकासां महानदीनाम् उद्भवस्थानम् अयं कैलासपर्वतः ।

पञ्जाबराज्यस्य सर्वाः अपि महानद्यः गङ्गा, यमुना, ब्रह्मपुत्रः, काली, गोग्रा, गण्डकी, कोसी, बाघमती, विष्णुमती, सरस्वती इत्यादयः जन्म प्राप्नुवन्ति अस्मिन् हिमालये एव । कैलासं, मानसं, राक्षसतलं, बिन्दुसरोवरः, अमरनाथः, हरिद्वारं, हृषीकेशः, प्रयागत्रयं, गुप्तकाशी, गौरीकुण्डं, केदारः, बदरी, सरगमाथा, ल्हासा, कीर्तिपुरं, नीलकण्ठसरोवरः, गोकर्णं, पशुपतिनाथः, ज्वालामुखी, गङ्गोत्री, यमुनोत्री, मुक्तिनाथः इत्यादीनि अगणितानि तीर्थस्थानानि सन्ति अस्मिन् हिमालयभागे । पार्थः परमेश्वरेण सह युद्धं कृत्वा पाशुपतास्त्रं प्राप्नोत् अस्मिन् एव पर्वतीयभागे ।

प्राचीनसाहित्ये हिमालयः[सम्पादयतु]

अयं पर्वतः प्राचीनेषु ग्रन्थेषु हिमवत्, हिमवान्, हिमाचलः, हिमाद्रिः, हैमवत् इत्यादिभिः नामभिः निर्दिष्टः अस्ति । अर्जुनस्य बलरामस्य च यात्रा, भीम दुर्योधनयोः गदायुद्धं, पाण्डवानां स्वर्गारोहणं च अस्मिन् एव अभवन् । हिमालयः अत्यन्तं श्रेष्ठः । श्रीकृष्णः भगवद्गीतायां "स्थावराणां हिमालयः अहम्” इति उक्तवान् अस्ति । "अयं वर्षपर्वतः पूर्वसमुद्रतः पश्चिमसमुद्रपर्यन्तं पसृतः अस्ति” इति उक्तम् अस्ति मार्कण्डेयपुराणे । "अयं पूर्वतः पश्चिमदिशि १०८० योजनं यावत् प्रसृतः अस्ति” इति उक्तम् अस्ति कूर्मपुराणेमत्स्यपुराणे समग्रे एकस्मिन् अध्याये हिमालयस्य फल-पुष्पसम्पत्तेः वर्णनम् एव कृतम् अस्ति । सर्वासां नदीनां मातृरूपिणी देवगङ्गा उद्भूता हिमालये एव । माता पार्वती अपि हिमपर्वतस्य एव पुत्री इति अस्माकं विश्वासः । तस्याः कारणतः एव हिमालयस्य अत्युन्नतं शिखरं "गौरीशङ्करः” इति नाम्ना निर्दिष्टः ।

हिमालयस्य भव्यतया, दिव्यतया, गहनतया, महानतया च मन्त्रमुग्धाः साहित्यकाराः कवयः वा सहस्रशः सन्ति । तेषु महाकविः कविकुलगुरुः कालिदासः अपि अन्यतमः । कालिदासस्य “कुमारसम्भव"काव्यस्य प्रथमे श्लोके एव हिमालयस्य प्रशंसा कृता अस्ति । “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधिवगाह्य स्थितः पृथिव्या इव मानदण्डः ॥“ इति कालिदासस्य “रघुवंशम्” “मेघधूतम्” इति काव्येषु अपि हिमालयस्य वर्णनं महता प्रमाणेन कृतम् अस्ति । रामस्य धैर्यं "स्थैर्येण हिमवानिव" इति हिमालयेन सह तोलितवान् अस्ति वाल्मीकिःभारविः किरातार्जुनीये हिमालयस्य तोलनं वेदैः सह कृतवान् अस्ति । वेदान्तमिव हिमलयः अपि मोक्षदायकः इति तेन उक्तम् अस्ति ।

अनेकेषाम् ऋषिमुनीनाम् आश्रमाः आसन् हिमालये । महर्षेः वसिष्ठस्य आश्रमः आसीत् हिमालयस्य उपत्यकायाम् । तमसातीरे वाल्मीकिमहर्षेः आश्रमः आसीत् । मालिनीनद्याः तीरे कण्वाश्रमः आसीत् । व्यासाश्रमः आसीत् बदरीसमीपस्थे "माण”नामके ग्रामे । तत्रत्यायां गुहायाम् उपविश्य एव व्यासमहर्षिः “भारतं” “भागवतं” च अरचयत् । हिमालये तपस्विनां परम्परा प्राचीनकालादपि अव्याहतरूपेण अस्ति । ब्रह्मपुत्रः तपः आचरत् अत्रैव । प्रलयकाले मनुः अस्य एव नगाधिराजस्य आश्रयं प्राप्य तपः आचरत् । आचार्यत्रयाणां शङ्करस्य मध्वस्य रामानुजस्य च साधनस्य प्रेरणामूलं हिमालयः एव । अर्वाचीनकाले अपि महर्षिदयानन्दं, स्वामिश्रद्धानन्दं, विवेकानन्दं, रामतीर्थं, शिवानन्दम्, अखण्डानन्दं, गुरूजि-गोल्वल्करं चापि आकर्षत् हिमालयः । अस्याः पवित्रभूमेः मङ्गलमयस्य वातावरणस्य प्रभावः अस्ति तादृशः । तस्मात् एव अनेके साधवः, सज्जनाः, विरागिणः वा भगवत्प्राप्त्यर्थम् आत्मसाक्षात्कारार्थं च अद्यापि हिमालयं गच्छन्ति । हिमाच्छादितानि शुभ्रधवलानि शिखराणि, साक्षात् नभःस्पर्शिनः गिरयः, गभीराणि खातानि, वेगेन प्रवहन्त्यः नद्यः, गहनानि अरण्यानि, विविधाः फलपुष्पपूर्णाः वृक्षाः च हिमालयस्य वैभवं वर्धयन्ति । एतादृशेन वैभवेन मनः प्रमुदितं भवति । धर्मक्षेत्रे,संस्कृतिक्षेत्रे, साहित्यक्षेत्रे, कलाक्षेत्रे, सङ्गीतक्षेत्रे, शिल्पादिषु क्षेत्रेषु अस्माकं जीवनस्य सर्वेषु क्षेत्रेषु अपि हिमालयस्य प्रभावः महान् एव । अयम् अस्माकं दृष्ट्या केवलं शिलामृद्युक्तः गिरिः न । सः हिमालयः, सः देवालयः, परशिवस्य आलयः सः इत्येव अस्माकं विश्वासः ।

हिमालये विद्यमानानि तीर्थक्षेत्राणि[सम्पादयतु]

कैलासक्षेत्रं मानसक्षेत्रं च हिमालये विद्यमाने सर्वश्रेष्ठे तीर्थक्षेत्रे । तत्र प्रवासः अत्यन्तं कष्टकरः । अमरनाथः १३,००० पादं यावत् उन्नते स्थाने अस्ति । तत्र गमनमार्गः अपि अत्यन्तं दुर्गमः । तथापि सहस्रशः जनाः कैलास-मानसयात्रां कुर्वन्ति । पञ्जाबे स्थितं ज्वालामुखीक्षेत्रम् अपि अन्यदेकं पवित्रं क्षेत्रम् अस्ति । दक्षयज्ञक्षेत्रं हरिद्वारम् अपि हिमालयस्य उपत्यकायाम् एव अस्ति । हरिद्वारतः हृषीकेशमार्गेण देवप्रयागं, ततः यमुनोत्रीं, गङ्गोत्रीं, केदारं, बदरीं च गच्छन्ति यात्रिकाः । एतत् सर्वम् अपि क्षेत्रं १०,०००-१५,०००पादं यावत् उन्नते स्थाने अस्ति, हिमावृतं च भवति । नेपाले पशुपतिनाथः, मुक्तिनाथः, दामोदरकुण्डं, गण्डकी, मत्स्येन्द्रनाथः, स्वयम्भूनाथः, बोधनाथः इत्यादीनि पवित्राणि क्षेत्राणि सन्ति । गण्डकीनद्यां सालिग्रामशिला उपलभ्यते । एवं प्रतिपदं पवित्रस्थानानि सन्ति हिमालये । वातावरणदृष्ट्या हिमालयस्य उपकारः महान् एव । कतिपय वर्षेभ्यः पूर्वं रष्यादेशे सञ्जातात् अणुविद्युत्स्थावरस्य अग्निदुरन्तात् उद्भूय प्रस्थितानि अणुविकिरणानि अवरुध्य अस्मान् अरक्षत् हिमालयः एव । यदि तत्र हिमालयः न स्यात् तर्हि भारतस्य वायुः विषमयः अभविष्यत् । दक्षिणतः आगच्छन्तीं वृष्टिम् अवरुध्य भारते विपुलवृष्टिं कारयति हिमालयः एव । हिमालयात् प्रवहन्तीनां नदीनां कारणतः भारतं सुजलं सुफलं सञ्जातम् । अस्माकं जीवनं हिमालयम् अवलम्ब्य स्थितम् इति उक्ते न सा अतिशयोक्तिः ।

अस्य पर्वतस्य शिखराणि अत्युन्नतानि सन्ति । वस्तुतः भूमौ दश उन्नततमाः पर्वताः अपि हिमालये एव स्थिताः। एतानि शिखराणि सदैव हिमेन आच्छादितानि सन्ति। अत एव अस्य पर्वतस्य अभिधानं हिमस्यालयः हिमालयः इति प्रसिद्धोऽस्ति । हिमालयात् गङ्गा-यमुना-शतद्रु-विपाशा-इरावती- वितस्ता-प्रभृतयः अनेकाः नद्यः उद्भवन्ति । एतासां नदीनां जलं भारतवर्षस्य विशालं भूभागं सिञ्चति। अत एव अस्मिन् देशे प्रभूतानि विविधानि धान्यानि फलानि च उद्भवन्ति । अस्मिन् पर्वते विविधाः ओषधयः वृक्षाः धातवश्च विविधानि रत्नानि उपलभ्यन्ते । ग्रीष्मकाले तापेन व्याकुलाः जनाः हिमालयस्य पर्वतीस्थलानि गत्वा सुखम् अनुभवन्ति । अस्मिन् एव पर्वते मानससरोवर-अमरनाथ-बद्रीनाथ-केदारनाथ-हरिद्वार-प्रभृतीनि अनेकानि दर्शनीयतीर्थस्थानानि सन्ति। तत्र पर्वतस्थितासु अनेकासु गुहासु साधकाः तपश्चरन्ति। अत्र देवीनां मन्दिराणि अपि सन्ति। एतस्मात् कारणात् अयं पर्वतः देवभूमिः इत्यपि कथ्यते । हिमाच्छादितानि अस्य उन्नतानि शिखराणि अतिशैत्यात् शत्रुभ्यः च भारतं रक्षति । अयं पर्वतः सुरक्षादृष्ट्या अतीव महत्त्वपूर्णः अस्ति । अत्र अनेकानि युद्धानि अपि अभवन् । अनेनैव कारणेन अस्माकं सुरक्षासैनिकाः अस्य रक्षायै तत्पराः भवन्ति ।

गौरीशङ्करः
काञ्चनशृङ्गः
नन्दादेवी
"http://sa.wikipedia.org/w/index.php?title=हिमालयः&oldid=266164" इत्यस्माद् पुनः प्राप्तिः