भारविः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

भारविः कौशिकगोत्रोत्पत्रस्य नारायणस्वामिनः पुत्रः । भारवेः पूर्वजाः पूर्वम् उत्तरपश्चिमभारतान्तर्गतम् आनन्दपुरं नाम नगरमध्यवात्सुः परतश्च ते नासिकनामकं दक्षिणभारतनग्रमायाताः । एकदा स्वसमसामयिकेन राजकुमारेण विष्णुवर्धनेन समं मृगयायां घोरं काननमुपेतो भारविः मांसं सिषेवे, यत्पापानोदनाय स तीर्थानि बभ्राम । तदीयं काव्यं श्रुत्वा काञ्चीनृपः सिंहविष्णुस्तमात्मराजधानीमानाययत् । सिंहविष्णुतनयेन राजकुमारमहेन्द्रविक्रमेण स तत्र सानन्दमुवास । तस्य पुत्रो मनोरथनामाऽऽसीत् । तस्य प्रपौत्रः दण्डी बभूव । इयं कथाऽवन्तिसुन्दरीकथायां लिखिता । भारवेरेव नामान्तरं दामोदर इत्यथवा दामोदरभारवी भिन्नौ पुरुषावितिसन्देहो दुरपासः ।

परिचयः[सम्पादयतु]

भारवेः जन्मनाम दामोदरः । एतस्य पिता नारायणस्वामी । दामोदरः चालुक्यराजस्य विष्णुवर्धनस्य मित्रम् आसीत् । एषः गङ्गराजस्य दुर्विनीतस्य आस्थाने, पल्लवराजस्य सिंहविष्णो आस्थाने च कञ्चित् कालम् आसीत् इत्यपि ज्ञायते । क्रि श षष्ठे शतके भारविः आसीत् । 'किरातार्जुनीयं' भारवेः सुविख्यातं काव्यम् । महाभारते विद्यामानम् एव कथावस्तु स्वीकृत्य भारविः एतत् महाकाव्यं रचितवान् अस्ति ।

भारविः शैव आसीत् । भारविरिति नाम ऐहोळे शिलालेखे निम्नलिखितरुपेण प्राप्यते –

येनायोजि न वेश्म स्थिरमर्थविधौ विवेकिना जिनवेश्म ।
स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥

अयं पुलकेशिनो द्वितीयस्य ६३४ ई. सामयिकः शिलालेखः, अतो भारविस्तत्पूर्वतनः सम्भवति । किञ्च काशिकावृत्तौ भारवे काव्यमुदाहृतं दृश्यते । अपि च स्वहर्षचरिते बाणेन भारविनामास्मरणात् बाणसमयपर्यन्तं भारवेः प्रसिध्दिरजायतेति तर्कयितुं शक्यते । अतः भारवेः समयः षष्ठेशवीयशतकं मन्तुं युज्यते । भारवेः किरातार्जुनीयम् शिवार्जुनयुध्दमवलम्ब्य निर्मितं भारवेरेकमेव किरातार्जुनीयाभिधं काव्यं प्राप्यते । अष्टादशसर्गनिबध्देऽत्र महाकाव्ये महाभारताधारकं सुन्दरमुपाख्यानं चित्रितम् । द्यूते पराजितो युधिष्ठिरो भ्रातृभिः पत्न्या च सह द्वैतवने वसति स्म । स दुर्योधनस्य शासनपध्दतिं ज्ञातमेकं वनेचरं गुप्तचररुपेण प्रेषितवान् । सर्वं ज्ञात्वा प्रतिनिवृत्तो वनेचरो दुर्योधनस्य नीतिपूर्णं शासनपध्दतिं युधिष्ठिराय निवेदयामस । भीमद्रौपद्यौ युधिष्टिरं बहूत्तेजयामासतुः परं प्रतिज्ञामुल्लङ्घ्य युधिष्ठरो युध्दार्थं न प्रावर्त्तत । अत्रान्तरे वेदव्यासस्तत्रायातः । स पाशुपतास्त्रमासादयितुमर्जुनं तपस्यार्थमिन्द्रकीलं नाम पर्वतं प्रेषयामास । तपस्यतोऽर्जुनस्य ब्रतभङ्गाय देवबाला आगत्य विफलप्रयासा अभवत् । इन्द्रः स्वयं तदाश्रममागत्य तं प्रोत्साहयामास । अर्जुनस्य तपोबलं परीक्षितुं शिवः किरातवेषमादायागतः । मायावी शुकरोऽर्जुनस्याश्रमपार्श्वेऽदृश्यत । अर्जुनकिरातौ सहैव तत्र शूकरे बाणं प्रचिक्षिपतुः । इदमेव युध्दकारणमजायत । युदध्यमानयोः किरातार्जुनयोर्गाण्डीवी भुजाभ्यामाजध्ने कनकशिलानिभं विषमविलोचनस्य वक्षः । अर्जुनपराक्रमदर्शनतुष्टः शिवोऽर्जुनाय पाशुतास्त्रं ददौ ।

कालः[सम्पादयतु]

संस्कृतमहाकाव्यपरम्परायां भारवेस्तृतीयं स्थानं कालक्रमदृष्ट्या । स हि संस्कृतकाव्यजगति अलङ्कृतशैल्याः प्रथम उन्नायकः पण्डितयुगस्य प्रवर्तकश्च । तस्य किरातार्जुनीयं महाकाव्यं प्रसिद्धं यद्धि काव्यसर्वस्वभूतयोर्भावकक्षापक्षयोः समन्वयापेक्षयापि कवेः पाण्डित्यप्रदर्शनमेव प्राधान्येनावलम्बते।

महापण्डितस्यास्यैतिह्यविषये स्पष्टतया न किमपि ज्ञायते। केचनामुं दाक्षिणात्यं मन्यन्ते कतिपये तूत्तरखण्डभवमपि । स्वविषये कविमनमेवालम्बते पण्डितेतरवत् । एतावदेव निश्चीयते यत्कविरसौ माघपूर्ववर्ती कालिदासपरवर्ती च। सम्प्राप्ताभिलेखेषु पुलकेशिनो द्वितीयस्य चालुक्यवंश्यस्य शासनकाले रविकीर्तिना समुट्टङ्किते शिलाभिलेखे कविरयं कालिदासेन सह स्मृतो दृश्यते । यथा - १७.....................

येनायोजि नवेश्यस्थिरमर्त्यविधौ विवेकिना जिनवेश्म।

स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः ॥३७॥ इति ।

१८. ......... शिलालेखोट्टङ्कनसमयश्चेत्थं निर्दिष्टः

१६. ........

त्रिंशत्सु त्रिसहस्रेषु भारतादाहवादितः, सप्ताब्दशतयुक्तेषुः गतेष्वब्देषु पञ्चसु।।३३॥

पञ्चाशत्सु कलौ काले षट्सु पञ्चशतासु च, समासु समतीतासु शकानामपि भूभुजाम् ।।३४॥

महाभारतयुद्धकालतः ३०३० वर्षानन्तरं, कलेः ३०३०+७०५= ३७३५ मितवर्षे शककालात् ५५६ वर्षेषु व्यतीतेषु चेत्यस्याशयः । कलेः ६३६ वर्षेषु व्यतीतेषु युधिष्ठिरो जनिं लेभे। महाभारतयुद्धे सोऽशीतिवर्षवयस्क आसीत् । तेन हि कलेः ७२६ वर्षेषु व्यतीतेषु महाभारतयुद्धं प्रवर्तितमासीत् । तथैव नृपविक्रमार्कात् १३५ वर्षेषु यातेषु शकयुगः प्रवर्तितो मन्यते । तेन शकाब्दक्रिष्टाब्दयोरपि ७८ वर्षाणामन्तरं विद्यते । अतोऽस्य कालः ६७१ मितवैक्रमाब्दमभितो दृश्यते । तदा कालिदाससमकक्षमेव ख्यातिकीर्तिना कविना न्यूनमपि ततः शताब्दीपूर्ववर्तिना भाव्यम्। अपरञ्च विक्रमानन्तरं ७०७ मितवर्षाण्यभितः प्रणीतायामष्टाध्याय्याः काशिकावृत्तौ 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवीयं पद्यमुदाहृतं दृश्यते । तेन न कथमपि भारविना तत्परवर्तिना भाव्यम् । अवन्तीसुन्दरीकथानुसारेण भारविः विष्णुवर्धनाऽऽख्यस्य कस्यचिन्नृपस्य सभापण्डितः आसीदिति ज्ञायते । यथोक्तं तत्र -

स मेधावी कविर्विद्वान् भारविः प्रभवो मिराम् ।

अनुरुध्याऽकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ।। इति ।

केचिदत्र भारविशब्दं द्वितीयान्तमपि पठन्ति । तथैवाऽप्यस्तु । कोऽसौ विष्णुवर्धन इत्यपेक्षायां समालोचकास्तं पुलकेशिनोऽनुजं मन्यन्ते, येन ६७२ मितवैक्रमाब्दे श्रीहर्षः पराजितः । वस्तुतस्तु तर्कोऽयं तथ्येन सह नैव संवदते इति मन्यते। यतो हि -

११. अपरिमितविभूतिस्फीतसामन्तसेना, मुकुटमणिमयूखाक्रान्तपादारविन्दः ।

युधि पतितगजेन्द्रानीकबीत्सभूतो, भयविगलितहर्षो येन चाकारि हर्षः ॥२३॥

इति ऐहोलाभिलेखे स्मृतं दृश्यते । यदि हि पुलकेशिनोऽनुजस्य विष्णुवर्धनस्य सभासत्त्वेन भारविगृह्यते तदो तस्य रविकीर्तेरपि परकालिकत्वमारतेत् । तेन हि यदि भारवेविष्णुवर्धनाख्यस्य सभापण्डितत्वमेवं मन्येत तदाऽपि विष्णुवर्धनेन केनाऽप्यन्येन पुलकेशिपूर्ववर्तिना भाव्यम् । कतिपये तु बाणेन हर्षचरिते स्वपूर्ववर्तिकविप्रसङ्गे भारविनैव स्मृतोऽतस्तेन बाणपरवर्तिना भाव्यमित्यपि निर्दिशन्ति । सत्यमेतावन्मात्रमत्र यत्, बाणो भारविं नाम्ना नैव स्मरति । बाणो हर्षसभापण्डितः । तेन बाणरविकीर्त्योः समकालिकत्वं मन्यते। श्रीहर्षो हि सम्राट् ६६२ मितवैक्रमाब्दे साम्राज्येऽभिषिक्तः ७०५ मितवैक्रमाब्दे निर्वाणमाप्तवान् । बाणस्तु हर्षनिधनानन्तरमपि जीवित आसीत् । ६७१ मितवैक्रमाब्दे रविकीर्तिना तथाऽऽदृत भारविर्यदि बाणेन नैव स्मृतश्चेत्तद् बाणस्यैव दोषो वा तदुपेक्षा।

सम्भवति कान्यकुब्जेश्वरसभासद्भूतो बाणो भारविं नैव जानाति स्म तथा वा ते समुल्लेखनीयं नैव मन्यते स्म । भारवेः प्रसिद्धिरधिकरूपेण दाक्षिणात्यप्रदेश एवाऽऽसीत्तदानीम् । बाणो भारविं जानन्नपि केनाऽपि कारणेन नैव तत्रोल्लिखति इति मन्यते विद्वद्भिः। यतो हि ७०७ मितवैक्रमाब्दानभितः प्रणीतायां काशिकायां स्वकथनदार्ढ्याय 'संशय्य कर्णादिषु तिष्ठते यः' इति भारवेर्वचनं काश्मीरौ जयादित्यवामनौ परमप्रामाणिकत्वेनौद्धरतः तत्समकालीन एव प्रीतिकूटवासी बाणो नैव तज्ज्ञानातीति नैव विश्वासभूमिः । तत्र प्रादेशिकताऽपि कारणत्वेन सम्भवति। यतो हि न केवलं बाणोऽपि तु ध्वन्यालोक कृदपि भारविं नैवोद्धरति किन्तु बाणभट्ट बहुशः विद्वत्प्रसिद्धिरपि भारविं बाणपूर्ववर्तिनमेव समर्थयति । यथा -

मेण्ठे स्वद्विरदाधिरोहिणिवशं याते सुबन्धौ विधेः।

शान्ते हन्त च भारवौ विघटिते बाणे विषादस्पृशः।।[१]

दण्डिनः -

वंशवीर्यप्रतापादीन् वर्णयित्वा रिपोरपि।

तज्जयान्नायकोत्कर्षकथनं च धिनोति न।।[२]

इति कथनं भारवेः किरातार्जुनीये प्रतिभटकिरातवर्णनं लक्षयति इति समालोचकाः वदन्ति । सति तथा भारवेर्दण्डिनोऽपि पूर्ववर्तित्वं मन्यते।

एवमेव दुर्विनीताख्येन कोङ्कणनरेशस्याविनीतस्य पुत्रेण किरातार्जुनीयस्य पञ्चदशसर्गस्य टीका प्रणीताऽऽसीत् । स च राजा ६३७ मितवैक्रमाब्दमभितः स्थितिवानासीत् । अनेनापि भारवेस्तत्समये प्रसिद्धिः मन्यते। दण्डिप्रणीतत्वेन प्रसिद्धायामवन्तिसुन्दरीकथायां कथितम् -

"को हि नाम भगवतीं भवितव्यतामतिक्रम्य यथासमीहितेन,

साधयति यथा यतः कौशिककुमारं महाशैवं महाप्रभावम्।

गवां प्रभवं प्रदीप्तभासं भारविं रविमिवेन्दुरनुरूप्यदर्श

इव पुन्यकर्मणि विष्णुवर्धनाख्ये राजसूनौ प्रणयमन्वबध्नात्।'' इति ।

दण्डिनः कथनमिदमादाय पण्डिताः भारविनं दण्डिनः प्रपितामहं मन्यन्ते । उक्तं हिं यद् भारविरस्योपाधिः, जन्मनाम तु दामोदरः । असौ हि नारायणस्वामिनः पुत्रः । तस्य पुत्रो मनोरथाऽऽख्यः । तस्य च वीरदत्तादयश्चत्वारः सुताः । वीरदत्तस्य गौर्याख्यायां पत्न्यां जातो दण्डीति । एतेन भारवेः दामोदरस्य चैक्यं मन्यते। किन्तु नैतद्विश्वासभूमिः । न च दण्डिना तत्समर्थितं यत्र कुत्रापि न च किरातार्जुनीयव्याख्यातारश्च तत्स्मरन्ति । एतेन भारवेः दण्डिपूर्ववतत्वं तु सूच्यत एव।

एवञ्च सन्ति कतिपयानि वचनानि यैर्भारवेर्माघपूर्वर्वितत्वं संसूच्यते । यथा -

“तावद्भा भारवेर्भाति यावन्माघस्य नोदयः ।"

"उपमा कालिदासस्य भारवेरर्थगौरवम्।

दण्डिनः पदलालित्यं माघे सन्ति त्रयो गुणाः।।"

नैतावन्मात्रमपि तु बृहत्त्रय्यां किरातार्जुनीयस्यैव नाम प्रथमं गृह्यते तदनन्तरमेव शिशुपालवधनैषधीयचरितयोः । एभिरन्यान्यैश्च प्रमाणैरनुमीयते यद्भारविः न्यूनतमपि विक्रमानन्तरं षष्ठशतके स्थितिवानासीत् । तस्य स्थितिकालः कविजीविते ५८५ मितवैक्रमाब्दमभितोऽनुमितः । तस्य हि हंसराजानुसारेण ६०७ मितवैक्रमाब्दः स्थितिकालः । राजशेखरः उल्लिखति -

इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्।।

इति। तस्य एतत् कथनमादृत्य भारविः विक्रमानन्तर ५००-५८० मितवर्षान्तरालवर्ती मन्यते, बाणात् न्यूनतममपि शताधिकवर्षपूर्ववतनम्।

देशः[सम्पादयतु]

न केवलं स्थितिकालस्यापि तु कवेरस्य देशविषयेऽपि तथैवान्धकारो विद्यते । राजशेखरानुसारेणासौ विशालायां परीक्षित आसीत् किन्तु नैतावताऽस्य देशो निर्णीतुं शक्यते । अधिकांशतः पण्डिता अमुं दाक्षिणात्यं मन्यन्ते किन्तु अस्य शरद्धिमालययोर्वर्णनं तु कविममुमौत्तरीयमेव सूचयति । अस्य हि सह्याद्रिप्रसंगमालोक्य केचित्तं महाराष्ट्रीयं मन्यन्तेऽन्ये तु तद्वाचोयुक्तिमेव मन्यन्ते।

रचना[सम्पादयतु]

भारवेः कृतित्वेन सम्प्रति किरातार्जुनीयमेव लभ्यते । एतदनुमीयते यदेतादृशस्य महाप्रतिभासम्पन्नस्य कवेः स्युरेव तदितरा अपि कृतयः कालेन कवलिताः।

किरातार्जुनीयं सर्वविधलक्षणोपेतं महाकाव्यम् । अत्र सन्ति अष्टादशसर्गाः सम्प्रति समुपलब्धाः । महाभारतस्य वनपर्वणि समुल्लिखतमर्जुनस्य पाशुपतास्त्रप्राप्तिवृत्तान्तमादाय निबद्धमिदं महाकाव्यं भावपक्षापेक्षया कलापेक्षमेव समधिकं पुष्णाति । द्यूते पराजितो युधिष्ठिरः सानुजः सभार्यः संविदानुसारेण वनवासनिमित्तं द्वैतवनं प्रविशति । तत्र स्थितः स दुर्योधनवृत्तान्तज्ञानाय कञ्चित्किरातं वर्णिरूपेण हस्तिनापुरं प्रेषयति । ज्ञातवृत्तश्च स द्वैतवनमागत्य सर्वं राज्ञे निवेदयति । युधिष्ठिरोऽपि तत्सर्वं भ्रातृभ्यः श्रावयति । विपक्षस्योत्कर्षमसहमाना पाञ्चाली पतिं धिक्कृतवती सती युद्धाय प्रेरयति । प्रियोक्तं द्रढयन् भीमोऽपि तं धैर्यमपहाय विक्रमाय प्रेरयति । युधिष्ठिरश्च तं सान्त्वयन्नेव व्यासेन निर्दिश्यते फाल्गुनाय दिव्यास्त्रलाभाय प्रेषयितुम् । तत्परामर्शानुसारमेवार्जुनस्तपसे हिमालयं प्रविशति यक्षेण सह । इन्द्रकीलपर्वतं गत्वा तपसि रतोऽर्जुनोः विघ्नेः प्रतिहन्यमानोऽपि स्वलक्ष्यान्नैव विचलति । तं परीक्षितुं त्र्यम्बकः किरातवेषेण तत्रागच्छति। उभावेव समकालं मायाविनं शंकरं प्रहरतः । तस्य निधनकारणमादाय तयोः विवादः समुत्तिष्ठते । युद्धे पराजितोऽप्यर्जुनः स्वप्रयासं नैव जहाति । तेन परमप्रीतः शङ्करस्तस्मै पाशुपतास्त्रं ददाति ।

भारवेः काव्यशैली[सम्पादयतु]

काव्यमिदमालक्ष्य मल्लिनाथः कथयति -

नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजः।

तस्योत्कर्षकृते नु वर्ण्यचरितो दिव्यः किरातः पुनः।।

शृङ्गारादिरसोऽङ्गमत्र विजयी वीरः प्रधानो रसः।

शैलोद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्।। इति।

चतुर्दिग्विकसितप्रतिभावानसौ कविः स्वल्पेनैव वस्तुमाध्यमेन समग्रमेव दर्शनमत्र, समाक्षिप्तवानासीत् । काव्येऽस्मिन् वनेचरमुखाद् दुर्योधतशासनवृत्तान्तवर्णनं, द्रौपदीवाक्यं, भीमगर्जनं, युधिष्ठिरस्य नीतियुक्तवचनं, अर्जुनप्रस्थानसमये द्रौपदीवाक्यं, शरद्वर्णनं, हिमालयवर्णनं, गन्धर्वाप्सरसां विलासवर्णनं, उद्यानजलक्रीडा, सायंचन्द्रोदय-सुरत-प्रभातादिवर्णनं, शिवार्जुनयोः युद्धवर्णनं, चोत्तरोत्तरं प्रातिस्विकोत्कर्षं जनयन्ति ।

कथ्यते हि भारविः भाषा-भाव-सौन्दर्य-रससिद्धिवर्णनाचातुरी-शास्त्रीय- पाण्डित्यादिविविधपक्षाणाम् एकाश्रय इति । तस्य हि भावानुसारी शब्दप्रयोगः, अर्थगौरवं, उदात्तकल्पना च तं कविषु श्रेष्ठं भावयन्ति । स हि सर्वानेव रसान् साधु साधयति विविधानि च्छन्दांसि च । तस्य भाषायां माधुर्यप्रौढतयोरपूर्वः समन्वयो दृश्यते । भावपक्षं न तथोपेक्षमाणोऽपि कविरसौ प्राधान्येन कलापक्षधरः । पञ्चदशसर्गे तस्य शब्दविलासो दर्शनीयः। तत्र कतिपये श्लोकाः एकाक्षरिणः सन्ति । यथा -

न नोननुन्नो नुन्नोनो नाना नानानना ननु ।

नुन्नोऽनुन्नो ननुन्नेनो नानेनानुन्ननुन्ननुत् ॥ इति ।

तथैव -

ससासिः सासुसूः सासो येया येयी ययाययः ।

ललौ लीलां ललोऽलोलः शशीशशिशुशी शशन् ॥[३]

द्व्यक्षरं यथा -

चारचञ्चुश्चिरारेची चञ्चच्चीररुचारुचः।

चचार रुचिरश्चारु चारैराचारचञ्चुरः।।[४]

चित्रकाव्यप्रणयनस्य त्वयं प्रवर्तक एव । अमुमेवानुवृत्य पश्चाद्वर्तिनो माघरत्नाकराद्याः कवयस्तथा प्रावर्तयन्त काव्यस्य चित्रत्वम् । सत्यपि शब्दविलासप्राचुर्ये भारवावकृत्रिमं नाम न किञ्चिदस्ति । स स्वयमेव कथयति -

अकृत्रिमप्रेमरसाभिरामं रामार्पितं दृष्टिविलोभि दृष्टम्।

मनःप्रसादाञ्जलिना निकामं जग्राह पाथेयमिवेन्द्रसूनुः।।[५]

तथैव-

स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम्।

रचिता पृथगर्थतां गिरां न च सामर्थ्यमपोहितं क्वचित्।।[६] इति ।

राजनीतौ प्रावीण्यं यथा -

व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः।

व्रजन्ति शत्रूनवधूय निःस्पृहाः शमेन सिद्धिं मुनयो न भूभृतः।।[७]

प्रकर्षतन्त्रा हि रणे जयश्रीः

सखीनिव प्रीतियुजोऽनुजीविनः समानमानानु सुहृदश्च बन्धुभिः ।

स सन्ततं दर्शयते गतस्मयः कृताधिपत्यामिव साधु बन्धुताम् ।।

गुरूपदिष्टेन रिपौ सुतेऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ।

अस्य हि व्याकरणज्ञानं तु पूर्ववर्तिनं कालिदासमूर्ध्ववर्तिनं माघमपि अतिवृत्य तिष्ठति । स हि अनद्यतने लङमेव प्रयुनक्ति न लुङम्, एवमेव पुरावृत्तवर्णने एव लिट् प्रयुक्तः । अद्यतनभूतार्थकलुङ् तु दशकृत्व एव प्रयुक्तो यदा माघेन २७२ कृत्व इति समालोचकाः । कालिदासस्तु सर्वत्र सामान्येन प्रयुनक्ति ।

छन्दःप्रयोगेऽप्यस्य महत्कौशलं दृश्यते । तस्य वंशस्थचारुत्वं प्रशंसन् क्षेमेन्द्रः कथयति

वृत्तच्छत्रस्य सा काऽपि वंशस्थस्य विचित्रता।

प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ।। इति।

अप्रसिद्धमपि उद्गताप्रभृतिवृत्तमसौ साधु प्रयुनक्ति । असौ हि एकस्मिन्नेव सर्गे षोडशविधानि छन्दांस्यपि प्रयुक्तवान् यथा पञ्चमे। अलङ्कृतशैल्युन्नायकस्याऽप्यस्य भाषा सरला हृद्या च विद्यते । घटे सागरमेव समावेशयन्नप्यसौ स्पष्टतां न मुञ्चति । कथितमेव -

प्रदेशवृत्यापि महान्तमर्थं प्रदर्शयन्ती रसमादधानाः।

सा भारवेः सत्पथदीपिकेव रम्या कृतिः कैरिह नोपजीव्या॥ इति ।

मल्लिनाथः कथयति -

नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते ।

स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम्॥ इति।

सूक्तिप्रियः कविरसौ सूक्तिमुक्तानां मालामेव ग्रथ्नाति । तस्य हि काव्यस्याधिकांशभागः सूक्तिमयः । यथा 'हितं मनोहारि च दुर्लभं वचः', 'न वञ्चनीयाः प्रभवोऽनुजीविभिः', 'प्रकर्षतन्त्रा हिरणे जयश्रीः', 'अविवेकः परमापदां पदम्' इत्यादि ।

अर्थगौरवं तु तस्य वैशिष्ट्येषु प्रकृष्टमेव । किन्त्वेतेन नैवेदमवधेयं यदस्य काव्ये सर्वत्रागम्यता एवास्ति । अर्थगौरवस्य अत्रायमेवाशयो यत्स सुदीर्घमपि पन्थानं स्वल्पेनैव प्रयासेन पारयति । यथा हि -

जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।

गुणाधिके पुंसि जनोऽनुरज्यते जनानुरागप्रभवा हि सम्पदः ।। इति ।

साधूक्तं समालोचकैः यद्भारवेः काव्यं कालिदासीयेन सह साम्यं नैवाप्यधिगच्छेत्तथापि तत्र ललितपदावल्या अर्थगाम्भीर्यस्य च मञ्जुलसमन्वयः काञ्चनमणिसंयोगमनुहरति । कटुसत्यवादी कविरसौ द्रौपदी मुखेन कथयति -

'प्रत्यागतं त्वास्मि कृतार्थमेव स्तनोपपीडं परिरब्धुकामा।' इति ।

वस्तुतस्तु अकृतार्थं प्रत्यागतमपि न कोऽपि समनोयोगं गृह्णाति । तथा कथनेनासौ 'सर्वे नन्दन्ति यशसाऽऽगतेन समासाहेन योधमुख्येन वीरः' इति श्रुतिवाक्यमनुहरति । तथैव -

'विहाय लक्ष्मीपतिलक्ष्म कार्मुकं जटाधरः सन् जुहुधीह पावकम्' । धनुभृता तु विक्रमितव्यमेव वस्तुतः । यथा हि 'सञ्चारिणी दीपशिखेव रात्रौ' इति कथनेन कालिदासो दीपशिखाविशेषणमुपार्जयद्यथा वा माघो घण्टामाघ इति तथैव भारविरपि आतपत्रभारविरित्युच्यते पद्येनानेन -

उत्फुल्लस्थलनलिनीवनादमुष्माद्भूतः सरसिजसम्भवः परागः ।

वात्याभिर्वियति विवर्तितः समन्तादाधत्ते कनकमयातपत्रलक्ष्मीम्॥[८]

भारविः कर्मणि विश्वसिति न तु भाग्ये । स द्रौपदीमुखेनास्य सुन्दरमुदाहरणं प्रस्तौति । यथा -

करोति यः सर्वजनीतिरिक्तां सम्भावनामर्थवती क्रियाभिः।

संसत्सु जाते पुरुषाधिकारे न पूरणी तं समुपैति सङ्ख्या ।। इति ।

सः यत्र प्रविशति तत्र तेनैव रूपेण मिलति । इदमेव भारवेः साफल्यस्य रहस्यम् । स हि ग्राम्यजीवनर्णने ग्रामीण एव भवति राजनीतौ तु अमात्य एव । गोपालमधिकृत्य स कथयति -

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।

ददर्श गोपानुपधेनु पाण्डवः कृतानुकारानिव गोभिरार्जवे ।। इति ।

वस्तृतो ग्रामकामो गोपालो वनकामश्च नापितो व्यर्थ एव। तस्येदं कथनं वस्तुतो यथार्थं तस्य काव्ये -

भवन्ति ते सभ्यतमा विपश्चितं मनोगतं वाचि निवेशयन्ति ये ।

नयन्ति तैष्वप्युपपन्ननैपुणा गभीरमर्थं कतिचित्प्रकाशताम् ।।[९]

विविक्तवर्णाभरणा सुखश्रुतिः प्रसादयन्ती हृदयान्यपि द्विषाम् ।

सत्स्वपि विविधेषु गुणेषु भारविर्यदा कदा स्वीयमुत्कर्षमपि विस्मृत्य तथा करोति येन तस्य कृतेः काव्यत्वमपि हीयते । अलङ्कारभारेण यत्र कुत्र चित्रत्वेन काव्यार्थो व्याहतो दृश्यते । तथैव शृङ्गारवर्णने रसोचिततरलतायाः स्थानमैन्द्रियप्रेकर्षो गृह्णाति । विविधच्छन्दसां प्रयोगो भारायैव दृश्यते यथा पञ्चमस्कन्धे । यत्र कुत्र वार्ता पात्रयोग्यतामतिवर्तते । तथापि तस्य काव्यस्योत्कर्षस्तु न केनाऽप्यावलपितुं शक्यते । आचार्यपण्डितयुगयोः सेतुत्वेन पण्डितयुगस्य प्रवर्तकोऽयं कविः स्वप्रयासे सफलो मन्यते पश्चाद्वर्तिभिः बहुशोऽनुक्रियते च।

भारवेरर्थगौरवं प्रसिध्दम् । अत एव मल्लिनाथोऽपि टीकाप्रारम्भे – नारिकेलफलसम्मितं वचो भारवेरित्याह । बहोरप्यर्थराशेरल्पेन शब्देनाभिधाने भारविरभ्यस्तकौशल इति सर्वेषां विदुषां विचारः । विशिष्टार्थगर्भितानां वाक्यानां प्रयोगे भारविः अत्यन्तं निपुणः । 'हितं मनोहारि च दुर्लभं वचः', 'सहसा विदधीत न क्रियाम्' इत्यादयः तस्य प्रयोगाः एतम् अभिप्रायं समर्थयन्ति ।'भारवेः अर्थगौरवम्' इति उक्तिः अपि विमर्शकलोके प्रसिद्धा । एकमेव महाकाव्यं लिखित्वा अपि भारविः स्वकवित्वेन, पाण्डित्येन, वर्णनकौशलेन च कविप्रपञ्चे विशिष्टं स्थानं प्राप्तवान् । वस्तुत इयमेवोक्तिर्भारविकवित्वप्रशंसायामप्युपयुज्यते । ऋतूनां जलक्रीडायाश्चन्द्रोदयस्यच वर्णने महती कवित्वप्रतिभा प्रदर्शिता भारविणा । अलङ्काराणां यथावस्रोपन्यासे चित्रकाव्यनिर्माणे च परं साफल्यामासादितमनेन कविवरेण । भारविणा नीतयो निपुणमुपन्यस्ताः –

वरं विरोधोऽपि समं महात्मभिः ।
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
हितं मनोहारि च् दुर्लभं वचः ।
विश्वसयत्याशु सतां हि योगः ।
सुदुर्लभाः सर्वमनोरमा गिरः ।
गुरुतां नयन्ति हि गुणा न संहतिः ।
गुणाः प्रियत्वेऽधिकृता न संस्तवः।

षाड्गुण्यप्रभवा नीतिर्वंशस्थेन विराजते इति क्षेमेन्द्रोक्तिर्वंशस्थोपनिबध्दां भारवेनीतिचर्चामालोक्यैव प्रवृत्ता स्यादिति सम्भाव्यते । भारवेः कवितानां समीक्षया ज्ञायते तदस्याभिमानधनताऽऽसीत् । भारविकवितायां तर्कात्मकमोजः प्रबलम् । कवित्वनिदर्शनाय कतिचन पद्यान्युद्घ्रियन्ते ।

अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्मकार्मुकं जटाधरः सञ्जुहुधीह पावकम् ॥
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरं मतिरादर्श इवाभिलक्ष्यते ॥
तुषारलेखाकुलितोत्पलाभे पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा न लोचने मीलयितुं विषेहे ॥
मृणालिनीनामनुरञ्जितं श्रिया विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुः खण्डमिवाहिविद्विषः ॥

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. मङ्खस्य श्रीकण्ठचरिते २/५३
  2. काव्यादर्शे १।१२
  3. १५/४
  4. १५।३८
  5. ३।३७
  6. २।२७
  7. १/४२
  8. ५/३९
  9. १४/१४
"https://sa.wikipedia.org/w/index.php?title=भारविः&oldid=438892" इत्यस्माद् पुनः प्राप्तिः