किरातार्जुनीयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Arjuna recognises Shiva and surrenders to him. Painting by Raja Ravi Varma, 19th century.

महाकविः भारविः शैवमतावलम्बी , प्राकाण्डपण्डितः, राजनीतिज्ञः, वीररसवर्णनकुशलः, अलङ्कृतशैल्याः प्रवर्तकः च आसीत् । भारविणा निजपरिवारस्य , निवासस्थानस्य, पितुः, पितामहस्य, गुरोर्वा विषये कोप्युल्लेखो न कृतः किरातार्जुनीये । दण्डिविरचितम् अवन्तीसुन्दरीकथा अनुसारेण कुशिकगोत्रीयाः ब्राह्मणाः आनदपुरे निवसन्ति स्म । ततः परं ते वरारप्रान्ते अचलपुरे एलिचपुरे वा आगत्य निवासम् अकुर्वन् । अस्मिन्नेव वंशे नारायणस्वामी जातः । तस्य पुत्रः एव दामोदरः आसीत् । अयमेव दामोदरः भारविः इति नाम्ना प्रख्यातः अभवत् । तत्र भारविविषयकः श्लोकः अयं प्राप्यते -

स मेधावी कविर्विद्वान् भारविं प्रभवां गिराम् ।
अनुरुध्याकरोन्मैत्रीं नरेन्द्रे विष्णुवर्धने ॥

इत्थं भारविः दण्डिनः प्रपितामहः आसीत् । तस्य स्थितिकालः ६०० ईसवीयसमीपे मन्यते । अस्य ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं प्राप्यते; यत् बृहत्त्रय्यां प्रथमस्थाने’ परिगणितम् । संस्कृतविद्वत्समाजे ‘भारवेरर्थगौरवम्’, ‘नारिकेलफलसम्मितं वचो’ ‘स्पुटता न पदैरपाकृता’ इत्याभणकानि सुप्रसिध्दानि एव । महाकविभारविकृते किरातार्जुनीयमहाकाव्ये तज्जीवनविषयकसाक्ष्याभावात् बाह्यसाक्ष्यानुसारं तस्य कालनिर्धारणं करणीयम् ।

  1. दक्षिणभारते एहोलग्रामे ६३४ ख्रिष्टीया जैनकविना रविकीर्तिना लिखितशिलालेखे “ स विजयतां रविकीर्तिः कविताश्रितकालिदासभारविकीर्तिः” इत्यनेन ज्ञायते यत् सप्तम शताब्दयाः पूर्वार्ध्दं यावत् भारविः सुविख्यातः कविरासीत् ।
  2. काव्यकलायाः उत्तरोत्तरप्रभावदृष्ट्या कालिदासः भारवेः पूर्ववर्ती महाकविमाघश्च उत्तरवर्ती कविरासीत् । माघस्य स्थितिकालः ७०० ख्रिष्टीयाब्दः मन्यते, अतः भारवेः स्थितिकालः षष्ठशताब्धाः उत्तरार्ध्दे भवैतुमर्हति ।
  3. काशिकायां भारवेः (किरात ३/१४) इत्युध्दरणं प्राप्यते । अतः भारवेः कालः वामनजयादित्याभ्यां (सप्तमशताब्दी –पूर्व) षष्ठशताब्धाः उत्तरार्ध्दे भवेत् ।
  4. अवन्तीसुन्दरीकथा – अनुसारं दण्डिनः प्रपितामहः दामोदरः एव ‘भारविः’ यः विष्णुवर्ध्दनस्य (६१५ ई.) समापण्डितो आसीत् । अतः तस्य कालः षष्ठशताब्द्याः उत्तरार्ध्दे भवितुमर्हति । निष्कर्षरुपेण एवं प्रतिभाति यत् भारवेः स्थितिकालः षष्ठशताब्द्याः उत्तरार्ध्दे सप्तमशताब्द्याः पूर्वार्ध्दे (५५०-६०० ई.) भवैतुम् अर्हति ।

महाकविभारविना महाभारतकथामाश्रित्य अलंकृतकलापक्षप्रधानशैल्या विरचितं अष्टादशसर्गात्मकं वीररसप्रधानम् अर्थगाम्भीर्ययुक्तं बृहत्त्रय्यां प्रथमपरिगणितं ‘किरातार्जुनीयम्’ नाम एकमेव महाकाव्यं समुपलभ्यते । अस्य ग्रन्थस्य शुभारम्भः ‘श्री’ शब्देन, सर्गान्तः ‘लक्ष्मी – शब्देन च भवति । अत्र अर्जुनस्य किरातवेशधारिणा शङ्करेण सह युध्दं वर्णितम् । अत एव ग्रन्थस्य नामकरणं कृतं – ‘किरातार्जुनीयम्’ किराताश्च अर्जुनश्च किरातार्जुनौ (द्वन्द्वः) किरातार्जुर्नौ अधिकृत्य कृतं काव्यं किरातार्जुनीयम् । किरातार्जुन + छ (‘ईय’ आदेशः) अर्जुनाय दिव्यास्त्राणां प्राप्तिरेव महाकाव्यस्य फलम् । अतः ग्रन्थस्यास्य नायकः अर्जुनः नायिका च द्रौपदी वर्तते । अर्थगौरवं, स्पष्टता, पुनरुक्तेरभावः अलंकृतशब्दयोजनाश्च अस्य महाकाव्यस्य वैशिष्ट्यम् । भारविना एकाक्षरद्वयक्षर श्लोकाः अपि रचिताः । तद्यथा – “ न नोनन्नुनो नाना नानानना ननु” किरात. १५/१४. ग्रन्थेऽस्मिन् ऋतुवर्णनं, हिमालयवर्णनं, सन्ध्यावर्णनं, चन्द्रवर्णनं, प्रभातमित्यादीनां रोचकं रमणीयञ्च चित्रणं विद्यते । एवमेव पञ्चदशे सर्गे चित्रकाव्यस्य वर्णनं दर्शनीयम् । प्रथमसर्गे द्रौपद्याः कथने या वचनचातुरी विद्यते, सा अन्यत्र दुर्लभा एव ।

कविपरिचयः[सम्पादयतु]

किरातार्जुनीयं महाकविना भारविणा रचितमेकं महाकाव्यम् अस्ति। भारवेः एषा एका एव कृति: उपलभ्यते। आवन्तिसुन्दरीकथानुसारेण महाकविः दण्डी भारवेः प्रपौत्रः आसीत्। एषः कौशिकगोत्रीयः आसीत्। अस्य पूर्वजाः गुर्जरप्रदेशस्य आनन्दपुरनगरे वसन्ति स्म। नारायणस्वामी तस्य पिता। भारवेः मूलनाम दामोदरः आसीत्। भारविः तस्य उपाधिः आसीत्।

कृतिपरिचयः[सम्पादयतु]

किरातार्जुनीयस्य कथानकस्य मूलाधारः महाभारतम् अस्ति। महाभारतस्य अष्टादशसर्गेषु वनपर्वणि किरातार्जुनीयस्य कथा अस्ति। अत्र किरातः तत्वेषधारी शिवः अस्ति। महाभारतात् संक्षिप्तकथानकं स्वीकृत्य भारविः स्वकल्पनाभिः काव्यप्रतिभयाच कथानके मौलिकताम् उत्पादितवान्। महाभारतस्य शैली सरला अस्ति किन्तु किरातार्जुनीयस्य शैली क्लिष्टा अलङ्कृता च अस्ति। महाकाव्यलक्षणानुरोधेन भारविः स्थाने स्थाने ऋतु- पर्वत- नदी- वन- प्रातः-सन्ध्यादीनाम् अपि सुन्दरं वर्णनं कृतवान्। भारवेरर्थगौरवम् इत्युक्त्यनुसारम् किरातर्जुनीयस्य अर्थगौरवम् अतिव प्रसिद्धम् अस्ति। चित्रकाव्यस्य चमत्कारं प्रदर्शयन् भारविः एकव्यञ्जनस्य प्रयोगेण अपि श्लोकानां निर्माणं कृतवान्।

उदाहरणार्थं श्लोकमेकम् अत्र दत्तम्।
न नोन नुन्नो नुन्नानो नाना नानाननाननु।
नुन्नोऽनुन्नो ननुन्नेना नानेना नुन्ननुन्ननुत्॥किरा॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=किरातार्जुनीयम्&oldid=391657" इत्यस्माद् पुनः प्राप्तिः