गुरु गोविन्द सिंह
गुरुः गोविन्द सिंह ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ | |
---|---|
जन्म |
गोबिन्द राय (जन्मनाम) ५ जनवरी १६६६ पाटलीपुत्रम्, भारतम् |
मृत्युः |
७ अक्तूबर १७०८ (वयः ४१) नान्देड, नान्देडमण्डलम् |
अन्यानि नामानि | दशमगुरुः, श्येनधारी, नीलाश्वचारी |
वृत्तिः | गुरुः, कविः, दार्शनिक&Nbsp; |
कृते प्रसिद्धः | खालसा पन्थानः प्रवर्तकः |
पूर्वजाः | गुरु तेगबहादुर |
वंशजाः | गुरु ग्रन्थ साहिब |
भार्या(ः) |
माता जीतो अका माता सुन्देर कौर, तथा माता साहिब कौर |
अपत्यानि |
साहिबजादा अजीत सिंह, साहिबजादा जुझार सिंह, |
पितरौ | गुरु तेगबहादुर, माता गुजरी |
सिखमतस्य गुरवः एवं भक्ताः |
---|
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव |
सद्गुरुः अमर दास · सद्गुरुः राम दास · |
सद्गुरुः अर्जन देव ·सद्गुरुः हरि गोविन्द · |
सद्गुरुः हरि राय · सद्गुरुः हरि कृष्ण |
सद्गुरुः तेग बहादुर · सद्गुरुः गोबिन्द सिंह |
भक्तः कबीर · शेख फरीद |
भक्तः नामदेव |
धर्मग्रन्थाः |
आदि ग्रन्थ साहिब · दशमग्रन्थः |
सम्बन्धितविषयाः |
गुरद्वारा · चण्डी ·अमृतम् |
लङ्गर · खालसा पन्थ |
गुरुगोविन्दसिंहस्य ( ( शृणु) /ˈɡʊrʊɡoʊvɪndəsɪnhəh/) (पञ्जाबी: ਗੁਰੂ ਗੋਬਿੰਦ ਸਿੰਘ, हिन्दी: गुुरु गोबिन्द सिंह, आङ्ग्ल: Guru gobind singh) व्यक्तित्वम् अतीव विशिष्टम् | गुरुगोविन्दस्य प्रतापं, समाजमुद्दिश्य तस्य विचारधारां परिचाययन् विवेकानन्दः अवोचत्, "स्मरतु ! भवान् देशसौभाग्यं यदि इच्छति, तर्हि गुरुगोविन्दसिंहः इव भवतु । भारतवासिनां सहस्रशः दोषाणाम् अन्वेषणावसरे, तेषु हिन्दुरक्तं प्रवहतीति मा विस्मरतु भवान् । ते भवतः हानिं कर्तुम् उद्यताः चेत् अपि चिन्ता मास्तु, तान् आराध्यदेवान् मत्वा पूजयतु । भवन्तं ते दूषयन्ति चेदपि तैः सह सस्नेहं सम्भाषणं करोतु । ते भवन्तं बहिष्कुर्वन्ति चेत् दूरं गत्वा शक्तिमान् गुरुगोविन्दसिंह इव मृत्युगुहायां सुखं निद्रातु । तादृशः एव नैजहिन्दुरूपेण स्थातुं शक्नोतीति आदर्शः अस्माकं पुरतः सर्वदा भवेत् । आगच्छतु वयं विवादान् सर्वान् अपसार्य आत्मीयत्वं सर्वत्र प्रवाहयामः " इति ।
अग्रे अपि तस्य विषये विवेकानन्दस्वामिनः वचनानि एवम् आसन्- "किञ्चित् लक्ष्यं स्वीकृत्य जनैः सह एकीभूय युद्धं कुरु । पक्षिभिः साकम् अपि युद्धं मिलित्वा कुरु । तदा एव भवान् गुरुगोविन्दसिंहसदृशः भवितुम् अर्हः"इति उक्तवान् । ततः "पक्षिभिः साकम् अपि युद्धं मिलित्वा कुरु" इति उक्तिः लोकोक्तिरूपेण प्रसिद्धा अभवत्। सामान्यपक्षिषु अपि एतावतीं शक्तिं जागरयितुं आत्मविश्वासः यस्मिन् आसीत् स एव सिक्ख-जनानां दशमगुरुः गुरुगोविन्दसिंह इति ज्ञातव्यम् अस्माभिः।
गुरुनानकेन आरब्धा गुरुपरम्परा दशमगुरुपर्यन्ता ।' अस्मदनन्तरं गुरुग्रन्थसाहिबः एव गुरुः इति भावनीयम्’ इति गुरुगोविन्दसिंहेन कृता व्यवस्थैव इदानीमपि आचरणे प्रचलति । समाजं संस्कर्तुम्, एकात्मताम्, अखण्डतां, धर्मे निष्ठां च समाजे निर्मातुं, तदद्वारा एकं शुभपरिणामं साधयितुमेव गुरुनानकः सिक्खपथम् आरब्धवान् । अनेकान् विघ्नान् अस्मिन् प्रयत्ने सः सधैर्यं सम्मुखीकृतवान् । गुरुतेजबहदूरस्य आत्मार्पणानन्तरं तस्य अनुयायिभिः अनेकसमस्याः सम्मुखीकृताः । त्यागस्य आत्मसमर्पणस्य च अपेक्षां पूरयितुम् एकः नायकः आवश्यकः आसीत् । तदा निकषायमाणः गुरुगोविन्दसिंहः प्रकटितः ।
बाल्यम्
[सम्पादयतु]गुरुगोविन्दस्य बाल्ये जाता काचित् घटना । औरङ्गजेब इत्यस्य अत्याचारान् सोढुम् अशक्ताः केचन काश्मीरब्राह्मणाः गुरुतेजबहदूरस्य समीपमागतवन्तः । तेभ्यः अत्याचारेभ्यः विमोचनं प्राप्तुं 'कमपि उपायं सूचयतु' इति प्रार्थितवन्तः । गुरुतेजबहादूरः विचारे मग्नः । पितरं विचारमग्नं दृष्ट्वा बालः गोविन्दसिंहः कारणं पृष्टवान् । गुरुतेजबहदूरः -"कस्यापि महापुरुषस्य आत्मसमर्पणेनैव एषा समस्या परिहृता भविष्यति"इति विवृतवान् । तस्याः समस्यायाः परिहारं सूचयितुम् इव बालगोविन्दः अवदत् -"भवतः अपेक्षया महापुरुषः अन्यः अपेक्ष्यते किम् ?" इति । तदा गोविन्दस्य वयः केवलं नववर्षाण्येव । एतावति लघुवयसि तस्य मनस्स्थैर्यं,दृढविश्वासं स्पष्टं वचः दृष्ट्वा श्रुत्वा च गुरुतेजबहदूरस्य हृदये आनन्दतरङ्गाः उद्भूताः। तदनन्तरं देहल्यां गुरुतेजबहदूरस्य आत्मसमर्पणं नूतनेतिहासम् एव अजनयत् । गुरुपीठस्वीकरणात् पूर्वमेव गुरुगोविन्दस्य एतादृशदूरदृष्टिः आसीत् । पितरमेव समर्पयितुं सिद्धः एषः वीरकिशोरः एतामेव भावनां स्वकुटुम्बजनानां मनस्सु अपि दृढमारोपितवान् ।
गुरुगोविन्दस्य द्वौ पुत्रौ हसन्तौ एव युद्धरङ्गे कूर्दनं कृतवन्तौ । अन्यौ द्वौ कनिष्ठपुत्रौ सजीवसमाधिं प्राप्तवन्तौ । तयोः मुखतः 'परित्रायताम्’ इति दीनः आर्तस्वरः अपि न निर्गतः । तथा स्वकुटुम्बं सर्वमपि समर्प्य समाजस्य पुरतः, देशस्य पुरतः एकम् आदर्शं स्थापितवान् गुरुगोविन्दसिंहः । तावदेव न, अपि तु संन्यासं, वैराग्यं प्राप्तवतः एकस्य युवकस्य हृदये नवीनमुत्साहं, सम्यग्जीवनदृष्टिं च सः निर्मितवान् सः । अनन्तरकाले सः युवक एव बन्दाबैरागी भूत्वा विदेशीयसर्वकारस्य यमराजः जातः । देशहितार्थं सर्वस्वार्पणे एव स्वजीवनसाफल्यमस्तीति अनुभूतिं प्राप्तवान् च । अक्बर इत्यनेन निर्मितायाः राजकीयपरायाः शान्तिः यदा नष्टा अभवत्, तदा गुरुगोविन्दः जातः । तत एव औरङ्गजेब इत्यस्य कुटिलविधानानां कारणेन पञ्जाबे, महाराष्ट्रे च सङ्घर्षाणाम् आरम्भः अभवत् । सत्यमेवमस्ति यत् अन्यमतानां विषये असहिष्णुता औरङ्गजेब-तः न आरब्धा, शाहजहानकाल-तः एव सा अनुवर्त्यमाना आसीत् ।
१६३२ ईशवीयाब्दे शाहजहानः स्वराष्ट्रे नूतनदेवालयानां निर्माणं न करणीयमिति आदेशं कृतवान् । निर्मीयमाणानां देवालयानां भञ्जनं कारितवान् । अक्बर इत्यनेन कृतः गोवधनिषेधः अपि तदा अपनीतः । एतेषां सर्वेषां फलस्वरूपेण मुघलशासनं प्रति जनानां विरोधः वर्धते स्म । अम्धुरासमीपे जाटजातीयाः भूस्वामिनः गोकुलस्य नायकत्वे क्रान्तिं कृत्वा मुघलसेनानायकं, तस्य सैनिकान् च अमारयन् । तदा गुरुगोविन्दस्य वयः केवलं त्रीणि वर्षाण्येव । यद्यपि पालकाः तस्य विप्लवस्य शमनं कृतवन्तः तथापि अन्तरग्निः ज्वलन्नेवासीत् । गुरुगोविन्दे पञ्चवर्षीये जाते सति राजा छत्रसालः औरङ्गजेब इत्येनं विरुध्य युद्धं कुर्वन्नासीत् । अनन्तरवर्षे एव 'नारनेल' प्रान्तीयाः सतनामीसम्प्रदायजनाः युद्धं कृतवन्तः । तेन औरङ्ग्जेबस्य सेनानिवहाः अकम्पन्त । 'दुर्गादास'स्य, 'महाराणाराजसिंह'स्य च वीरगाथाः श्रुत्वा त्रयोदशवर्षीयस्य गुरुगोविन्दस्य शरीरं पुलकितं भवति स्म ।
तत्कालीनसमाजस्थितिः
[सम्पादयतु]तस्मिन् स्मये हिन्दुसमाजः कुलमतादिद्वेषैः बहुधा विभक्तः बलहीनः च आसीत् । विदेशीयानाम् आक्रमणं विरोद्धुमपि अशक्तः आसीत् । एतादृशस्थितेः कारणतः पञ्जाबप्रान्तस्य अन्तिमपालकस्य अनङ्गपालस्य अनन्तरं गुरुनानकपर्यन्तं तन्नाम ४५० वर्षाणि यावत् हिन्दुसमाजस्य सहयोगं दातुम् एकोऽपि पुरतः नागतवान् । 'गुरुनानकः' पञ्जाबे स्थितान् पीडितान्, उपेक्षितान्, आत्मविस्मृतिमतः जनान् ऐदम्प्राथम्येन जागरितवान् । एतादृशसामाजिकराजकीयपरिस्थितिषु गुरुगोविन्दस्य जननम् अभवत् । विक्रमशकवर्षे १७२३ तमे वर्षे (ईशवीये१६६६) ४७६८ कलियुगाब्दे कार्तिकशुद्धसप्तम्यां तस्य जन्म अभवत् ।
गुरुतेजबहदूरः स्वपत्न्या गुजारि इत्यनया अन्यैश्च कैश्चित् शिष्यैः सह प्राग्भारतयात्रायै प्रस्थितः । अन्तर्वत्नीं पत्नीं कैश्चित् शिष्यैः सह 'पाट्ना’ नगरे त्यक्त्वा सः असमप्रदेशं गतावान् । तत्र एव सः गुरुगोविन्दस्य जन्मवार्तां ज्ञातवान् । पितुः आत्मसमर्पणानन्तरं गुरुगोविन्दः गुरुपीठं स्वीकृतवान् । तदा तस्य वयः नववर्षाण्येव । तदनन्तरम् अष्टवर्षाणि यावत् सः आनन्दपुरे एव स्थित्वा शस्त्रशास्त्रादिविद्याः अभ्यस्तवान् । तस्य शिष्याणां कृतेऽपि शिक्षणव्यवस्थां कृतवान् । बहुदूरप्रदेशेभ्यः आगतेभ्यः कविभ्यः आश्रयं कल्पितवान् । सुदूरप्रान्तेषु व्याप्तानां सिक्खजनानां कृते आज्ञापत्रं प्रेषयित्वा शस्त्राणि, धनं च एकत्रीकृतवान् । एकां लघुसेनां निर्माय तान् सैनिकान् सर्वयुद्धविद्यासु निपुणान् कृतवान् ।
गुरुगोविन्दस्य प्रथमः सङग्रामः
[सम्पादयतु]१६८९ तमे वर्षे एप्रिल् मासे गुरुगोविन्दः स्वजीवने प्रथमसङ्ग्रामे भागं गृहीतवान् । गुरुगोविन्दस्य प्रवर्धमानां शक्तिं दृष्ट्वा अन्येषु राजसु भीतिरवर्धत । जातीयताभावप्रेरकान् गुरुगोविन्दस्य प्रयत्नान् विफलान् कर्तुं ते सर्वे एकीभूताः । कलिहारराज -भीमचन्द्रपुत्रस्य अज्मीरचन्द्रस्य विवाहसन्दर्भे सर्वे राजानः गढवाले स्वसेनाभिः सह समाविष्टाः । विवाहानन्तरं गोविन्दसिंहम् आक्रान्तुं सिद्धाः जाताः । एतां वार्तां ज्ञात्वा 'पावुटा’ ग्रामे स्थितः गोविन्दसिंहः युद्धव्यूहे भागरूपेण 'भङ्गानि’ ग्रामे सैन्यं निवेश्य स्वयमपि सङ्ग्रामे भागं गृहीतवान् ।
पञ्जाबे 'सिंहीरा’ प्रान्ते फकीरेण (महम्मदीयसंन्यासिना ) सय्यद् बहदूरशाहेन सह ग्रुरुतेजबहदूरस्य घनिष्ठसम्बन्धः आसीत् । तस्य सूचनानुसारं गुरुगोविन्दसिंहः पञ्चशतं पठानसैनिकान् स्वसैन्ये स्वीकृतवान् । किन्तु कालेखान् इति सेनानायकं विहाय सर्वेपि सैनिकाः शत्रुपक्षे सम्मिलिताः । सय्यद् बहदूरशाहः एतं विषयं ज्ञातवान् । अनुक्षणं सः स्वीयसप्तशतशिष्यैः, चतुर्भिः पुत्रैश्च सह गुरुगोविन्दस्य साहाय्यं कर्तुं प्रस्थितवान् । सय्यदबहदूरस्य पुत्रद्वयम्, अनेके शिष्याः च युद्धे मृताः । तस्मिन् युद्धे गुरुगोविन्दः जयं प्राप्तवान् । पर्वतीयशासकाः स्वसेनया सह पलायिताः । गुरुगोविन्दसिंहः विजयलक्ष्म्या सह आनन्दपुरं प्राप्तवान् । समुचिते समये सहकृतवानिति सय्यदं सवैभवं सत्कृतवान् । अनन्तरं सः लोहगढ, आनन्दगढ, केशगढ, फतेगढ इत्यादिदुर्गाणि निर्मितवान् ।
पराजिताः राजानः सर्वेऽपि गुरुगोविन्दसिंहेन सह सन्धिं कृतवन्तः । ते राजानः औरङ्गजेब इत्यस्मै करप्रदानमपि परित्यक्तवन्तः । अतः मुघलसेनाः तेषां राज्यानि आक्रान्तुम् आगताः । किन्तु गुरुगोविन्दसिंहस्य साहाय्येन ते मोघलसैनिकान् पलायितान् कृतवन्तः । केषाञ्चन दिनानामनन्तरं पुनः ते राजानः स्वदौर्बल्यकारणतः मुघलचक्रवर्तिना सह सन्धिं कर्तुं सिद्धाः अभवन् । औरङ्गजेब इत्यस्य आदेशेन सुबेदारस्य दिलावरखान इत्येषस्य सेना तस्य पुत्रस्य रुस्तुमस्य नेतृत्वेन गुरुगोविन्दसिंहम् आक्रान्तुं प्रस्थिता । पक्षद्वयं युद्धाय सिद्धम् अभवत् । किन्तु युद्धप्रारम्भसमये तत्र प्रवहन्त्यां नद्यां दुर्भरजलाप्लावकारणतः मुघलसैनिकाः प्रवाहिताः । तदनन्तरं हुसेनखान् इति सेनापतिः राजभ्यः धनं लुण्ठितुम् आरब्धवान् । गुरुगोविन्दसिंहस्य सेना तमपि पराजित्य समुदसारयत् । तस्मिन् समये दक्षिणे स्थितः औरङ्गजेब इत्येषः तां वार्तां श्रुत्वा स्वपुत्रं मुआज्झमं सेनया सह प्रेषितवान् । मुघलसेना अन्यान् राज्ञः जितवती, आनन्दपुरं तु सुरक्षितमासीत् । एतान् सर्वान् विषयान् गुरुगोविन्दसिंहः स्वस्य "' विचित्रनाटकम्"' इति ग्रन्थे लिखितवान् । मुघलसैनिकाः परिवृत्य गताः, तथापि यदाकदापि तैः सह सङ्घर्षः अनिवार्यः इति गुरुगोविन्दसिंहः जानाति स्म । अत एव सः सर्वदा पुनरपि सन्नद्धः सन् योग्यं बलं सिद्धं कर्तुं प्रयतमानः आसीत् । समाजे स्थितः सम्पन्नवर्गः समाजे परिवर्तनम् आनेतुं नाङ्गीकरोति । सामाजे परिवर्तनेन स्वस्य विशिष्टं स्थानं नष्टं भवतीति तस्य सम्मपन्नवर्णस्य चिन्तनम् आसीत् । अत एव समाजस्थान् सामान्यजनान् समीकर्तुम् प्रयत्नं प्रारब्धवान् गोविन्दसिहः ।
वैशाखीपर्वदिनम्
[सम्पादयतु]गुरुगोविन्दसिंहः वैशाखीपर्वदिनस्य सन्दर्भे सहस्रशः उपस्थितानां शिष्याणां पुरतः उपविष्टवान् आसीत् । तदा सर्वान् विस्मितान् कुर्वन् सः स्वस्य कोशतः खड्गं निष्कास्य पृष्टवान् -‘युष्मासु केऽपि धर्मार्थं प्राणत्यागं कर्तुं सिद्धाः सन्ति वा ?’इति । प्रश्नश्रवणेनैव सभायां कलकलरवः आरब्धः । स च कोलाहलः वर्धमानः आसीत् । तदा गुरुगोविन्दसिंहः पुनः द्वित्रवारं तमेव प्रश्नं पृष्टवान् । तावता लाहोरप्रान्तीयः क्षत्रिययुवकः दयारामः उत्थाय 'अहमस्मि’ इति वदन् पुरतः आगतः । गुरुगोविन्दसिंहः तम् अन्तः नीतवान् । ततः पूर्वमेव तत्र बद्धस्य अजस्य शिरः कर्तयित्वा रक्तसिक्तेन तेन खड्गेन बहिरागतवान् । पुनः तमेव प्रश्नं पृष्टवान् । इदानीं देहलीतः आगतः जाट् जातीयः युवा धर्मदासः पुरतः आगतवान् । तमपि अन्तः नीतवान् । बहिरागत्य पुनः तमेव प्रश्नं पृष्टवान् । तृतीयपर्याये द्वारिकानिवासी रजकः मोहनचन्दः पुरतः आगतवान्, तमपि पूर्वजनद्वयमिव अन्तः नीतवान् । एवं पुनः द्विवारं पृष्टे सति जगन्नाथपुरीवासी पाचकः हिम्मतः, बीदरवासी क्षौरिकः साहबचन्दः पुरतः आगतवन्तौ ।
प्रतिज्ञास्वीकारः
[सम्पादयतु]गुरुगोविन्दसिंहः एतेषां पञ्च जनानां कृते सुन्दरवस्त्राणि धारयित्वा तान् 'पाञ्चप्यारे '(प्रियाः पञ्चजनाः) इति सम्बोधितवान् । तान् यदा सः सभां प्रति आनीतवान् सदस्याः साश्चर्यं लज्जया च नताः । एतेषु पञ्चप्रियजनेषु एकः एव क्षत्रियः अन्ये सर्वेऽपि निम्नवर्गीयाः एव आसन् । गुरुगोविन्दसिंहः प्रथमं तेभ्यः दीक्षां दत्तवान् । सर्वान् विस्मापयन् स्वयमपि तां दीक्षां स्वीकृतवान् । यद्यपि सः एव गुरुः आसीत् तथापि गुरुस्थाने 'खालसा' इति स्थापयित्वा सामान्य'खालसा'जनम् इव तान् सेवितवान् । अनन्तरं तैः सह उपविश्य भोजनं कृतवान् । स्वस्य सर्वाधिकारान् तेभ्यो दत्तवान् गुरुगोविन्दः। एवं गुरुगोविन्दसिंहः स्वस्मात् पूर्वं नवपुरुषेभ्यः खालसापद्धतिं प्रति आनीतवान् । 'तीर्थयात्रा, दानं दया,तपः, संयमनं च ईश्वरस्य निश्चलाराधना अस्तीति यः भावयति, यस्य हृदये पूर्णज्योतिषः प्रकाशोऽस्ति, सः पवित्राकार एव "खालसा" इति’ । 'धनिक-निर्धन-कुल-वर्गभावान् नाशयित्वा सर्वे समाना एव' इति प्रकटितवान् सः । सर्वेषामपि नाम्नामन्ते सिंहशब्दः भवेदिति आदिष्टवान् च । अस्मिन् समये एव स्वकीयं नाम अपि गुरुगोविन्दसिंह इति परिवर्तितवान् ।
ईश्वरस्य विजयो निश्चितः
[सम्पादयतु]गुरुगोविन्दसिंहेन प्रारब्धस्य दीक्षासंस्कारस्य "पहुल" इत्यस्य वास्तविकः अर्थः एष एव । पहुलसंस्कारे सर्वे मिलित्वा कयाचित् विशिष्टया प्रक्रियया स्वीकृतं जलं अमृतमिति भावयन्ति । सः एकं नूतनम् उद्घोषं कृतवान्- "वाहे गुरुजीका खालसा -वाहे गुरुजी के फते"खालसा ईश्वरीयं भवति - ईश्वरस्य विजयो निश्चितः इति तस्य अर्थः। सः एतां दीक्षां स्वीकृतवन्तं सर्वमपि सिक्खजनं पञ्चबाह्यचिह्नानि धारयितुं आदिष्टवान् । पञ्चककाराणि इति व्यवह्रियमाणानि तानि सन्ति - केशबन्धनं (केश), शिरसि कङ्कतिकास्थापनं (कङ्गा), कङ्कणधारणं (कडा), कट्यां पट्टवस्त्रधारणं (कच्छ), सर्वदा खड्गधारणं (कृपाण) इति । एतान् नियमान् सर्वोऽपि दीक्षापरः अवश्यं पालयेत् इति सः निश्चितवान् । समर्पणं, परिशुद्धता, दैवभक्तिः, शीलं, शौर्यं इत्येतान् भावान् एतानि चिह्नानि स्मारयन्तीति सः भावितवान् । खालसा-मार्गस्य निर्माणे बहुविघ्नाः जाताः । 'पहुल्’ दीक्षास्वीकरणानन्तरं सिक्खजनाः स्वगृहाणि गत्वा तस्याः प्रचारं प्रारब्धवन्तः । किन्तु कहलूरस्य राजा एतां दीक्षां दुष्टाम्, आपत्करीं च मत्वा भीतः । गुरुगोविन्दसिंहः एकं मतसम्प्रदायं सम्पूर्णराजनैतिकव्यवहारेषु मेलयतीति कहलूरुराजः नेच्छति स्म । सः एकस्मिन् पत्रे गुरुगोविन्दसिंहम् आनन्दपुरं त्यक्त्वा कुत्रापि गच्छ्तु इति प्रार्थितवान् । किन्तु गुरुगोविन्दसिंहः नाङ्गीकृतवान् । एतमेव समुचितसमयं भावयित्वा पर्वतीयशासकाः विंशतिसहस्रसंख्याकैः सैनिकैः सहिताः गुरुगोविन्दसिंहेन सह युद्धं कर्तुम् आगतवन्तः । गुरुगोविन्दसिंहस्य समीपे केवलम् अष्टसहस्रसंख्याकाः एव सैनिकाः आसन् । तथापि खालसासेनया एव जयः प्राप्तः । 'रोपार्’ पर्यन्तं खालसासेना शत्रून् समुदसारयत् । एषः सङ्ग्रामः ईशवीये १७००तमे वर्षे जातः । पराजिताः राजानः निराशया औरङ्गजेब इत्यस्य समीपे एकं प्रतिनिधिं प्रेषितवन्तः ।
तेन सह प्रेषिते पत्रे गुरुगोविन्दसिंहस्य शक्तिं तद्द्वारा वर्धमानाः समस्याः, तेन धृतानां राजचिह्नानां विषयं च सूचितवन्तः आसन् । गुरुगोविन्दसिंहः स्वयमेव चक्रवर्तीति आत्मानं भावयतीति, एतेन औरङ्गजेब इत्यस्य शासनं सङ्कटे पतितमिति च भयम् उत्पादितवन्तः । औरङ्गजेब इत्येषः सत्वरं योग्याः प्रतिचर्याः कृतवान् । सरहिन्दे, एवं लाहोरे स्थितं सुबेदारद्वयं गुरुगोविन्दसिहम् आक्रान्तुं प्रेषितवान् । किन्तु अस्मिन् युद्धेऽपि मुघलसेना पराजिता । कहलूरुराजः पुनः प्रयत्नं कृत्वापि निराशः एव जातः । पर्वतशासकानाम् आधिः अवर्धत । समयं दृष्ट्वा गुरुगोविन्दसिंहं प्रहर्तुं ते प्रयतमानाः आसन् । तदा एव सय्यदबेग्, अलीखान् इत्येतौ मुघलसैनिकौ लाहोरतः देहलीम् आगच्छन्तौ आस्ताम् । पर्वतीयशासकाः ताभ्यां प्रतिदिनं द्विसहस्ररूप्यकाणां प्रदाननियमेन गुरुगोविन्दसिंहेन सह योद्धुम् आहूतवन्तः आसन् । तयोः सेनायां दशसहस्रम् आयुधधारिणः सैनिकाः आसन् । गुरुगोविन्दसिंहः चमकौत इति स्थाने स्वसेनया सह सिद्धः आसीत् । तत्रैव तेषां मध्ये युद्धं प्राचलत् । गुरुगोविन्दसिंहस्य पराक्रमेण, सौजन्येन प्रभावितः सय्यदबेगः तस्य पक्षं प्रविष्टवान्। स्वस्य मित्रेण कृतम् एतत्कार्यम् आलीखान इत्येषस्य मनःस्थैर्ये कुठाराघात इवाभवत् । सः युद्धभूमिं त्यक्त्वा पलायितवान् ।
आनन्दपुरनिर्बन्धः
[सम्पादयतु]पर्वतशासकानां, बलवतां स्वीयसेनानायकानां च पराजयं श्रुत्वा औरङ्गजेब इत्येषः चिन्ताक्रान्तः अभवत् । बृहतीं सेनावाहिनीं प्रैषयत् । तस्यां सेनायां सरहिन्दस्य, लाहोरस्य जम्मुप्रान्तस्य च राज्ञां सेनापि सम्मिलिता आसीत् । द्वाविंशतिः पर्वतशासकाः स्वसेनाभिः सह तत्रासन् । गोविन्दसिंहः स्वशक्त्यनुसारं युद्धाय सिद्धोऽभवत् । प्रारम्भे पर्वतशासकानां सेना, मुघलसेना च खालसासेनायाः पुरतः स्थातुं नाशक्नोत् । किन्तु केषुचित् दिनेष्वेव विशाला मुघलसेना आनन्दपुरम् आक्रान्तवती । आनन्दपुरस्य बाह्यजगता सह सम्बन्धः त्रुटितः । अपि च तस्मिन् पट्टणे धान्यस्य जलस्य चाभावः अजायत । क्षुधया, तृषया च सैनिकाः क्षुब्धाः । "दुर्गं त्यक्त्वा बहिरागच्छन्ति चेत् सुरक्षितान् त्यजाम" इति मुघलसेनानायकः खुराने, पर्वतशासकाः गीतां स्पृष्ट्वा च शपथं कृत्वा सन्देशान् प्रेषयन्ति स्म । केचन सैनिकाः 'अङ्गीकरोतु’ इति गुरुं पीडयन्तः आसन् । तदा गुरुः "ये गन्तुमिच्छन्ति ते गन्तुमर्हन्ति, किन्तु 'गुरुशिष्यसम्बन्धं स्वयं त्रोटयामः’ इति लिखित्वा यच्छन्तु" इति अवदत् । ४० सिक्खजनाः तथा विलिख्य दत्त्वा दुर्गं त्यक्त्वा गतवन्तः । दुर्गस्य निर्बन्धः इतोऽपि दृढः जातः । अष्टमासानाम् अनन्तरं गुरुगोविन्दसिंहः अपि दुर्गं त्यक्त्वा गमनं निश्चितवान् । स्वमातरं, पत्नीः, चतुरः पुत्रान् अजितसिंहं, जुजुरसिंहं, जोरावरसिंहं, फतेसिंहं, स्वमित्राणि च स्वीकृत्य सः दुर्गं त्यक्त्वा बहिर्गतवान् ।
कालरात्रिः
[सम्पादयतु]ईशवीय १७०४ तमे वर्षे डिसेम्बर् मासे २१ दिनाङ्कस्य अर्धरात्रिकालः । गुरुगोविन्दसिंहः दुर्गात् बहिः आगतवानिति शत्रवः ज्ञातवन्तः । ते स्वशपथान् विस्मृत्य गुरुगोविन्दसिंहं गृहीतुं सरसानद्याः तटे वृष्टौ अपि युद्धम् आरब्धवन्तः । गुरुगोविन्दसिंहः स्वपुत्रौ अजितसिंहं, जुजुरसिंहं, अन्यान् च ४० संख्याकान् शिष्यान् स्वीकृत्य चमकौरदुर्गं प्राप्तवान् । तस्य अन्ये कुटुम्बसदस्याः तेन वियुक्ताः । अन्तिमबालकद्वयं जोरावरसिंहः, फतेसिंहः च मात्रा सह पूर्वतनपाचकस्य गङ्गारामस्य ग्रामं गतवत् । किन्तु सः विश्वासघातको भूत्वा एतान् वञ्चितवान् । बालकद्वयं सरहिन्दस्य सुबेद-पदवाच्याय वजीरखान् इत्यस्मै द्त्तवान् । वजीरखान इत्येषः तयोः बालकयोः ईशवीये १७०४ तमे वर्षे डिसेम्बरमासे २७ तमे दिनाङ्के सजीवसमाधिं कारितवान् । गुरुगोविन्दस्य माता एतां वार्तां श्रुत्वा मनोवेदनया प्राणान् त्यक्तवती ।
तयोः सजीवसमाधेः पूर्वं राजा महम्मदीयमतस्वीकरणार्थं प्रेरितवान्, भवन्तौ यद् इच्छतः तद् ददामीति च प्रलोभं दर्शितवान् । किन्तु तौ नाङ्गीकृतवन्तौ । " अस्माकं धर्मः अस्माकं प्राणेभ्योऽपि प्रियतरः । आवयोः अन्तिमश्वासपर्यन्तम् आवां तं न त्यजावः । आवां गुरुगोविन्दसिंहस्य पुत्रौ । आवयोः पितामहः गुरुतेजबह्दूरः धर्मरक्षणार्थं स्वजीवनस्य आहुतिं कृतवान् ।" इति दृढं समाहितवन्तौ । तेन कोपोद्रिक्तः राजा तयोः सजीवसमाधिं कारितवान् । समाधिनिर्माणसमये ज्येष्ठस्य नेत्रयोः अश्रूणि दृष्ट्वा कनिष्ठः "अग्रज ! भवतः नेत्रयोः जलं किमर्थं निर्गच्छति ? भवान् आत्मसमर्पणात् भयं प्राप्नोति वा ?" इति पृष्टवान् । ज्येष्ठः समादधन् अवोचत् - "भवान् जानाति, अहं ,मृत्युं दृष्ट्वा न बिभेमि । अपि च मृत्युरेव मां दृष्ट्वा बिभेति। अत एव सः प्रथमं भवतः समीपम् आगच्छन् अस्ति । कनिष्ठः भवान् प्रथमम् आत्मसमर्पणं करोतीति अहं दुःखितोऽस्मि " इति । विश्वेतिहासे एतादृशं विशिष्टं प्राणदानं प्रायः कुत्रापि नोदाहृतम् । एतादृशौ लघुबालकौ धर्मार्थम् आत्मार्पणं कृतवन्तौ इति घटना इतिहासे कुत्रापि न दृश्यते ।
गुरुगोविन्दसिंहस्य सुन्दरी, साहिबादेवी इति द्वे पत्न्यौ स्वसोदरेण मणिसिंहेन सह देहलीं गतवत्यौ । चमकौरदुर्गे जाते युद्धे गुरुगोविन्दस्य ज्येष्ठौ पुत्रौ मृतौ । दुर्गमाश्रित्य स्थितवद्भिः ४० जनैः तत्र स्थातुमश्कयमिति ज्ञात्वा गुरुगोविन्दसिंहः अवशिष्टमित्रत्रयं स्वीकृत्य दुर्गं त्यक्तवान् । अन्यान्यदिक्षु ते प्रस्थिताः । 'माचीवाडा’ अरण्येषु कण्टकानां मध्ये, पादरक्षारहिताभ्यां पादाभ्यां, पर्णादीनि खादन् गुरुः अटन्नासीत् । वस्त्राणि जीर्णानि । पादरक्षाभ्यां विना अटनेन पादयोः व्रणाः जाताः । अतः अटितुमशक्तः कुत्रचित् विश्रान्तिं स्वीकृतवान् । तदा तत्रैव सः नजीखान, गनीखान् इत्येताभ्यां पठानाख्याभ्यां सह मिलितवान् । तयोः गुरौ अत्यन्ता भक्तिः आसीत् । गुरुगोविन्दसिंहः यदा आनन्दपुरे आसीत् तदा तौ मध्य-आसियातः अश्वान् आनीय तस्मै विक्रयणं कुरुतः स्म । पश्चात् मुघलसेना अस्ति, आवाम् आपदि पतिष्यावः इति ज्ञात्वापि तौ गुरुं रक्षितवन्तौ । गुरुगोविन्दसेनं महम्मदीयसन्न्यासिनं (फकीर्) इव कृष्णवर्णवस्त्राणि धारयित्वा 'उच्च-का-पीर्’ इति वदन्तौ एकस्यां शिबिकायाम् उपवेश्य प्रस्थितौ । 'उच्चैः' इत्यस्य अर्थद्वयमस्ति । प्रथमः अर्थः अस्ति -उन्नतः इति, द्वितीयः अस्ति -मुल्ताननगरसमीपस्थं महम्मदीयानां पुण्यक्षेत्रम् इति ।
कदाचित् मुघलसेनायां केषाञ्चन सन्देहः जातः । प्रश्नोत्तरानन्तरमपि तेषां सन्तृप्तिः नाभवत् । विचारणार्थं काजी पीरमहम्मदम् आहूतवन्तः । भाग्यवशात् सः काजी (महम्मदीयपुरोहितः)गुरुगोविन्दसिंहस्य बाल्ये तस्मै पारशीभाषां बोधयन् आसीत् । अतः स तत्रत्यस्थितिं ज्ञात्वा समीकर्तुं किमपि उक्त्वा मुघलसेनां प्रतिप्रेषितवान् । गुरुगोविन्दः तत्रैव निवसति स्म। केषाञ्चन दिनानामनन्तरं जोरावरसिंहः फतेसिंहश्व मृताविति हृदयविदारिका वार्ता प्राप्ता । शनैः शनैः पूर्वतनमित्राणां मेलनं प्रारब्धम् । पुनः शक्तिवर्धनम् आरब्धम् । तस्मिन्नेव समये सरहिन्दस्य सुबेदारः वजीरखान इत्येषः गुरोः अन्वेषणमारब्धवान् । गुरोः सेना यदा 'खिण्डराणा’ मध्ये आसीत् तदा पक्षद्वयं परस्परसम्मुखमभवत् । युद्धं जातम् । तत्र वजीरखान इत्येषस्य सेना पराजिता । सिक्खसेनया आनन्देन उत्सवः कृतः । मुघलसेना विषादे मग्ना आसीत् ।
औरङ्गजेब इत्यस्य आह्वानम्
[सम्पादयतु]अस्मिन् युद्धे विशेषोऽस्ति । ४० सिक्खवीराः अत्यन्तं वीरोचितं युद्धं कुर्वन्तः प्राणार्पणं कृतवन्तः । ते चत्वारिंशत् एव आनन्दपुरदुर्गतः गुरुशिष्यसम्बन्धं त्रोटयित्वा गतवन्तः आसन्। स्वप्राणान् समर्प्य ते पूर्वतनस्य अपराधस्य प्रायश्चित्तं कृतवन्तः । तदारभ्य सिक्खजनाः स्वकीयदैनन्दिनप्रार्थानायां "चत्वारिंशत् मुक्ताः"इति नाम्ना तान् सश्रद्धं स्मरन्ति । एतद् युद्धं खिण्डराणा इत्यत्र अभवत् । सः प्रदेशः एतेषां वीरत्वसूचकः 'मुक्तसर्’ इति नाम्ना प्रसिद्धः । प्रतिवर्षं माघमासे एतेषां स्मरणे अत्र महान् उत्सवः भवति । गुरुगोविन्दसिंहः ततः 'तल्वण्डिसाहब्’ ग्रामे स्थितस्य स्वमित्रस्य डल्ला इत्यस्य समीपं गतवान् । वस्तुतः एषः प्रदेशः श्रेष्ठतमः । पञ्जाबे स्थितानां अत्यन्तपुरातनवंशानां ज्येष्ठाः, अन्यराजवंशीयाश्च अत्र आसन् । ते सर्वे गुरुोः दीक्षां स्वीकृत्य खालसापथम् प्रविष्टवन्तः ।
अत्र आगमनानन्तरं गुरुः गुरुग्रन्थसाहिबं पुनः रचितवान् । शनैः शनैः सः प्रदेशः अध्ययनस्य केन्द्रम् अभवत्। किञ्च सः प्रदेशः 'सिक्खजनानां काशी’ इति प्रसिद्धश्च । चरित्रकाराणां कथनानुसारम् अत्र यदा गुरुः निवसन् आसीत् तदा औरङ्गजेब इत्येषः गुरुगोविन्दसिंहं मेलितुम् आहूतवान् । तस्य उत्तररूपेण गुरुः औरङ्गजेब इत्यनेन पूर्वं कृतां विश्वासघातकरीतिं स्मारयन् लेखं लिखितवान् । औरङ्गजेब इत्येषः अनुक्षणं स्वीयसेनापतीन् आहूय गुरुगोविन्दसिंहस्य काऽपि समस्या न भवेदिति उक्त्वा गौरवपूर्वकं तं स्वसमीपमानेतुम् आज्ञप्तवान् । तदा औरङ्गजेब इत्येषः अहम्मदनगरे आसीत् । १७०६तमे वर्षे अक्टोबरमासे गुरुः राजस्थानतः दक्षिणां दिशं प्रस्थितः । मार्गे राजपुत्राः राजानः तस्य विषये हार्देन स्वागतेन गौरवं प्रदर्शितवन्तः । प्रयाणमध्ये एव १७०७ वर्षे फेब्रवरि मासे २० दिनाङ्के औरङ्गजेब इत्येषः दिवङ्गत इति वार्ता श्रुता । तदा गुरुगोविन्दसिंहः देहलीं गत्वा स्वपत्नीद्वयं मिलितवान् ।
औरङ्गजेब इत्यस्य मरणानन्तरं तस्य पुत्राः सिंहासनार्थं परस्परं कलहायमानाः आसन् । तदा तेषु अन्यतमः मुअज्जम् गुरुगोविन्दसिंह्स्य आशीर्वादं प्राप्तुम् आगतवान्। अनन्तरं स एव बहदुरशाह नाम्ना देहलीसिंहासनम् अधिष्ठितवान् । केषाञ्चन दिनानामनन्तरं बहदुरशाहः गुरुगोविन्दसिंहम् आहूय सत्कृतवान् च । सत्कारसन्दर्भे सम्प्रदायानुसारं स्वस्मै दत्तं मुकुटं धर्तुं गुरुः न अङ्गीकृतवान्। मुकुटं स्वशिष्यद्वारा स्वनिवासं प्रति प्रेषितवान् । बहदुरशाहः तम् एकम् ऋषिपुङ्गवम् इव भावयति स्म । देहलीचक्रवर्ती गुरुगोविन्दसिंहं गुरुमिव यद्यपि पश्यति स्म तथापि गुरुः बहदुरशाहं स्वमित्रमिव भावयति स्म । बहदूरशाहः स्वसोदरस्य कम्बख्तस्य दुष्कृत्यानि शमयितुं सेनया सह यदा दक्षिणां दिशं प्रस्थितवान् तदा गुरुः अपि तेन सह प्रस्थितवान्। मुघलसेनाः पुरतः गच्छन्त्यः आसन्, किन्तु गुरुः गोदावरीतीरस्थे नान्देड् ग्रामे स्थितवान् ।
माधवदासनामा विरागी
[सम्पादयतु]उज्जयिन्यां गुरुगोविन्दसिंहः यदा दावूद् धर्मसम्बन्धिनं नारायणदासेन सह मिलितवान् आसीत्, तदा सः नारायनदसः गुरुगोविन्दम् अकथ्यत्, 'नान्देड्-ग्रामे कश्चन वैरागी अस्ति, सः अद्वितीयशक्तियुतः, भवता सः द्रष्टव्यः' इति । ततः तं वैरागिणं माधवदासं गुरुगोविन्दसिंहः नान्देड्पत्तने मिलितवान् । गुरुगोविन्दसिंहः तस्य आश्रमं यदा गतवान् तदा सः आश्रमे नासीत् । गुरुः तस्य पीठे उपविष्टवान् । माधवदासः आगत्य गुरुगोविन्दसिंहम् आसनतः अवरोहयितुं स्वस्य मन्त्रविद्याः प्रयुक्तवान्, ताः गुरौ निष्फलाः अभवन् माधवदासः गुरोः महत्त्वं ज्ञातवान् । गुरुगोविन्दसिंहः तस्मै कर्मसन्देशं श्रावितवान् । देशस्थाः परिस्थितीः व्यवृणोत् । विरागी माधवदासः गुरोः उपदेशेन प्रभावितः स्वयं तस्य बन्दा(दासः) इति प्रकटितवान् । एवं विरागी माधवदासः बन्दाबैरागी (विरक्तदासः) जातः । स्वजीवनसर्वस्वं गुरवे समर्पितवान् । गुरुगोविन्दसिंहः स्वस्य उत्तराधिकारिरूपेण तं पञ्जाबं प्रेषितवान् ।
गुरुगोविन्दस्य मृत्युः
[सम्पादयतु]नान्देड् प्राप्त्यनन्तरं एकमासाभ्यन्तरे एव गुरुगोविन्दसिंहस्य जीवनलीला समाप्ता अभवत् । ईशवीये १७०८त्मे वर्षे अक्टोबर सप्तमदिनाङ्के कश्चन पठान् सैनिकः तं खड्गेन आक्रान्तवान् । गुरुः तस्मिन् समये विश्रान्तिम् अनुभवन् आसीत् । समीपे तस्य रक्षकरूपेण कोऽपि नासीत् । गुरुः पार्श्वस्थं खड्गं निष्कास्य तं पठानं मारितवान् । गुरोः आक्रोशेन शिष्याः आगत्य पठानस्य अनुचरद्वयं मारितवन्तः । अनुक्षणं गुरोः व्रणेषु औषधं लेपयित्वा उपशामितवन्तः । त्रिचत्वारि दिनानि अतीतानि । किन्तु स्वस्य अन्तिमसमयः आसन्नः इति ज्ञात्वा गुरुगोविन्दः शिष्यान् समीपम् आहूय 'वाहे गुरुजी के फते’ इति वदन् प्राणपरित्यागं कृतवान् मरणसमये तस्य आयुः केवलं ४२ वर्षाणि । नान्देड्-ग्रामे तस्य स्मरणार्थं निर्मितं गुरुद्वारामन्दिरं 'हुजूरसाहेब्’ नाम्ना तीर्थक्षेत्रमेव जातम् अस्ति ।
भगवद्गीतायां भगवता श्रीकृष्णेनोक्तम् -‘यदा यदा धर्मस्य हानिः भवति, तदा अहम् अवतारं स्वीकरोमि।’ इति गुरुगोविन्दसिंहः अपि एवमेवोक्तवान् । 'धर्मपरिरक्षणं कृत्वा, साधुसज्जनान् रक्षितुमेव अहं जन्म प्राप्तवान् ।’ इति । साधुजनरक्षणं , दुष्टानां विनाशनं भवति चेदेव धर्मः लोके स्थिरः भवति । एतद् ज्ञात्वा एव गुरुगोविन्दसिंहः आयुधधारणं कृत्वा युद्धं कृतवान् ।
तेगस्य जयो भवतु
[सम्पादयतु]यद्यपि गुरुः दारिद्र्येण पीडितः आसीत्, तथापि समाजे पुनः आत्मविश्वासस्य, साहसस्य च प्रतिष्ठापनाय स्वं समर्पितवान् । दरिद्राः जनाः अपि युद्धम् अकुर्वन् । क्षुरकाः, रजकाः, चर्मकाराः अपि सर्वेषां विस्मयं जनयन्तः वीराः जाताः । गुरुगोविन्दसिंहः स्वरचनेषु परमात्मानं बहुविधं वर्णितवान् । तस्मै 'काल’स्य नाम अत्यन्तं रोचते स्म । " सज्जनानां माङ्गल्याय, दुष्टानां विनाशाय, विश्वं सुस्थिरं कर्तुं च मया कृतायाः प्रतिज्ञायाः सम्पादनार्यं तेग (खड्गः) एक एव साधनम् । तेग की जय हो (खड्गस्य जयोऽस्तु) ।" इति सः लिखितवान् ।
कवित्वम्
[सम्पादयतु]हिन्दीभाषायां वीरकविषु चान्द बरदाय्, भूषण इति नामद्वयं अधिकतया श्रूयते । भूषणकविः वीररसे अग्रस्थाने अस्ति। किन्तु गुरुगोविन्दसिंहः वीररसे सहजकविः । धर्मयुद्धार्थमेव सः काव्यानि लिलेख । एतादृशलेखकः अन्यः कोऽपि न दृश्यते । स्वस्य 'चण्डीचरित' काव्ये 'स्वयं वीरगतिं प्राप्नुयाम्’ इति आकाङ्क्षामपि अभिव्यञ्जीत् गुरुगोविन्दसिंहः ।
डाक्टर् महेशसिंहः गुरुगोविन्दसिंहस्य तत्त्वमुद्दिश्य एवं लिखितवान् -" एषः विषयः अस्माभिः अवगन्तव्यः । गुरुगोविन्दसिंहः महम्मदीयान् विरुध्द्य युद्धं कृत्वा आवेशं न प्रदर्शितवान् । केवलं तुर्कजनान् विरुध्द्य एव सः सङ्ग्रामं कृतवान् । सः म्लेच्छशब्दं प्रयुक्तवान् । एष एव विशेषः भूषणस्य कवित्वेऽपि दृश्यते । छत्रपतिः शिवाजी, गुरुगोविन्दसिंहः इत्यादयः यां शक्तिं विरुध्द्य युद्धं कृतवन्तः तां राजनैतिकशक्तिं तुर्कशब्दः सूचयति।"
वीरभक्तः
[सम्पादयतु]गुरुगोविन्दसिंहः सर्वामपि हिन्दुशक्तिं सङ्घटितवान् इत्यत्र शैव-शाक्तेय-वैष्णव-साहित्यानुवादः प्रमाणरूपेण दृश्यते । तस्य स्वभावोऽपि अद्वितीयः अस्ति । सः कश्चन भक्तः । अन्यायं विरुद्ध्य प्रजाभिः कर्तव्यस्य उद्यमस्य महानायकः अपि सः । सूरदासः, कबीरदासः, गुरुनानकः इत्यादयः सर्वेऽपि भक्ता एव । किन्तु गुरुगोविन्दसिंहः वीरभक्तः । एवमेव मानवाः सर्वे समाना इति, सर्वेषां हृदयेषु एकe एव भगवतः ज्योतिः ज्वलतीति तस्य अचलः विश्वासः।
रणोत्साहः
[सम्पादयतु]गुरुगोविन्दसिंहस्य जीवनसमये देशः महत्यां विपदि आसीत् । विदेशीयानाम् आक्रमणमारभ्य ६०० वर्षाणि अतीतानि । प्रजानाम् उपरि अत्याचारैः कञ्चित्कालं, सङ्घर्षणैः कञ्चित्कालं, मध्ये,मध्ये सज्जनत्वेन च कञ्चित्कालं देशे विदेशीयानां शासनं प्रचलितम् । स्वीयां सर्वां शक्तिं भारतीयसंस्कृतेः धार्मिकविश्वसानां विनाशायैव उपयुक्तवताम् औरङ्गजेब- इत्यादीनां शासनं प्रचलितम् । तादृशस्थितौ तां राक्षसशक्तिं निग्रहीतुं देशप्रजानां पालने पीड्यमानजनानां सङ्घटनं रचितवान् गुरुगोविन्दसिंहः । सामान्यजनानां विचारेषु परिवर्तनायै सः अधिकप्राधान्यं दत्तवान् । आत्मविस्मृतिं दूरीकृत्य तेषु आत्मविश्वासं जनयितुं सः "लक्षेणापि जनैः एको भूत्वा युद्धं कुरु" इति उत्साहं जनितवान् । अत एव भारतदेशेतिहासे तस्य विशिष्टं स्थानं कल्पितमस्ति ।
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये गुरु गोविन्द सिंह सम्बन्धिताः सञ्चिकाः सन्ति। |