सामग्री पर जाएँ

गुरुः (अध्यात्ममार्गदर्शकः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

गुरुः मनुष्यस्य पथप्रदर्शनाय, आध्यामिकमार्गस्य सहायतायै, प्रश्नानाम् उपशमनाय च अतीव महत्त्वपूर्णः भवति। गुरवे नमस्कारं कृत्वा एव ईश्वरस्य पूजायै शास्त्राणि आदेशं ददति। गुरवे कृतज्ञता एव शिष्याय परमकर्तव्यं भवति। यदा गुरुः शिष्याय दीक्षां ददाति, तदा शिष्याय गुरुः सर्वस्वं भवति। ततः शिष्यः गुरोः कृते भीक्षाम् आनयति। गुरवे योग्यं सम्माननं ददाति। गुरोः, शिष्यस्य च सम्बन्धः परमार्थमार्गाय भवति। अतः ताभ्यां परमार्थचिन्तनम् अतीव महत्त्वपूर्णं भवति। गुरुः शिष्याय उपदेशान् ददाति। शिष्यः गुरवे द्रोहं न करोति। परन्तु गुरुः मूर्खाय शिष्याय क्रोधं करोति। यतः गुरुः शिष्याय योग्यां शिक्षां दातुम् इच्छति। यदि गुरुः शिष्याय ज्ञानं दातुं प्रयत्नं करोति, तर्हि शिष्यः अपि अध्ययनाय प्रयत्नं कुर्यात्। अन्यथा गुरुः योग्याय शिष्याय आजीवनं स्पृहति। परन्तु वर्तमानाय शिष्याय तस्य मनसि इच्छा न उद्भवति। शिष्यः गुरोः कृते भोजनं पचति। गुरोः, शिष्यस्य च सम्बन्दः अतीव मृदुः भवति। वेदे मन्त्रः प्राप्यते। यथा -

सहनाववतु सहनौ भुनक्तु, सहवीर्यङ्करवावहै तेस्विनावधितमस्तु मा विद्विषावहै।

यदि शिष्यः गुरवे द्विषति, तर्हि अपि गुरुः शिष्याय क्षमां ददाति। परन्तु तस्मै उचितां शिक्षाम् अपि ददाति। शिष्याय गुरोः वचनानि रोचते। यदा शिष्यस्य मनसि प्रश्नः उद्भवति, तदा गुरवे प्रश्नं निवेदयति। शिष्यस्य प्रश्नानुसारं गुरुः शिष्याय उत्तरं कथयति। यदि शिष्यः अन्याय शिष्याय ईर्ष्यति, तर्हि गुरुः आत्मनिरीक्षणाय निवेदयति।

भगवतः दैविकः वरः 'गुरुः’

[सम्पादयतु]

'गुरु गोविन्द दोनो खरे
कके लगु पाये
बलिहरि अस् गुरु कि
जो गोविन्द दियो दिखाये'
'मम गुरुः मम प्रभुः उभौ तिष्ठतः मम पुरः
कं नमामि अहमादौ ?
हे साधक ! तव गुरुः नम्यताम् !
प्रभुणा मेलनं साधितम् अनेनैव खलु ?'
सन्तकबीरस्य दोहनामकपद्यस्य सारः अयमेव ।

वस्तुतः योग्यः गुरुः भगवता प्रदत्तः दैविकः वरः एव । श्री परमहंसयोगानन्दः लिखति – 'अस्मिन् जीवनारण्ये अन्धकारेण अजानन्तः अन्धाः इव अटनावसरे, नेत्रवतः कस्यचित् साहाय्यम् अस्माभिः अपेक्ष्यते – गुरोः – देवः इन्द्रजालैः न पाठयति अपि तु ज्ञानवद्भिः आत्मभिः…. गुरुशिष्यसम्बन्धेन दैवनियमः पूर्णः जायते ।'

उत्तमशिष्यस्य लक्षणम्

[सम्पादयतु]

शिष्ये सज्जे सति गुरुः आगमिष्यति इत्येषा काचित् झेन्-उक्तिः । उत्तमेन शिष्येण कथं भवितव्यम् ? कृष्णस्य बह्व्यः शिष्याः आसन् तासु प्रियतमा, राधा । अन्याः सर्वाः राधायै असूयन्ते स्म । तासाम् असूयाम् अवलोकितवान् कृष्णः कदाचित् शिरोवेदनाम् अभिनीतवान् । गुरोः बाधां दृष्ट्वा सातङ्काः शिष्याः अतीव खेदम् अन्वभवन् । अन्ते कृष्णेन उक्तं – 'भवतीषु काचित् मम शिरसि स्थित्वा पादेन उद्घर्षयन्ति चेदेव मम शिरोवेदना अपगमिष्यति' इति । चकिताः ताः शिष्याः सभयम् अवदन् – 'तत् अस्माभिः कर्तुम् अशक्यम् ! भवान् अस्ति भगवान्, जगतः प्रभुः । भवतः पवित्रं शिरः अस्माकं पादैः यदि स्पृश्येत तर्हि भवतः दैवस्वरूपस्य अपचारः आचरितः स्यात्, महत् पापम् आचरितं भवेत् !' तावता राधा तत्र उपस्थिता अभवत् । प्रभुः महत्या वेदनया बाधितः इव अभ्यनयत् । सा धावन्ती तम् उपसर्प्य अपृच्छत् – 'भवदर्थम् अहं किं करवाणि कृपया उच्यताम्' इति । अन्याः शिष्याः उद्दिश्य यत् उक्तं तदेव अवदत् कृष्णः । राधा सपदि एव कृष्णस्य मस्तके अतिष्ठत् । प्रभोः वेदना अपगता, सः निद्रावशः जातः । अन्याः शिष्याः कोपेन राधां बलाद् आकृष्य अतर्जयन् – 'भवतीं मारयाम' इति । 'किन्निमित्तम् ?' दिग्भ्रान्त्या अपृच्छत् राधा । 'प्रभोः शिरसि तिष्ठसि, कियद् धार्ष्ट्यं भवत्याः ?' इति असहनया आक्रोशन् । 'तेन किम् ? ततः तस्य वेदना अपगता खलु ?' इति अवदत् राधा । क्रुद्धाः शिष्याः अगर्जन् – 'भवत्या कृतस्य अपचारस्य कारणतः भवत्या अधमाधमः नरकवासः करणीयः भवति' इति । राधा हसन्ती अवदत् – 'ओहो ! तन्निमित्तं भवन्तः चिन्तिताः किम् ? अहं शाश्वतरूपेण तत्रैव आनन्देन तिष्ठेयं यदि ततः मम प्रभोः आनन्दः क्षणमात्रं वा वर्धेत ।' इति । प्रभौ तस्याः परिपूर्णां शरणागतिं ज्ञातवत्यः अन्याः शिष्याः राधां नमस्कृतवन्तः । अधुना ताभिः अवगतमासीत् प्रभोः सन्तोषं विना राधायाः नान्या चिन्ता विद्यते इति । गुरोः विषयिणी तादृशी शरणागतिः केवला अस्मान् दैवं प्रति नयेत् । किन्तु कस्मिन् सा शरणागतिः स्यात् इत्येतत् जागरूकतया अस्माभिः निर्णेतव्यम् ।'

अन्धविश्वासः अयुक्तः

[सम्पादयतु]

रामकृष्णपरमहंसेन काचित् कथा उच्यते – कश्चन युवकः गोविन्दः गुरुणा बोधितः आसीत् 'देवः सर्वत्र सर्वेषु विद्यते’ इति । गुरोः इदं वचनं सम्पूर्णतया अङ्गीकृतवान् गोविन्दः सर्वत्र मया देवः द्रष्टव्यः इति प्रतिज्ञातवान् आसीत् । कदाचित् ग्रामे गच्छतः तस्य पुरतः उन्मत्तः गजः आगच्छन् आसीत् । उन्मत्तं गजं निर्वोढुम् अशक्नुवन् तदुपरि उपरि उपविष्टः गजपालकः जनान् उद्दिश्य आदिशन् आसीत् सर्वे अपसरन्तु इति । किन्तु गुरोः वचनं स्मरन् गोविन्दः ततः अपसर्तुम् अनिच्छन् अचिन्तयत् – 'गुरुणा उक्तमस्ति सर्वं देवस्वरूपमिति । गजः अपि देवः । अहमपि दैवस्वरूपम् । देवः देवात् किमर्थं बिभ्येत् ?’ इति । उन्मत्तेन गजेन गोविन्दः मार्गे प्रक्षिप्तः । महता प्रमाणेन व्रणितः सः गुरोः कुटिरं नीतः । तस्य गुरुः अपृच्छत् – 'गोविन्द ! किमर्थं भवता मूर्खः व्यवहारः कृतः ? अन्यैः सह किमर्थं भवता न धावितम् ?’ इति । गोविन्दः अवदत् – 'गुरुवर्य ! भवता एव बोधितं खलु सर्वं ब्रह्ममयमिति ? किमर्थं देवात् भीतिः अनुभूतव्या ?’ गुरुः हसन् अवदत् – 'अरे गोविन्द ! गजः दैवस्वरूपम् इत्यत्र संशयलेशोऽपि न विद्यते । किन्तु गजपालः अपि दैवस्वरूपमेव खलु ? गजपालस्वरूपवान् देवः आदिशत् खलु अपसर्यतामिति ? सा दैववाणी किमर्थं भवता न परिपालिता ?’ इति । तदा गोविन्देन गुरोः वचनस्य अन्तरार्थः अवगतः - आन्तरिका वस्तुस्थितिः सर्वत्र समाना एव । किन्तु बाह्यस्वरूपेषु भिन्नताः विद्यन्ते । विभिन्नानां बाह्यस्वरूपाणां पृष्ठतः विद्यमानस्य एकत्वस्य अवगमनमेव ज्ञानम् । योग्यस्य गुरोः अन्वेषणावसरे अज्ञानेन अस्माभिः उन्मत्तस्य गजस्य सन्देशः अन्यथा न ग्रहीतव्यः । सः गजः स्वस्य उन्मत्ततागुणेन एव सूचयति स्म – सर्वे अपसरन्तु इति । सः सन्देशः स्पष्टः यदि न स्यात् तर्हि अपस्रियन्ताम् इति स्पष्टतया कथयतः गजपालस्य वा सन्देशः अस्माभिः श्रोतव्यः ।

धार्मिकसामरस्य विषये कस्मिंश्चित् सन्दर्शने दलैलामवर्येण उक्तम् – 'उत्पठिका विविधैः आहारपदार्थैः सम्पूर्णा विद्यते । प्रत्येकः अपि स्वस्य रुच्यनुगुणम् आहारं चेतुमर्हति एव । एवं सर्वः अपि धर्मः समानं लक्ष्यं प्रति नेष्यति । किन्तु ते वैविध्यतायाः कल्पनाय एव विविधेषु स्वरूपेषु विद्यन्ते ।…' अस्माभिः आन्तरिकम् अवलोकनं कर्तव्यम् – कस्य गुरोः वचनम् अस्मासु महतीं प्रेरणाम् उद्गमयति, साधने संयोजयति इति । किन्तु निर्णयस्य स्वीकरणानन्तरं, शरणागतेः अनन्तरं कस्याञ्चिदपि स्थितौ मार्गभ्रष्टाः न स्याम । श्री परमहंसः योगानन्दः लिखति – 'कश्चन अन्धः अन्यस्य अन्धस्य मार्गदर्शनं कर्तुं नार्हति । दैवसाक्षात्कारं प्राप्तवान् गुरुः मात्रम् अन्यान् तद्विषये योग्यरीत्या बोधयितुम् अर्हति । स्वस्य दैवत्वस्य प्राप्त्यै तादृशः गुरुः अपेक्षितः भवति' इति ।

गुरोः अभिज्ञानं कथम् ?

[सम्पादयतु]

कथं वयम् अस्माकं गुरुम् अभिजानीयाम ? श्रीयुक्तेश्वरगिरिः लिखति – 'अस्माकम् अन्तःसाक्षिणः आदेशं यदि शृणुयाम, अस्माकं सहजाभिलाषं यदि अवलोकयेम तर्हि सकृद् अस्माभिः अवगम्यते यद् तादृशाः अस्माभिः इष्यन्ते येषाम् अयस्कान्तीयशक्तिः अस्मासु समरसताम् आनयेत्, शान्तिं प्रवर्धयेत्, अन्तःसत्त्वम् उद्दीपयेत्, सहजप्रेम वर्धयेत् ततः अस्माकं दुःखेभ्यः मुक्तिं दद्यात्, शान्तिं प्रयच्छेत् च ।” सहवासानन्दस्य निर्वचनम् एवं यदि स्यात् तर्हि अस्मद्गुरोः उपस्थितौ कियदधिकम् आनन्दं प्राप्नुयेम ?

योग्यगुरुः स्वस्य वचनमाध्यमस्य अपेक्षया अनुभवज्ञानेन एव अधिकं बोधयति । भौतिकरूपेण यदा अस्मत्समीपे न विद्यते तदा अपि सः सम्पृक्तः एव तिष्ठति । स्वस्य उपदेशैः एव सः जीवति, तदीयं जीवनं निरन्तप्रेरणादायकं तिष्ठति । 'अहं भवतः अपेक्षया समीचीनः’ इति कथयन् कदापि सः मार्गदर्शनं न करिष्यति । 'त्वत्तः अपेक्षया पवित्रोऽहम्’ इत्येतादृशः मनोभावः लेशमात्रेण दृश्यते चेदपि जानातु यत् सः अहङ्कारयुतः इति । कोऽपि योग्यः गुरुः त्वयि आत्महीनभावं न जनयति । सः दृढं विश्वसिति यत् 'अहं त्वं च आत्मनः स्तरे समानौ’ इति । अथ कदाचित् परमहंसः योगानन्दः शिष्यं किञ्चित्कार्यं कर्तुम् असूचयत् । इदं मम सामर्थ्यातीतम् इति शिष्यः अचिन्तयत् । अतः अहमिदं कर्तुं न शक्नोमि इति सः गुरुम् अवदत् । परमहंसवर्यस्य उत्तरं संक्षिप्तम् आग्रहपूर्वकं च आसीत् –”अहं कर्तुं शक्नोमि” इति । शिष्यः विरोधभावेन अवदत् – 'किन्तु गुरुदेव, भवान् अस्ति योगानन्दः । भवान् देवेन युक्तः अस्ति’ इति । गुरुः परमहंसः योगानन्दः अवदत् – 'तव योगानन्दस्य च भेदः एकस्मिन्नेव अंशे । मया परिश्रमः कृतः । अधुना त्वया परिश्रमः कर्तव्यः’ इति । योग्येन गुरुणा शिष्याणाम् अज्ञानस्य दोषस्य च प्रदर्शनद्वारा आत्मनः औन्नत्यं दर्शनीयं न भवति । गुरुः दोषम् अवलोकते, मुक्तमनस्काय शिष्याय तत् दर्शयति च । किन्तु सः कदापि दोषाणां विषये अधिकं समयं न यापयति । मनसः दोषाणाम् अपसारणाय सः शिष्यं प्रेरयति । सद्गुणानां वर्धने अभिव्यक्तौ च अवधीयतामिति शिष्यान् प्रेरयति सः ।

शिष्यस्य अज्ञानस्य दोषाणाञ्च दर्शनं गुरोः लक्षणं नैव । अस्माभिः यदा यदा दोषः क्रियते तदा सर्वदा अपि आनन्देन सहायहस्तं प्रसारयति गुरुः । परिष्कर्तव्याः अंशाः व्यक्तिगतरूपेण एव गुरुणा सूच्यन्ते न कदापि अन्यस्य दोषदर्शनं गणे क्रियते । तेन क्रियमाणाय साहाय्याय प्रसिद्धिं यदि सः इच्छेत् तर्हि स्पष्टं जानातु यत् भवता स्वीयं दौर्बल्यं पूर्वमेव जितं चेदपि तस्य अहङ्कारः भवदीयानि दौर्बल्यानि निश्चयेन प्रकाशयिष्यन्ते एव इति ।

योग्यः गुरुः

[सम्पादयतु]

योग्यः गुरुः कदापि भवन्तं न परित्यक्ष्यति । श्रीयुक्तेश्वरगिरिः स्वस्य शिष्यं परमहंसं योगानन्दम् उद्दिश्य अवदत् – ”इदानीम् आरभ्य चिरं यावत् अहम् भवतः सुह्द् भविष्यामि, भवान् अधमाधममानसिकस्तरे वा भवतु, अत्युन्नतज्ञानस्तरे वा भवतु नाम । भवता दोषः क्रियेत चेदपि अहं भवतः मित्रत्वेनैव तिष्ठामि यतः अन्यसमयापेक्षया तदा एव भवता मम मैत्री आधिक्येन अपेक्षिता भवति” इति । गुरुः सदा अस्माभिः सह तिष्ठति (भौतिकरूपेण न अपि तु अध्यात्मरूपेण, मानसिकरूपेण च) सहायहस्तं प्रसारयितुं सज्जः सन् । प्रश्नकरणद्वाराः वर्धनाय शिष्याणां कृते अवसरं कल्पयति गुरुः । सः कदापि अन्धनिष्ठां न अपेक्ष्यते यद्यपि योग्याः शिष्याः सहजतया सविश्वासं तम् अनुसरेयुः । शिष्याणाम् अपेक्षया सम्यक् जानामि इति दर्शनाय अहङ्कारयुक्तैः वचनैः गुरुणा तर्जनीयं न भवति यतः गुरुः सम्यगेव अवगच्छति यत् 'सर्वे सन्दर्भाः उद्भवन्ति यतः देवः मदपेक्षया अधिकमेव जानाति, अपि च प्रकाशस्य अनुभवप्राप्तै अन्धकारः नितराम् अपेक्ष्यते च' इति ।

परमहंसः योगानन्दः, गुरुणा श्रीयुक्तेश्वगिरिवर्येण सह स्वस्य जीवनं विवृणोति – 'अहं कदाचित् तस्य (श्रीयुक्तेश्वरस्य) आश्रमं परित्यक्तवान् हिमालये यशस्वितया अधिकं साधनं कर्तुं शक्नुयाम् इति चिन्तयन् । किन्तु मया दोषः कृतः आसीत् । अचिरात् मया तत् अवगतम् । मया यदा प्रतिगतं तदा मया ततः न गतम् इव व्यवाहरत् सः । तस्य व्यवहारः अतिसामान्यः आसीत् । तर्जनम् अकुर्वता तेन सहजतया उक्तम् – 'अद्य प्रातराशः कः स्यात् इति पश्याम' इति । अहम् अपृच्छं –”किन्तु गुरुवर्य ! इतः परित्यज्य गतवान् इति किं न भवान् क्रुद्धः ?' इति । तेन उक्तम् – 'कुतः अहं क्रुद्धः स्याम् ? अहम् अन्येभ्यः किमपि न अपेक्षे । अतः तेषां कृत्यानि मम आशयस्य विरुद्धं भवितुं नार्हति । अहं मन्निमित्तं भवतः उपयोगं न करिष्ये । भवतः नैजसन्तोषे एव मम सन्तोषः विद्यते' इति । तस्मिन् एवम् उक्ते अहं तस्य चरणौ गृहीत्वा रुदन् अवदं – 'ऐदम्प्राथम्येन जीवने अहं जनं पश्यन् अस्मि यः मां वस्तुतः प्रीणाति !' तादृशः दैविकप्रेमसम्बन्धः गुरुशिष्ययोः मध्ये यदि वर्धेत तर्हि शिष्ये गुरुद्रोहचिन्तनं न उदेति, शिष्यः निग्रहितव्यः इत्यपि गुरुः न प्रयतते । शिष्यः गुरवे आत्मसमर्पणं करोति, गुरोः स्वस्य हृदयं शिष्याय अर्पयति ।

आदिशङ्करः गुरोः निर्वचनम् एवं करोति – 'त्रिलोके अपि सद्गुरोः समानः अन्यः न विद्यते । तत्त्वज्ञानिनः शिला विशेषशक्तियुता इति चिन्त्यते चेदपि सा अयः स्वर्णरूपेण परिवर्तयेत् न तु अन्या तत्त्वज्ञानिशिलारूपेण । किन्तु सद्गुरुः शिष्यं सद्गुरुरूपेण परिवर्तयति । गुरुः अतः भवति अत्यमूल्यः अति विशिष्टश्च ।

सामान्या प्रेरणा सामान्यं जनं हृदयवन्तं सुजनं कुर्यात् । किन्तु सद्गुरुमात्रम् अस्मान् स्वस्य स्तरं प्रति उन्नेतुम् अर्हति । सः स्वस्य भौतिकप्रतिबिम्बानां निर्माणे आसक्तः न । अपि च प्रत्येकं शिष्यं स्वस्य अन्तारात्मानं साक्षात्कर्तुं सहकरोति । तादृशः गुरुः भगवतः दैविकः वरः । सद्गुरुं प्राप्य तस्य बोधनैः स्वस्य जीवनं संयोजितवन्तः एव धन्याः । [गुरु अष्टकम]] शरीरं सुरुपं तथा वा कलत्रं

यशश्चारू चित्रं धनं मेरुतुल्यम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।१।।


कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।२।।


षडंगादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।३।।


विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।४।।


क्षमामण्डले भूपभूपालवृन्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।५।।


यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तु सर्वं करे सत्प्रसादात् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।६।।


न भोगे न योगे न वा वाजिराजौ

न कान्तासुखे नैव वित्तेषु चित्तम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।७।।


अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।८।।


अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ।।९।।


गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।१०।।