गुरु नानक देव

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(गुरुनानकः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
गुरु नानक देव
ਗੁਰੂ ਨਾਨਕ ਦੇਵ
गुरु नानक-देवः अन्यसिखगुरुभिः सह
१९ शतकस्य तञ्जोर्-चित्रकला यत्र १० सिक्खगुरवः चित्रिताः ।
मध्ये विराजते - गुरुनानकः
Born

नानक देव
१५ एप्रिल् १४६९
राइ भोइ की तलवण्डी,
देहलीसुलतानसाम्राज्यम्
(वर्तमाने गुरद्वारा जनमस्थान,

ननकाना साहिब, पञ्जाब, पाकिस्तान)
Died २२ सेप्टेम्बर् १५३९ (वयः आसीत् ७०)
करतारपुर, मुघलयुगः
Resting place

गुरद्वारा दरबार साहिब करतारपुर,

पञ्जाब, पाकिस्तान
Years active १४९९–१५३९
Successor गुरुः अङ्गद देव
Spouse(s) माता सुलखनी
Children बाबा श्री चन्द तथा बाबा लखमी दास
Parent(s) बाबा मेहता कालू तथा माता तृप्ता

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ


गुरु नानक (About this sound उच्चारणम् )[१] (पञ्जाबी: ਗੁਰੂ ਨਾਨਕ; हिन्दी: गुरु नानक, उर्दू: گرونانک, ऐ पी ए-[ˈɡʊɾu ˈnɑnək] Gurū Nānak)'सत्यं सर्वश्रेष्ठम् । तदपेक्षया सत्यजीवनम् अतीव श्रेष्ठम् । सत्यमिदम् अङ्गीकर्तुं जातिमतकुलादयः अवरोधाः नैव भवन्ति । मानवीयता आवश्यकी 'इति वदति स्म ।


जीवनम्[सम्पादयतु]

गुरुनानकः १४६९ तमे वर्षे एप्रिल्मासस्य १५ दिनाङ्के जन्म प्राप्नोत् । अद्यत्वे इदं दिनं 'प्रकाशदिन'त्वेन आचर्यते । हिन्दु खत्रिकुटुम्बे राय् भोय् दि तल्वाडिग्रामे सः जातः । अधुना अयं प्रदेशः पाकिस्थाने लाहोरसमीपे 'ननकानासाहिब्'नामकः अस्ति । अद्यत्वे तस्य जन्मस्थानं 'गुरुद्वार जनम् अस्थान्' इति निर्दिश्यते । अस्य पिता कल्याणचन्ददासबेडी, 'कालू मेहता' इति परिचितः आसीत् । सः तल्वण्डिग्रामस्य पट्वारी (गणनापरिशोधकः) आसीत् । माता तृप्तादेवी । तस्य अग्रजा आसीत् बीबी नानकी या आसीत् धर्मपरायणा ।

नानकी जयरामेण परिणीता । ततः सा तेन सह सुल्तान्पुरम् अगच्छत् यत्र जयरामः लाहोरस्य राज्यपालस्य दौलतखान्लोदेः साहायकः आसीत् । भारतीयसम्प्रदायानुगुणं गुरुनानकः अपि अग्रजया सह सुल्तानपुरम् अगच्छत् । १६ वर्षीयः गुरुनानकः दौलतखानस्य कार्यालये एव कार्यं प्राप्नोत् ।

बालकनानकस्य विद्यालयगमनम्

बाल्यकालादेव गुरुनानके प्रज्ञाविकासः दृश्यते स्म । पञ्चमे वयसि एव दैविकविषयेषु तदीया आसक्तिः दृश्यते स्म । सप्तमे वयसि तं पिता कालूमेह्ता ग्रामस्य विद्यालयं प्रेषितवान् । बालः नानकः प्रथमस्य वर्णस्य साङ्केतिकम् अर्थं शिक्षकं व्यवृणोत् । कदाचित् मध्याह्ने सुप्तवतः शिशोः नानकस्य आतपात् रक्षणाय उद्युक्तः सर्पः रायबुलारेण दृष्टः इति श्रूयते । तदारभ्य रायबुलारः गुरुनानकं दैवस्वरूपं मन्यते स्म ।

सर्पेण छायाकृतं नानकं दृष्ट्वा नतमस्तकः रायः

गुरुसमाजेन तस्य गुरुनानक् इति बिरुद: दत्त: । कार्तिकपूर्णिमादिने गुरुनानकजयन्ती सर्वत्र प्रचाल्यते । पिता उपनयनं कर्तुम् उद्युक्तवान् । बालः नानकः यज्ञोपवीतधारणं नाङ्गीकृतवान् । "तत् तृटयति, अपवित्रं भवति, गमनसमये नैव सहागमिष्यति" इति वदति स्म। न केवलं तत्, " दयां कार्पासं कृत्वा, सन्तृप्तिं सूत्रं कृत्वा, निग्रहं बन्धनं कृत्वा ध्रीयते चेत् तदेव यज्ञोपवीतं भवति" इति स: प्रतिवदति स्म। "तादृशं यज्ञोपवीतं यः धरति सः एव दैवानुग्रहं प्राप्नोति" इति उक्तवान् । नानकस्य भार्या सुलखनी । श्रीचन्द्रः, लक्ष्मीदासश्च तस्य पुत्रौ । 'कृषिं कुरु' इति पिता प्रार्थितवान् । "मम देहक्षेत्रे मनः कृषीवलः, शीलमेव कृषिः, विनय एव जलम्, भगवद्भक्तिरेव बीजम्, सन्तृप्तिः हलः, दारिद्र्यं सीमा । प्रेम्णा पोषणं क्रियते चेत् वृक्षोप्तत्तिः भवति" इति भागवततत्त्वं ज्ञापयति स्म । "प्रतिदिनं पञ्चविषयान् प्रार्थयामि । प्रथमं सत्यं, द्वितीयं विशुध्दजीवनं, तृतीयं दैवानुग्रहं, चतुर्थं परिशुध्दं मनः,पञ्चमं दैवचिन्तनम् " इत्यवदत् । बाह्यसौन्दर्यसहितानां कर्मणामपेक्षया आत्मसौन्दर्यमेव श्रेष्ठम् । तदेव भगवतः समीपं प्रापयतीति तस्य विश्वासः। अद्वितीयः, सद्रूपः, सत्यस्वरूपः, सर्वव्यापकः, सृष्टिकर्ता, पुरुषोत्तमः, निर्भयः, निर्वैरः, कालातीतः, अभवः, स्वयंभूः, विज्ञानदाता, दयामयः इति भगवच्छब्दस्य निर्वचनं दत्तवान् स:। जातस्य हि ध्रुवो मृत्यु:। गुरुनानकः कर्तारपुरग्रामे अन्तिमसन्देशं दत्त्वा समाधिस्थितिं प्राप्तवान् । गुरुनानकः अस्माकं प्रातःस्मरणीयेषु अन्यतमः । देहदण्डनमात्रेण का मुक्तिरविवेकिनाम्। वल्मीकताडनादेव मृतः किन्नु महोरगः ॥ गुरुनानकः (पञ्जाबी: ਗੁਰੂ ਨਾਨਕ; हिन्दी: गुरु नानक, उर्दु: گرونانک)(१५ एप्रिल् १४६९ - २२ सेप्टेम्बर् १५३९) सिक्खमतस्य संस्थापकः । दशसु सिक्खगुरुषु अयं प्रथमः । सिक्खजनानां विश्वासः वर्तते यत् अग्रिमाः गुरवः गुरुनानकस्य दैविकतां धार्मिकपाण्डित्यं प्राप्तवन्तः इति । अतः एव ते सर्वे अपि 'नानक'पदेनैव निर्दिश्यन्ते स्म ।

जीवनचरितम्[सम्पादयतु]

गुरुनानकस्य जीवनचरितं 'जनम साखी' 'वार' ग्रन्थयोः उपलभ्यते । समीपसहवर्तिना भाईबालेन सुप्रसिद्धः जनमसाखी ग्रन्थः लिखितः अस्ति। तस्य ग्रन्थस्य लेखनशैल्याः भाषायाः च परिशीलनेन ज्ञायते यत् मरणोत्तरं लिखितं स्यात् इति । गुरुग्रन्थसाहिबस्य लिपिकारः भाई गुरुदासः अपि गुरुनानकस्य विषये अलिखत् । इदमपि गुरुनानकस्य निर्गमनानन्तरम् एव लिखितमस्ति । जनमसाखी -ग्रन्थे यावत् विवरणम् उपलभ्यते तावत् अत्र नास्ति । जनमसाखीग्रन्थे तस्य जननावसरस्य विवरणं सूक्ष्मतया लिखितमस्ति । गुरुनानकस्य जातकं लेखितुं यः आगतः सः शिशुं नमस्कुर्वन् उक्तवान् इति - 'एतस्य जीवनदर्शनस्य भाग्यं मम नास्ति इति मे मनः खिद्यते' इति ।

सिक्खमतम्[सम्पादयतु]

गुरुननकस्य भ्रमणमार्गः

स्थानीयभूस्वामी राय् बुलारः गुरुनानकस्य अग्रजा बीबीनानकी च आदौ तस्य दैवगुणान् अभिज्ञातवन्तौ । अध्ययनाय प्रवासाय च तौ नानकं प्रोत्साहितवन्तौ । सिक्खसम्प्रदाये उल्लिख्यते यत् १४९९ तमे वर्षे यदा सः ३० वर्षीयः आसीत् तदा तेन दर्शनं किञ्चित् प्राप्तम् इति । तीर्थस्नानार्थं गतः गुरुनानकः न प्रत्यागतः । तदीयानि वस्त्राणि स्थानीयतीरप्रदेशे दृष्टानि । दिनत्रयम् अतीतम् । नद्या नीतः स्यात् इति सर्वे अचिन्तयन् । दौलत्खानः नद्याः शरीरं प्राप्तुं प्रायतत । किन्तु न प्राप्तम् । चतुर्थे दिने प्रत्यक्षः गुरुनानकः मौनम् आश्रितवान् । परेद्यवि तेन घोषितम् - 'कोऽपि हिन्दुः न । न वा यवनः । कस्य मार्गम् अनुसरेयम् ? अहं देवस्य मार्गम् अनुसरामि । अहं देवेन नीतः आसम् । तत्र देवः अमृतं दत्त्वा अवदत् - 'इदं देवस्य नाम्नः महिम्ना पूर्णः । पीयताम् । अहं भवता सह अस्मि । भवति मम अनुग्रहः अस्ति । भवन्तं ये स्मरेयुः ते मम अनुग्रहभाजः भवन्ति । गम्यताम् । मम नाम् अनुभूयताम् । अन्यान् अपि बोधयतु । इदं भवतः कर्तव्यम् ।' इति । ततः सिक्खमतस्य उगमः जातः । नानकः गुरुः इति अङ्गीकृतः ।

मक्कानगरे गुरुननकः

तेन चत्वारः प्रमुखप्रवासाः कृताः इति निर्दिश्यते । आदौ तेन पूर्वदिशि असम-वङ्गप्रदेशं प्रति अगच्छत् । द्वितीये प्रवासे सः तमिलुनाडुराज्यं प्रति अगच्छत् । तृतीयप्रवासवसरे काश्मीर-लडख्-टिबेट्प्रति अगच्छत् । अन्ते तु पश्चिमदिशि भाग्दाद्-मेक्का-मदीनां प्रति अगच्छत् इति श्रूयते। गुरुनानकः अरुणाचलप्रदेशं प्रविष्टवान् । आदौ सः ल्हासा (टिबेट्) प्रदेशं तवाङ्गद्वारा भूतानतः प्राविशत् ।

वैयक्तिकजीवनम्[सम्पादयतु]

गुरुनानकस्य पत्नी माता सुलख्नी । षोडशवयसि एव तस्य विवाहः बटालानगरे जातः । तयोः पुत्रद्वयं श्रीचन्दः लक्ष्मीचन्दश्च ।

दैवे ऐक्यम्[सम्पादयतु]

'भाई लेह्ना' अग्रिमः गुरुः इति नियुक्तवान् गुरुनानकः । तस्मै गुरु अङ्गदः इति पुनः नामकरणम् अकरोत् । घोषणस्य अनन्तरं केषुचित् एव दिनेषु गुरुनानकः दैवे ऐक्यतां प्राप्नोत् । तदा तस्य वयः आसीत् ७० वर्षाणि ।

उपदेशः[सम्पादयतु]

गुरुनानकस्य उपदेशाः सिक्खधर्मग्रन्थे गुरुग्रन्थसाहिबे उपलभ्यते । नीतिबोधकाः श्लोकाः गुरुमुखौ विद्यन्ते ।

गुरुनानकः अहङ्कारस्य अपायान् व्यवृणोत् । देवनामस्मरणात् एव मुक्तिः इति बोधयति । देवस्य पूजा निस्वार्थयुता भवेत् । देवनाम व्यक्तिं शुद्धीकरोति । ततः पूजां कर्तुं शक्यते । इतः अवगम्यते यत् देवः एव कर्ता । तं विना अन्यः नास्ति इति । असत्यं कपटस्वभावश्च मानवान् अधोमार्गं नयन्ति । ततः कृतानि धार्मिककार्याणि अपि व्यर्थतां गच्छन्ति । गुरुनानकस्य उपदेशाः त्रिधा आचर्यन्ते -

  1. वण्ड छक्को - अन्यैः संविभज्य जीव्यताम्, अन्येषाम् आवश्यकताम् अवगत्य साहाय्यं क्रियताम् ।
  2. कीरत् करो - जीविका ऋजुमार्गेण अर्जयितव्या, शोषणद्वारा अन्यायमार्गेण कदापि न ।
  3. नाम जपना - नामजपद्वारा देवः सर्वदा भजनीयः ।

गुरुनानकः नामजपस्य अत्यन्तं महत्त्वम् अयच्छत् । 'गुरुमुख' - ज्ञानिनः आश्रयितव्याः । 'मनमुख' - मनसः इच्छानुसारं न वर्तनीयम् ।

टिप्पणी[सम्पादयतु]

  1. गुरु नानक इति पदं कदाचित् भिन्ननाम-उपाधेः वाच्यं भवति । यथा बाबा नानक, नानक शाह इत्यादि ।

बाह्यशृङ्खला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गुरु_नानक_देव&oldid=317283" इत्यस्माद् पुनः प्राप्तिः