केदारनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(केदारेश्वरः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Kedarnath
town
Kedarnath
Kedarnath
Kedarnath is located in Uttarakhand
Kedarnath
Kedarnath
Coordinates: ३०°४४′उत्तरदिक् ७९°०४′पूर्वदिक् / 30.73°उत्तरदिक् 79.07°पूर्वदिक् / ३०.७३; ७९.०७निर्देशाङ्कः : ३०°४४′उत्तरदिक् ७९°०४′पूर्वदिक् / 30.73°उत्तरदिक् 79.07°पूर्वदिक् / ३०.७३; ७९.०७
Country India
State Uttarakhand
District Rudraprayag
Elevation ३,५५३
Population (2001)
 • Total ४७९
Language
 • Official Hindi
Time zone IST (UTC+5:30)
केदारनथमन्दिरम्

केदारनाथ-ज्योतिर्लिङ्गं ( /ˈkɛdɑːrənɑːθəhə/) (हिन्दी: केदारनाथ, आङ्ग्ल: Kedarnath) द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । एतदेकं प्राचीनं शिवक्षेत्रम् । हिमालये केदारनाथः यत्र अस्ति तं भागं "रुद्रहिमालयः” इति वदन्ति । अयं पर्वतः "सुमेरुपर्वतः” "पञ्चपर्वतः” इत्यपि उच्यते । अत्र रुद्रहिमालयः, विष्णुपुरी, ब्रह्मपुरी, उद्गरिकान्ता, स्वर्गारोहणम् इति पञ्च पर्वताः सन्ति । अतः एव अस्य नाम "पञ्चपर्वतः” इति । गन्धमादनः रुद्रहिमालयस्य कश्चन भागः । नरनारायणमन्दिरस्य गोपुरं स्वर्णनिर्मितमस्ति । ४५ पादपरिमितोन्नतप्रदेशे गर्भगृहे सिंहासनस्योपरि शालग्रामशिलायाः पूर्वाभिमुखः श्रीनारायणविग्रहः अस्ति । योगमुद्रास्थितः किरीटधारी पद्मासनस्थः बदरीनाथः अस्ति। अस्मिन् स्थाने स्थितं शिवक्षेत्रं ब्रह्मकपालनाम्ना निर्दिश्यते । वेदव्यासमहर्षिः अत्र स्थितवान् । श्री शङ्कराचार्यः अत्रैव स्थित्वा भाष्यग्रन्थान् रचितवान् । श्रीमन्मध्वाचार्यः बदरीनाथे एव समाधिस्थः अभवत् इति जनानां विश्वासः । महर्षिः श्री वेदव्यासः महाभारतम् अत्रैव रचितवान् गणपतिः अत्रैव तत् लिखितवान् इति विश्वासः। वेदव्यासेन अष्टादशपुराणानि अपि अत्रैव प्रणीतानि । बदरिकाश्रमतः अष्टकिलोमीटरमिेते दूरे ४०० पादपरिमितोन्नतात् स्थानात् पतता जलेन सुन्दरजलपातः निर्मितः। अस्य नाम वसुधारा जलपातः इति । हृषीकेशतः रुद्रप्रयागपर्यन्तम् आगत्य अग्रे केदारनाथक्षेत्रं गन्तुं शक्यते । एतत् हृषीकेशतः २४० किलोमीटरमिेते दूरेऽस्ति । सर्वतः हिमाच्छादितानि गिरिशिखराणि सन्ति । केदारनाथप्रदेशं रुद्रहिमालयः इति कथयन्ति । सुमेरुपर्वतः गन्धमादनगिरिः च अस्यैव भागौ स्तः । केदारनाथक्षेत्रं द्वादशज्योतिलिङ्गक्षेत्रेषु अन्यतमम् अस्ति । नरनारायणानां प्रार्थनया शिवः अत्र ज्योतिर्लिङ्गरूपेण स्थितवान् इति शिवपुराणे अस्ति । एतत् हैन्दवानां परमपवित्रं श्रद्धाकेन्द्रम् । केदारनाथस्य समीपे मन्दाकिनीनद्याः उद्गमस्थानमस्ति । केदारनाथस्य क्षेत्रं सागरस्तरतः ११७०० पादपरिमितौन्नत्ये स्थले अस्ति । केदारनाथमन्दिरे बृहच्छिला एव शिवलिङ्गमिति आराध्यते। गौरीकुण्डः इति पवित्रजलवापी अस्ति । श्रीशङ्कराचार्यः केदारनाथक्षेत्रे कैवल्यम् अवाप्नोत् । एतत् स्थलं भक्ताना यात्रास्थलं , प्रकृतिप्रियाणां साहसप्रियाणाम् एतत् प्रियं दर्शनीयस्थानम् ।

स्वर्गारोहणशिखरस्य आरोहणावसरे धर्मराजस्य अनुजाः शरीरत्यागम् अत्रैव अकुर्वन् । अस्य तीर्थक्षेत्रस्य परिसरः वर्णनातीतः । अनन्तात्मनः नित्योपासकानि इव स्थितानि तुषारवेषधारीणि गगनस्पर्शिशिखराणि । अट्टहासेन उत्थाय विस्तारम् अपि प्राप्य पुनः कालगर्भे लीनानाम् असंख्यानां चक्राधिपत्यानां मूकसाक्षी अयं पर्वतः । अस्य पर्वतस्य नीरवत्वं निर्जनत्वं च भवसागरे दुःखितानाम् औषधम् इव अस्ति । कुत्रापि अल्पत्वम् इति नास्ति । सर्वत्र भूमवादः एव ।

केदारेश्वरमन्दिरस्य पार्श्वदृश्यम्

अयं पर्वतः २३,००० पादमितः उन्नतः अस्ति । मन्दिरं ११,७८० पादमिते उन्नते स्थाने अस्ति । केदारं प्रति गमनमार्गे अनेकानि रम्यदृश्यानि सन्ति । मार्गस्य उभयोः पार्श्वयोः भीमाकारकः हिमराशिः महागजः इव पतितः भवति । नदी मन्दाकिनी हिमस्य अधः एव शतद्विशतपादं यावत् प्रवहन्ती सती उपरि आगच्छति । गिरिभ्यः अनेकाः झर्यः प्रवहन्ति । काश्चन झर्यः मन्दाकिन्याम् अन्तर्भवन्ति । काश्चन भीमाकारिकाः झर्यः शताधिकपादान् यावत् एकधा एव कूर्दते । जलस्य प्रमाणं वेगं च पश्यामः चेत् शिवस्य ताण्डवनृत्यस्य स्मरणं भवति ।

हिमाच्छादितशिखराणां मध्ये विराजमानं केदारेश्वरमन्दिरं दृष्टवत्सु भक्तेषु विद्युत्सञ्चारः भवति । तावत्पर्यन्तम् आगमने जातः श्रमः विस्मर्यते एव । अस्य केदारेश्वरमन्दिरस्य गर्भगृहे महत् शिवलिङ्गम् अस्ति । ४ पादमिता रूक्षा महाशिला एव अत्रत्यं लिङ्गम् । अर्धगोलाकारकस्य अस्य लिङ्गस्य वैशाल्यम् एव ६ पादमितम् । अत्र शिल्पिभिः किमपि कार्यं न कृतम् । अत्र भक्ताः भगवता सह हृदयभाषया सम्भाषन्ते । गङ्गायाः यमुनायाः च उदकम् आनीय शिवलिङ्गस्य अभिषेकं कुर्वन्ति । शिवलिङ्गम् आलिङ्ग्य सन्तोषम् अनुभवन्ति, अश्रूणि स्रावयन्ति, नवनीतं लेपयन्ति च । अन्तः अखण्डज्योतिः ज्वलति । तत्र श्रीकृषणस्य शिवस्य पार्वत्याः च विग्रहाः सन्ति । मन्दिरस्य बहिर्भागे ईशान्यकुण्डम्, अमृतकुण्डम्, हंसकुण्डं, रेतसकुण्डम् इत्याख्यानि तीर्थानि सन्ति ।

केदारपर्वतः

अनादिकालादपि एतत् क्षेत्रं यात्रिकान् आकर्षति । महाभारतस्य अनुगुणं पाण्डवाः अत्र बहुवारम् आगताः आसन् । अर्जुनः अत्रैव तपः आचर्य पाशुपतास्त्रं प्राप्तवान् । अर्जुनस्य पुनरागमने विलम्बः जातः इति कारणात् तम् अन्विषन्तः अन्ये अपि पाण्डवाः अत्र आगताः । अत्रैव द्रौपदी सौगन्धिकापुष्पस्य सुगन्धेन आकृष्टा अभवत् । पाण्डवानाम् अन्तिमं प्रस्थानम् अपि अत्रैव अभवत् । शङ्करभगवत्पादानां निर्वाणम् अभवत् अस्मिन् क्षेत्रे एव । केदारेश्वरमन्दिरात् पर्लाङ्ग् द्वयस्य दूरे अस्ति तस्य स्मारकम् ।

गौरीकुण्डतः केदारपर्यन्तः ११योजनपरिमितः मार्गः अत्यन्तं दुर्गमः अस्ति । परन्तु तत्रत्या प्रकृतिः श्रमं दूरीकरोति । गौरीकुण्डे उष्णजलस्य स्रोतांसि सन्ति । कार्त्तिकेयं प्रसूतवती गौरी अत्र स्नानम् अकरोत् इति । यात्रिकाः अपि अत्र भक्त्या स्नान्ति । गुप्तकाशीतः अनति दूरे एव त्रिजुगीनारायणक्षेत्रम् अस्ति । अत्र नारायणास्य मन्दिरम् अस्ति । रुद्रकुण्डं ब्रह्मकुण्डं च अस्ति । यात्रिकाः अत्र कुण्डद्वये स्नात्वा सरस्वतीकुण्डे तर्पणं कुर्वन्ति । श्रीमन्नारायणास्य नाभितः प्रवहन्ती सरस्वती सरस्वतीकुण्डं प्रविशति । नारायणमन्दिरस्य पुरतः विद्यमानम् अग्निकुण्डं त्रेतायुगतः एव ज्वलत् अस्ति इति वदन्ति । अस्य एव अग्निकुण्डस्य सम्मुखे शिवपार्वत्योः विवाहः सञ्जातः इति । यात्रिकाः अस्मिन् कुण्डे घृतं स्थापयन्ति ।

शैत्यकाले केदारः सम्पूर्णतया हिमावृतः भवति । वैशाखमासे सूर्यस्य मेषराशिं प्रति प्रवेशदिने मन्दिरम् उद्घाट्यते । सूर्यस्य वृश्चिकराशिप्रवेशदिने मन्दिरस्य पिधानं क्रियते । तदवधौ उखीमठे केदारेश्वरस्य पूजा प्रचलति । हरिद्वारस्य कुम्भमेलावसरे केदार-बदरि-यात्रायाः महत्त्वम् अधिकम् । अर्धकुम्भमेलावसरे अपि यात्रिकाः केदारबदरीयात्रां समाप्य एव प्रतिगच्छन्ति । केदारयात्रां विना बदरीयात्रा पूर्णा न भवति । केदारं प्रति गन्तारः यात्रिकाः प्रथमं यमुनोत्रीं गङ्गोत्रीं च गत्वा ततः केदारेश्वरस्य अभिषेकार्थं जलं स्वीकुर्वन्ति । अनन्तरं हरिद्वारं, ततः हृषीकेशं, ततः देवप्रयागं च गत्वा अग्रे यात्राम् अनुवर्तयन्ति । यमुनोत्रीतः उत्तरकाशीं दृष्ट्वा गङ्गोत्रीं गच्छन्ति । अग्रे त्रिजुगीनारायण-गौरीकुण्डमार्गेण केदारं प्राप्नुवन्ति । हृषीकेशतः साक्षात् देवप्रयाग-श्रीनगर-रुद्रप्रयाग-उखीमठानां मार्गेण अपि केदारं प्रति गन्तुं शक्यते । केदारसमीपे एव नदी मन्दाकिनी उद्भवति । उद्भवस्थानतः ४५ योजनदूरे रुद्रप्रयागसमीपे अलकानन्दां मिलति मन्दाकिनी । अस्यां नद्यां स्नानकरणं पुण्यकरम् इति उच्यते ।

कुरुक्षेत्रयुद्धस्य (महाभारतयुद्धे) कारणतः पाण्डवाः दुःखिताः आसन् । तदा भगवान् वेदव्यासः तान् केदारेश्वरं पूजयितुम् उक्तवान् । तथा कृत्वा पाण्डवाः मनःशान्तिं प्राप्तवन्तः । तदवसरे ते अत्र कुन्ती-दौपदीसहिताः आगताः आसन् । अत्रैव ते पूजां तपः च आचरन् । तेषां सप्तजनानाम् अपि मूर्तयः सन्ति अत्र । पाण्डवाः एव एतत् मन्दिरं निर्मितवन्तः इति वदन्ति । पाण्डवाः यदा महाप्रस्थानार्थम् अत्र आगताः तदा तान् दृष्टवान् शिवः महिषरूपेण धावितुम् आरब्धवान् इति । तत् ज्ञातवन्तः पाण्डवाः तं ग्रहीतुं प्रयत्नम् अकुर्वन् । तदा महिषरूपः शिवः भूम्याः अन्तः प्रवेष्टुम् उद्युक्तः । तावता तं भीमः गृहीतवान् । भीमस्य ग्रहणात् विमोचनस्य प्रयत्नावसरे तस्य महिषरूपस्य शिवस्य पृष्ठभागः केदारे शिष्टः । एवं भूमिं प्रविष्टवान् शिवः पञ्चसु स्थानेषु गोचरः जातः । बाहौ तुङ्गानाथे, मुखं रुद्रनाथे, नाभिः मध्येश्वरे, जटा कल्पेश्वरे, पृष्ठभागः केदारे च दृष्टाः । एतानि पञ्चक्षेत्राणि योजयित्वा पञ्चकेदाराः इति उच्यते ।

शिवपुराणस्य कोटिरुद्रसंहितायां केदारेश्वरसम्बद्धा काचित् कथा अस्ति । नरनारायणौ बदरिकाश्रमे तपः आचरन्तौ आस्ताम् । तौ तदवसरे शिवस्य पार्थिवलिङ्गस्य पूजां कुर्वन्तौ आस्ताम् । तयोः तपसा तुष्टः शिवः प्रत्यक्षः जातः । तदा नरनारायणौ शिवं "ज्योतिर्लिङ्गरूपेण अत्रैव निवसतु” इति प्रार्थितवन्तौ । तदनुगुणं केदारे शिवः केदारेश्वरनाम्ना अतिष्ठत् ।

भूमार्गः[सम्पादयतु]

डेह्राडूनतः बदरीनाथक्षेत्रं ३३६ किलोमीटरमिेते, जोषिमठः १८७ किलोमीटरमिेते च दूरे च भवतः । वाहनैः गन्तुं शक्यते किन्तु पर्वतकन्दराप्रदेशः इति कारणेन जागरूकैः भाव्यम् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=केदारनाथः&oldid=359565" इत्यस्माद् पुनः प्राप्तिः