ओङ्कारेश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Omkareshwar Jyothirlinga
Omkareshwar Mahadev Temple
Omkareshwar Jyothirlinga is located in Madhya Pradesh
Omkareshwar Jyothirlinga
Omkareshwar Jyothirlinga
Location in Madhya Pradesh
भौगोलिकस्थितिः: २२°१४′४६″ उत्तरदिक् ७६°०९′०१″ पूर्वदिक् / 22.24611°उत्तरदिक् 76.15028°पूर्वदिक् / २२.२४६११; ७६.१५०२८निर्देशाङ्कः : २२°१४′४६″ उत्तरदिक् ७६°०९′०१″ पूर्वदिक् / 22.24611°उत्तरदिक् 76.15028°पूर्वदिक् / २२.२४६११; ७६.१५०२८
अवस्थितिः
देशः: India
राज्यम्: Madhya Pradesh
अवस्थितिः: Madhya Pradesh, India
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: Omkareshwar(Shiva)
जालस्थानम्: http://www.shriomkareshwar.org

ओङ्कारेश्वरः ( /ˈŋkɑːrɛʃvərəhə/) (हिन्दी: ओङ्कारेश्वर, आङ्ग्ल: Omkareshwar) द्वादश ज्योतिर्लिङ्गानाम् आवल्यां चतुर्थं क्षेत्रम् । एतत् ओङ्कारेश्वरक्षेत्रं मध्यप्रदेशस्य खण्डवामण्डलस्य मोरटक्कानिस्थानकतः ६ मैल् (१० कि। मी ) यावत् दूरे अस्ति । अत्र नर्मदा नदी द्विधा विभक्ता भवति । नद्याः द्वयोः प्रवाहयोः मध्ये मान्धातपर्वतः अस्ति । नद्याः एकः प्रवाहः कावेरी इति उच्यते । द्वौ अपि प्रवाहौ पुनरपि अग्रे द्वीपान्ते मिलित्वा एकः एव प्रवाहः भवति । सः मान्धातपर्वतः ओङ्करः इव दृश्यते इति कारणात् तं पर्वतम् "ओङ्कारगिरिः” इत्यपि वदन्ति । प्रसिद्धः सूर्यवंशीयः राजा मान्धाता अत्र शिवम् उद्दिश्य तपः आचरत् इति । तस्मात् कारणात् अयं पर्वतः "ओङ्कारमान्धाता” इत्यपि उच्यते ।

मध्यप्रदेशे नर्मदातीरे विराजमानम् ओङ्कारेश्वरमन्दिरम्

अत्र एकस्मिन् एव क्षेत्रे ज्योतिर्लिङ्गद्वयम् अस्ति । ओङ्कारेश्वरः अमलेश्वरः च । ओङ्कारेश्वरमन्दिरं प्राचीनबौद्धविहारः इव दृश्यते । इदानीं विद्यमानम् ओङ्कारेश्वरमन्दिरं राज्ञी अहल्याबाई निरमापयत् । अत्रत्यस्य शिवलिङ्गस्य स्थानान्तरणं कृतम् इव दृश्यते । शिखरस्य अधः वा पार्श्वे वा अपसारितम् इव अस्ति । यवनानाम् आक्रमणात् शिवलिङ्ग्स्य रक्षणार्थं मूललिङ्गं गोपयित्वा तत्स्थाने अन्यद् लिङ्गं स्थापितम् इति श्रूयते । एतत् लिङ्गं परितः सर्वदा जलं स्थितं भवति । अत्र ओङ्कारेश्वरस्य पार्श्वे एव पार्वत्याः पञ्चमुखीगणेशस्य च विग्रहः अस्ति । मन्दिरस्य द्वितीये अट्टे महाकालेश्वरलिङ्गम् अस्ति । तृतीये अट्टे वैद्यनाथेश्वरलिङ्गम् अस्ति ।

एतयोः ज्योतिर्लिङ्गयोः स्थापनसम्बद्धा काचित् कथा एवं श्रूयते – विन्ध्यः अत्र पार्थिवलिङ्गरूपस्य शिवस्य आराधनं करोति स्म । यदा शिवः प्रत्यक्षम् अभवत् तदा "अनेनैव रूपेण अत्र वसतु” इति शिवं प्रार्थितवान् विन्ध्यः । तदनुसारं शिवः ओङ्कारत्रयस्य स्थाने ओङ्कारेश्वररूपेण, पार्थिवलिङ्गस्य स्थाने अमलेश्वररूपेण च अवसत् । यात्रिकाः प्रथमम् ओङ्कारेश्वरस्य दर्शनं कृत्वा अनन्तरम् अमलेश्वरस्य दर्शनं कुर्युः इति नियमः अस्ति अत्र ।

स्कन्दपुराणस्य रेवाखण्डे अस्य क्षेत्रस्य माहात्म्यम् एवं वर्णितम् अस्ति –

"देवस्थानं समं ह्येतत् मत्प्रसादात् भविष्यति । अन्नदानं तपः पूजा तथा प्राणविसर्जनम् ।

ये कुर्वन्ति नरस्तेषां शिवलोकनिवासनम् ॥“ इति

(मम प्रसादात् एतत् स्थानं देवानां स्थानम् इव (स्वर्गः) जातम् अस्ति । अत्र ये अन्नदानं, तपः, पूजां, प्राणत्यागं वा कुर्वन्ति ते शिवलोकं प्राप्नुवन्ति इति शिवः एव अवदत् ।)

अस्मिन् द्वीपे पश्चिमभागे गौरीसोमनाथमन्दिरम् अस्ति । नदीतीरे विष्णोः वराहस्य च विग्रहः अस्ति । अत्र चामुण्डायाः भव्यमूर्तिः अपि अस्ति । कतिपय जैनमन्दिराणि (बसदिः) अपि सन्ति अस्मिन् क्षेत्रे ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=ओङ्कारेश्वरः&oldid=483076" इत्यस्माद् प्रतिप्राप्तम्