महाकालः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

द्वादश ज्योतिर्लिङ्गेषु अन्यतमम् एतत् महाकालमन्दिरम् इदानीन्तनमध्यप्रदेशस्य उज्जयिन्याम् अस्ति । उज्जयिनी इत्युक्ते विजयदायिनी इत्यर्थः । स्कन्दपुराणानुसारं भगवान् शङ्करः अत्रैव त्रिपुरासुरस्य संहारम् अकरोत् । पुराणेषु उज्जयिन्याः उल्लेखः बहुत्र दृश्यते । अशोकस्य शिलाशासनेषु एतत् नगरम् "उजेनी” इति उक्तम् अस्ति । कनकशृङ्गं, कुशस्थली, अवन्ती, पद्मावती, कुमुद्वती, अमरावती, विशाला इत्यादीनि अपि नामानि सन्ति उज्जयिन्याः । सप्त मोक्षदायकेषु नगरेषु अन्यतमम् एतत् उज्जयिनीनगरम् । परशिवः एव अत्र महाकालरूपेण स्थितः अस्ति । महाकालस्य माहात्म्यसम्बद्धाः अनेकाः कथाः सन्ति शैवपुराणे । उज्जयिन्यां सर्वस्य अपेक्षया प्रसिद्धं मन्दिरं महाकालमन्दिरम् एव । एतत् लिङ्गत्रये अन्यतमम् इति उच्यते । "आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मृत्युलोके महाकालं लिङ्गत्रय नमोस्तुते ॥“ इति

अस्मिन् मन्दिरे आहत्य पञ्च अट्टाः सन्ति । तेषु एकः अट्टः भूम्याः अन्तः अस्ति । गर्भगृहस्य अन्तः प्रकाशः न भवति इत्यनेन सर्वदा तैलदीपः ज्वलन् भवति तत्र । नागपरिवेष्टितं महाकालस्य शिवलिङ्गं विशालम् अस्ति । एकधा देवाय अर्पितं पुष्पं पुनः न समर्प्यते कुत्रापि । किन्तु ज्योतिर्लिङ्गानां तथा नास्ति । एकधा अर्पितं बिल्वपत्रं प्रक्षाल्य पुनः अर्प्यते । शिवपुराणे महाकालसम्बद्धा काचित् कथा एवम् अस्ति – अवन्तीनगरे कश्चन धार्मिकः ब्राह्मणः वसति स्म । तस्य नगरस्य पार्श्वे रत्नमालानामकः गिरिः आसीत् । तत्र दूषणनामकः राक्षसः वसति स्म । सः राक्षसः अवन्तिनगरस्य जनान् सर्वदा पीडयति स्म । कदाचित् अवन्तीनगरस्थाः ब्राह्मणस्य समीपम् आगत्य अस्मान् रक्षतु इति प्रार्थितवन्तः । तदा ब्राह्मणः उग्रं तपः आचरत् । तपसा सन्तुष्टः शिवः भूमिं विदार्य बहिरागत्य राक्षससंहारम् अकरोत् । अनन्तरं भक्तानाम् इच्छानुसारं अवन्तिकायां महाकालरूपेण स्थितः । स्कन्दपुराणे एतत् क्षेत्रं "महाकालवनम्” इति एव निर्दिष्टम् अस्ति । एतदेकं सर्वोत्कृष्टं तीर्थम् इति वदति अग्निपुराणम् । उज्जयिन्यां महाकालस्य दर्शनेन अकालमृत्युः नश्यति, मुक्तिः अपि प्राप्यते इति ।

मध्यप्रदेशस्य उज्जयिन्यां विद्यमानं महाकालमन्दिरम्

उज्जयिनी एकं शक्तिपीठम् अपि । अत्र सतीदेव्याः हस्तः पतितः इति । अतः सा एव अत्र माङ्गल्यचण्डिका इति नाम्ना निवसति । रुद्रसागरस्य समीपे विद्यमानं तस्याः मन्दिरं "हरसिद्धिमन्दिरम्” इति वदन्ति । स्कन्दपुराणे अस्य मन्दिरस्य विषये काचित् कथा अस्ति । कदाचित् शिवः पार्वती च द्यूतं क्रीडन्तौ आस्ताम् । तदा चण्ड-प्रचण्डनामकौ राक्षसौ आगत्य पीडयितुम् आरब्धवन्तौ । तयोः पीडनेन नन्दी अपि व्रणितः अभवत् । तदा शिवः तयोः दैत्ययोः संहारं करोतु इति पार्वतीम् अवदत् । तदा हरस्य इच्छानुगुणं सा अस्मिन् क्षेत्रे तयोः राक्षसयोः संहारम् अकरोत् इति । "हरसिद्धि”नाम्ना अवन्तिकाराजकुलस्य कुलदेवता अपि अस्ति सा । उज्जयिन्यां कश्चन प्राचीनः अक्षयवटवृक्षः अपि अस्ति । सर्वेऽपि यात्रिकाः अस्य वृक्षस्य दर्शनार्थम् आगच्छन्ति एव ।

एतत् वैदिकानां, बौद्धानां, जैनानां च प्रमुखं शिक्षणकेन्द्रं सत् ज्ञानविज्ञानयोः भूमिः आसीत् । ज्योतिष्कशिक्षणे भारते एव प्रसिद्धं केन्द्रम् उज्जयिनी । महाराजः जयसिंहः उज्जयिन्यां खगोलवीक्षणालयं निर्मितवान् । सः ज्योतिष्के अपि महान् पण्डितः आसीत् । उज्जयिनी भारतस्य "ग्रीनिच्” इति उच्यते । भूमध्यरेखायाः उपरि अस्ति उज्जयिनी । भारतीयखगोलशास्त्रज्ञानाम् अनुगुणम् एतत् नगरं शून्यरेखांशस्य उपरि स्थितम् अस्ति । भूमध्यरेखा-शून्यरेखांशयोः मेलनस्थाने एव महाकालः भूमिं विदार्य बहिरागतः इति विश्वस्यते । द्वादशवर्षेषु एकवारं गुरुग्रहस्य वृश्चिकराशिप्रवेशावसरे अत्र कुम्भमेला प्रवर्तते ।

भोपालनगरतः ११३ मैल् दूरे, इन्दोरतः ६० मैल् दूरे च क्षिप्रानद्याः तीरे अस्ति एतत् उज्जयिनीनगरम्महाभारतस्य काले उज्जयिन्यां श्रेष्ठं गुरुकुलम् आसीत् । अत्रत्ये सान्दीपनी-आश्रमे एव कृष्ण बलरामौ मित्रेण सुधाम्ना सह अध्ययनम् अकुरुताम् । यादवकन्या राज्याधिदेव्याः विवाहः अवन्तिराजेन सह अभवत् तस्याः पुत्रौ विन्द-अनुविन्दनामकौ । तौ महाभारतयुद्धे द्वे अक्षोहिणी-सैन्यसहितं कौरवपक्षे स्थित्वा युद्धम् अकुरुताम् । अन्ते अर्जुनः एतौ अमारयत् । पाणिन्याः अष्टाध्याय्याम् उज्जयिन्याः उल्लेखः अस्ति । पतञ्जलेः महाभाष्ये अपि उज्जयिन्याः उल्लेखः अस्ति । भागवते योगिनितन्त्रे च अवन्त्याः वर्णनं कृतम् अस्ति ।

मौर्याणां काले मालवप्रदेशः मौर्यसाम्राज्यस्य कश्चन भागः आसीत् । सम्राट् अशोकः किञ्चित्कालं यावत् राजप्रतिनिधिरूपेण उज्जयिन्याम् आसीत् । अशोकस्य पट्टमहिषी श्रीदेवी उज्जयिन्याः कस्यचित् वणिजः पुत्री । तयोः पुत्रौ एव बौद्धधर्मस्य प्रचारार्थं विदेशं गतौ सङ्घमित्रमहेन्द्रौ । मौर्याणाम् अनन्तरं गन्धर्वसेनराजवंशीयाणां शासनम् आरब्धम् । अनन्तरं किञ्चित् कालं यावत् शकाः अपि अत्र शासनम् अकुर्वन् । अनन्तरं क्रि.पू. ५७तमे वर्षे विक्रमादित्यः शकान् पराजित्य उज्जयिनीं वशीकृतवान् । विक्रमस्य साहसानि “वेतालपञ्चविंशतिः” इत्यत्र वर्णितानि सन्ति । अस्य काले उज्जयिन्यां नवरत्नानि इति प्रसिद्धाः कवयः धन्वन्तरी, क्षपणकः, अमरसिंहः, शङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिर:, वररुचिः च, महान्तः वैद्याः, विज्ञानिनः, खगोलशास्त्रज्ञाः च आसन् । इतिहासप्रसिद्धः भोजराजः अपि धारानगरद्वारा उज्जयिन्याः शासनम् अकरोत् ।

प्रथमशतके मालवं वशीकृत्य शतकत्रयं यावत् शासनम् अकुर्वन् शकाः । अनन्तरं सम्राट् चन्द्रगुप्तविक्रमादित्यः शकान् पराजित्य मालवं गुप्तसाम्राज्ये अन्तर्भावयत् । गुप्तानां काले उज्जयिनी वैभवयुतां स्थितिं प्राप्नोत् । नवमशतकस्य अनन्तरं मालवस्य शासनं परमार्-वंशीयानां हस्तङ्गतम् । त्रयोदशशतकस्य अन्ते अल्लाविद्दीनः एतत् नगरं वशीकृतवान् । १५३१तः बहाद्दूरजनानां शासनम् आरब्धम् अत्र । १५७१तमे वर्षे अक्बरस्य सम्राज्यान्तर्गतम् । १७९२तमे वर्षे सिन्ध्यकुलीयाः एतत् नगरं वशीकृतवन्तः । १८१०तमे वर्षे तेषां राजधानी उज्जयिनीतः ज्वालियर् प्रति परिवर्तिता ।

भारतस्य राजकीयेतिहासे अपि अवन्त्याः महत् स्थानम् अस्ति । बुद्धस्य समकालीनस्य प्रद्योतस्य वंशीयानां पराक्रमतः मगधराजाः अपि भीताः आसन् । तेषाम् आक्रमणतः रक्षणार्थमेव अजातशत्रुः राजगृहं परितः सुदृढां महतीं भित्तिं निर्मितवान् । अवन्त्याः राजा प्रद्योतः बुद्धस्य जन्मदिने एव जन्म प्राप्तवान् । बुद्धस्य ज्ञानोदयानन्तरम् एव सिंहासनम् आरूढवान् । अस्य पुत्रीं वासवदत्तां वत्सराजः उदयनः अपहृत्य ऊढवान् । एषा घटना एव महाकवेः भासस्य “स्वप्नवासवदत्तम्” “प्रतिज्ञायौगन्धरायणम्” इति नाटकयोः रचनायाः प्रेरणा जाता ।

उज्जयिन्याम् अनेकानि दर्शनीयानि स्थानानि सन्ति । नगरस्य दक्षिणभागे जयसिंहेन निर्मितः खगोलविक्षणालयः अस्ति । क्षिप्रानद्याः तटे अनेके स्नानघट्टाः सन्ति । तत्र तत्र बहूनि सुन्दराणि मन्दिराणि सन्ति । महाकालमन्दिरस्य पुरोभागे कोटितीर्थनामिका पुष्करिणी अस्ति । कार्त्तिके, माघे, श्रावणे च मासे असंख्याकाः यत्रिकाः आगच्छन्ति अत्र । माघमासे प्रवर्तमानः महाकालस्य उत्सवः उज्जयिन्याः महान् उत्सवः । चित्रगुप्तमन्दिरं, कृष्णबलरामयोः मन्दिरं, सान्दीपनी-आश्रमः, भर्तृहरेः गुहा, नवग्रहमन्दिरं च दर्शनयोग्यानि सन्ति ।


"https://sa.wikipedia.org/w/index.php?title=महाकालः&oldid=403803" इत्यस्माद् पुनः प्राप्तिः