इन्दौर
इन्दौर-महानगरम् Indore | |
---|---|
'Mini Mumbai' | |
![]() इन्दौर-महानगरम् | |
![]() मध्यप्रदेश राजयस्य मानचित्रे इन्दौर | |
देशः | भारतम् |
राज्यम् | मध्यप्रदेशराज्यम् |
मण्डलम् | इन्दौरमण्डलम् |
महानगरविस्तारः | ५३० चतुरस्र कि. मी. |
जनसङ्ख्या (२०११) | १९, ६०, ६३१ |
Founded by | मल्हारराव होलकर |
Government | |
• Type | महापौरपरिषद्-सर्वकारः (Mayor–council government) |
• Body | इन्दौर म्युनिसिपल् कोर्पोरेशन् |
• महापौरः | कृष्ण मुरारी मोघे |
• म्युनिसिपल कमीशनर् | राकेश सिंह |
Demonym(s) | इन्दौरी, इन्दौरीयन्स, इन्दौरीपन |
Time zone | UTC+५:३० (भारतीयमानकसमयः(IST)) |
पिन कोड |
४५२ xxx |
Area code(s) | ०७३१ |
Vehicle registration | एम पी-०९ |
साक्षरता | ८७.३८% |
भाषाः | , हिन्दी, आङ्ग्लं, मराठी, पञ्जाबी च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४६% |
Website | Indore Municipal Corporation |
इन्दौर ( ( शृणु) /ˈɪndɔːrə/) (हिन्दी: इंदौर, आङ्ग्ल: Indore) इत्येतत् महानगरं मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतस्य इन्दौरमण्डलस्य केन्द्रम् अस्ति । इन्दौर-महानगरं मध्यप्रदेशराज्यस्य प्रमुखमहानगरेषु अन्यतमं वर्तते । इदं नगरं मध्यप्रदेशस्य व्यावसायिकं केन्द्रमपि विद्यते । वास्तविकतया अस्य नगरस्य मुख्यसंस्थापकवंशजाः इदानीमपि इन्दौर-महानगरे निवसन्ति । इदं नगरम् एकस्मिन् शैलप्रस्थे स्थितम् अस्ति । इन्दौर-महानगरं मध्यभारतस्य सर्वाधिकं समृद्धं नगरम् अस्ति । नगरमिदं ’मिनि मुम्बई’ इति अपि प्रसिद्धमस्ति ।
जनसङ्ख्या[सम्पादयतु]
२०११ जनगणनानुगुणम् इन्दौर-महानगरस्य जनसङ्ख्या १९,६०,६३१ अस्ति । अत्र १०,२०,८८३ पुरुषाः, ९,३९,७४८ महिलाः च सन्ति । भारतस्य प्रमुखनगरेषु इन्दौर-महानगरस्य पञ्चदशक्रमाङ्कः अस्ति । अस्मिन् नगरे प्रतिचतुरस्रकिलोमीटर्मिते ४७१ जनाः वसन्ति अर्थात् अस्य नगरस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४७१ जनाः । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ८७.३८% अस्ति ।
भौगोलिकी स्थितिः[सम्पादयतु]
इन्दौर-महानगरं भारतस्य मध्यभागे स्थितम् अस्ति । अस्य निर्देशाङ्कः २२ º ७२ उ., ७५ º ८६ पू. अस्ति । समुद्रतलात् अस्य नगरस्य औन्नत्यं ५५३ मी. अस्ति । इदं नगरं मालवा-शैलप्रस्थस्य दक्षिणसीमायां स्थितम् अस्ति । नगरमिदं सरस्वतीनद्याः, खाननद्याः च तटे स्थितमस्ति । इमे नद्यौ क्षिप्रानद्याः उपनद्यौ स्तः । अस्मिन् नगरे नवम्बर-तः फरवरी-पर्यन्तं शीतर्तुः भवति । शीतर्तौ अस्य नगरस्य न्यूनतमं तापमानं २ ºC भवति । अस्मिन् नगरे अप्रैल-तः जून-पर्यन्तं ग्रीष्मर्तुः भवति । ग्रीष्मर्तौ अस्य नगरस्य अधिकतमं तापमानं ४५ ºC भवति । अस्मिन् नगरे जुलाई-तः सितम्बर-पर्यन्तं वर्षर्तुः भवति । अत्र सामान्यतः ३०-३५ इन्च(inch) स्तरं यावत् वर्षा भवति ।
इतिहासः[सम्पादयतु]
पुरा इन्दौर-महानगरस्य नाम ’इन्दुर’ आसीत् । अत्र १७४१ तमे वर्षे इन्द्रेश्वर-मन्दिरस्य निर्माणम् अभवत्, तदनन्तरम् अस्य नगरस्य नाम ’इन्दौर’ अभवत् । इदं नगरं मराठा-शासनस्य केन्द्रमासीत् । १७१५ तमे वर्षे इदं नगरं मराठा-वंशजानां होलकर-शासनस्य आधिपत्ये आसीत् । ततः परं १७२४ तमस्य वर्षस्य मई-मासस्य १८ दिनाङ्के पेशवा बाजीराव इत्याख्यस्य आधिपत्ये आगतम् । १७३३ तमे वर्षे पेशवा बाजीराव इत्ययं मल्हारराव होलकर इत्यस्मै इन्दौर-नगरस्य आधिपत्यं पुरस्काररुपेण दत्तवान् । मल्हारराव होलकर इत्यस्य मृत्योः परं द्वौ अयोग्यशासकौ आगतवन्तौ । ताभ्यां शासकाभ्यां किमपि कार्यं न कृतम् । तत्पश्चात् तृतीया शासिका अहिल्याबाई आगतवती । तया शासनकार्यं सफलतापूर्वकं कृतम् । १८१८ तमे वर्षे इदं नगरं ब्रिटिश-शासनस्य आधिपत्ये आगतम् । इदं नगरं ब्रिटिश-मध्यभारतसंस्थायाः मुख्यालयः आसीत् । मध्यभारतस्य ग्रीष्मकालीनं केन्द्रम् अपि आसीत् ।
कृषिः वाणिज्यं च[सम्पादयतु]
इन्दौर-महानगरम् औद्योगिकं नगरम् अस्ति । तत्र ५००० अधिकाः लघु-बृहदुद्योगाः सन्ति । इन्दौर-महानगररस्य समीपे पीथमपुर-नगरम् अपि एकम् औद्योगिकं नगरम् अस्ति । इदं नगरं इन्दौर-महानगरात् २७ कि. मी. दूरे स्थितमस्ति । अस्मिन् नगरे अपि चतुश्शताधिकाः उद्योगाः, शताधिकाः अन्ताराष्ट्रिय-उद्योगाः सन्ति । अत्र अधिकतया वाहनयन्त्रागाराः सन्ति । इन्दौर-महानगरं मध्यप्रदेशराज्यस्य मुख्यं व्यापारिकं केन्द्रम् अस्ति । कृषकाः स्वस्य उत्पादनानां विक्रयणार्थं तत्र गच्छन्ति । इन्दौर-महानगरं मध्यप्रदेशस्य प्रमुखम् उत्पादनवितरणकेन्द्रमस्ति । अस्य नगरस्य समीपस्था भूमिः उत्पादनाय उत्तमा अस्ति । इन्दौर-महानगरं वैज्ञानिक-तकनीकी-अनुसन्धानस्य, शिक्षाक्षेत्रस्य च एकं मुख्यं नगरम् अस्ति । अस्मिन् नगरे स्थितं राजा रामन्ना प्रौद्योगिकी केन्द्र (RRCAT), भारतीय प्रबन्धन संस्थान (IIM) च भारतस्य महत्वपूर्णं संस्थानं वर्तते । नगरेऽस्मिन् ३० ’एञ्जिनियरिङ्ग्’ महाविद्यालयाः सन्ति । महात्मा गान्धी मेडिकल कॉलेज, दन्त चिकित्सा महाविद्यालय, कृषि महाविद्यालय, होलकर विज्ञान महाविद्यालय च अस्मिन्नगरे विद्यमानाः अन्याः शिक्षणसंस्थाः सन्ति ।
वीक्षणीयस्थलानि[सम्पादयतु]
लाल बाग महल[सम्पादयतु]
इदं भवनं होलकर-राजवंशजानां वास्तुकलायाः उत्कृष्टतमं प्रतिरूपमस्ति । पुरा इदं भवनं साम्राज्यस्य विशिष्टजनानां मिलनस्थानमासीत् । अस्मिन् भवने एव साम्राज्यस्य मुख्याधिकारिणः गोष्ठीः कुर्वन्ति स्म । अस्य भवनस्य निर्माणकार्यस्य आरम्भः १८८६ तमे वर्षे महाराजा तुकोजी राव होलकर द्वितीय इत्याख्यस्य शासने अभवत् । महाराजा तुकोजी राव होलकर तृतीय इत्याख्यस्य शासनकाले निर्माणकार्यं समाप्तं जातम् ।
राजवाडा महल[सम्पादयतु]
राजवाडा महल इन्दौर-महानगरस्य मध्ये स्थितमस्ति । होलकर-शासनकाले अस्य निर्माणम् अभवत् । इदं भवनं सुन्दरमस्ति । इदं भवनं सप्तभूमम् अस्ति । इदम् एकम् ऐतिहासिकं भवनम् अस्ति ।
बडा गणपति[सम्पादयतु]
इदं मन्दिरम् इन्दौर-महानगरस्य सर्वेषु मन्दिरेषु मुख्यमस्ति । अस्य मन्दिरस्य निर्माणं १८५७ तमे वर्षे अभवत् । अस्मिन् मन्दिरे भगवतः गणपतेः विशालप्रतिमा अस्ति । अस्याः प्रतिमायाः औन्नत्यं २५ फीट् अस्ति ।
खजराना मन्दिरम्[सम्पादयतु]
इदं मन्दिरं खजराना-क्षेत्रे स्थितमस्ति । अस्मिन् मन्दिरे भगवतः गणपतेः प्रतिमा अस्ति । अस्य मन्दिरस्य निर्माणं होलकर-वंशस्य महाराज्ञ्या अहिल्याबाई इत्यनया कारितम् ।
गान्धी हॉल्[सम्पादयतु]
गान्धी हॉल् इन्दौर-महानगरे महात्मा गान्धी-मार्गे स्थितमस्ति । एकस्मिन् काले इदम् इन्दौर-महानगरस्य सुन्दर-भवनमासीत् ।
केन्द्रीय सङ्ग्रहालय[सम्पादयतु]
अयम् इन्दौर-महानगरस्य मुख्यः सङ्ग्रहालयः अस्ति । सङ्ग्रहालयेऽस्मिन् बहूनि शस्त्राणि सङ्गृहीतानि सन्ति ।
अन्यानि वीक्षणीयस्थलानि[सम्पादयतु]
- गीता भवन
- छतरीयाँ
- अन्नपूर्णा मन्दिर
- हरसिद्धि मन्दिर
- बीजासन माता मन्दिर
- एरोड्रम रोड
- गेन्देश्वर महादेव मन्दिर
- गोपेश्वर महादेव मन्दिर
- जबरेश्वर महादेव मन्दिर
- राजवाडा गोपाल मन्दिर
- राजवाडा शनि मन्दिर
- नेहरू पार्क
रोचकतथ्यानि[सम्पादयतु]
- १९७१ तमे वर्षे भारत-’वेस्ट् इण्डीज़्’ इत्येतयोः देशयोः मध्ये क्रिकेट्-क्रीडायाः आयोजनम् अभवत् । तस्यां क्रीडायां भारतदेशः विजयी अभवत् । तेन कारणेन इन्दौर-महानगरे एकस्य बल्ल(Bat)स्मारकस्य स्थापना कृता । तस्य औन्नत्यं ३० फीट् अस्ति । तस्योपरि सर्वेषां क्रीडालूनां हस्ताक्षराणि अङ्कितानि सन्ति ।
- इन्दौर-महानगरे भगवतः गणपतेः विश्वस्य उच्चतमा प्रतिमा अस्ति ।
- सलमान खान, जॉनी वॉकर, विजेन्द्र घाटगे (गायकः), आमीर खान, किशोर कुमार (गायकः) इत्यादीनाम् इन्दौर-महानगरेण सह सम्बन्धः अस्ति ।
- भारतस्य प्रसिद्धायाः गायिकाय़ाः लता मङ्गेशकर, क्रिकेट-क्रीडालोः राहुल द्रविड इत्यस्य च जन्मस्थलमपि इन्दौर-महानगरम् अस्ति ।
मार्गाः[सम्पादयतु]
वायुमार्गः[सम्पादयतु]
इन्दौर-महानगरे देवी अहिल्याबाई होलकर विमानस्थानकम् अस्ति । देहली, मुम्बई, भोपाल, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, कोलकाता, रायपुर इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-महानगरं प्रति विमानयानानि सन्ति ।
धूमशकटमार्गः[सम्पादयतु]
मुम्बई, आगरा, अहमदाबाद, चेन्नै, चण्डीगढ, हैदराबाद्, ग्वालियर, झांसी, उज्जैन, कोलकाता इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरं प्रति रेलयानानि सन्ति ।
भूमार्गः[सम्पादयतु]
इन्दौर-महानगरस्य मार्ग-परिवहन-निगमः बहुविकसितः अस्ति । मध्यप्रदेशस्य सर्वेभ्यः नगरेभ्यः, ग्रामेभ्यः, अन्यराज्येभ्यः च नियमितरूपेण इन्दौर-नगराय बस्-यानानि प्राप्यन्ते ।
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
![]() |
विकिमीडिया कॉमन्स् मध्ये इन्दौर सम्बन्धिताः सञ्चिकाः सन्ति। |
http://hi.bharatdiscovery.org/india/%E0%A4%87%E0%A4%A8%E0%A5%8D%E0%A4%A6%E0%A5%8C%E0%A4%B0
http://www.census2011.co.in/census/city/299-indore.html
http://www.bharatbrand.com/english/mp/districts/Indore/Indore.html
Bharat discovery indore