किशोर कुमार

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
किशोर कुमार
नाम কিশোর কুমার
जन्मनाम अभास् कुमार् गङ्गूलि
जन्म (१९२९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ८-०४)४ १९२९
Khandwa, Central Provinces and Berar, British India
मरणम् १३ १९८७(१९८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१३) (आयुः ५८)
Mumbai, Maharashtra India
सङ्गीतविद्या Classical, rock and roll, dance
वृत्तिः Singer, lyricist, composer, actor, film producer, director, script writer, screenplay writer, entertainer, record producer
वाद्यानि Vocals, Piano
सक्रियवर्षाणि 1946-1987
जालस्थानम् https://www.facebook.com/pages/Kishore-Kumar/1449560658653658



भारतदेशस्य प्रसिद्धः चलच्चित्रगायकः अभिनेता, गीतरचयिता, चित्रनिर्मापकः,निदेशकः, साहित्यकारः च भूत्वा परगणनीयः यशोवान् जनः । (जीवितकालः क्रि.श.१९२९तमवर्षस्य अगष्ट् मासस्य चतुर्थदिनाङ्कतः क्रि.श. १९८७तमवर्षस्य अक्टोबर् मासस्य त्रयोदशदिनाङ्कः)

यशस्वी नेपथ्यगायकः[सम्पादयतु]

किशोरकुमारः मधुरकण्ठस्य गायकः हिन्दीभाषा, बङ्गालीभाषा, मराठीभाषा, अस्सामीभाषा, गुजरातीभाषा, कन्नडभाषा, भोजपुरीभाषा, मलयाळंभाषा, ओरियाभाषा, इत्यादिभिः भारतीयभाषाभिः सहस्राधिकानि गीतानि गीतवान् । क्रि.श.१९५०तः क्रि.श.१९८०पर्यन्तम् एषः मोहम्मद रफीवर्येण, मूकेशेन च सह प्रधानपुरुषगायकः आसीत् ।

बाल्यं शिक्षा च[सम्पादयतु]

किशोरकुमारः (अस्य पूर्वतनं नम अभास् कुमार गाङ्गूली इति । बङ्गालीभाषया - আভাষ কুমার গাঙ্গুলি) ब्रिटिश् शासनकालस्य भारते अद्यतने मध्यप्रदेशराज्ये खाण्ड्वापत्तनस्य बङ्गालीकुटुम्बे जातः । अस्य पिता कुञ्जलाल गङ्गूलि न्यायवादी आसीत् । अस्य माता गौरीदीवी धनिककुटुम्बतः आगता । अभासकुमाराः एतयोः दम्पत्योः अपत्यचतुष्टकनीयः । प्रथमः अशोककुमारः, द्वितीया सतीदेवी, चतुर्थः अनूपकुमारः । किशोरकुरामरः जीवने चत्वारिवारं विवाहं कृतवान् । अमितकुमारः इति अस्य पुत्रः बालिवुड्चित्रे बङ्गालीचलच्चित्रे च गायकः आसीत् ।

अभियाश्रयगृहवातावरणम्[सम्पादयतु]

आभासः बाल्यकाले तस्य भ्राता अशोककुमारः हिन्दीचलच्चित्रलोके जनप्रियः अभिनेता आसीत् । कालक्रमेण सहोदरस्य सहाय्येन अनूपकुमारः अपि चित्ररङ्गं प्रविष्टवान् । स्वसहोदराभ्यां सह कालं यापयन् क्रमेण चलच्चित्रसङ्गीते आसक्तिं प्राप्तवान् । किशोरकुमारः गायकाभिनेतुः कुन्दनसैगलस्य अभिमानी आसीत् अपि च तं गुरुः इति भावितवान् ।

चलच्चित्रोद्योगस्य आरम्भः[सम्पादयतु]

अग्रजः अशोककुमारः बालिवुड् (हिन्दीचलच्चित्ररङ्गम्) अभिनयक्षेत्रे यदा प्रसिद्धिं प्राप्तवान् तदा गाङ्गूली कुटुम्बः निरन्तरं मुम्बैनगरम् गच्छति स्म । आभसकुमारः स्वस्य नाम किशोरकुमारः इति परिवर्तितवान् । बाम्बे टाकीस् इति संस्थायां वृन्दगायकरूपेण स्वस्य चित्रवृत्तिम् आरब्धवान् यत्र अग्रजः प्रधानभूमिकां निर्वहति स्म । क्रि.श.१९४८तमे वर्षे लोकार्पितं शिकारि इति चलच्चित्रम् अभिनेतृरूपेण अस्य प्रथमं चलच्चित्रम् । सङ्गीतनिदेशकः खेमदन्दः क्रि.श.१९४८तमे वर्षे स्वस्य " जिद्दी " चलच्चित्रे "मर् ने कि दुवायें क्यूं माङ्गु " गीतं गातुम् अवकाशं कल्पितवान् । एतदन्तरं किशोरकुमारः निरन्तरं गानस्य कार्यं प्राप्तवान् । किन्तु एषः तावत्पर्यन्तं चलच्चित्रकार्यं गभीरवृत्तिरूपेण न स्वीकृतवान् ।

निधनम्[सम्पादयतु]

किशोरकुमारः क्रि.श. १९८७तमे वर्षे अक्टोबर मासे हृदयवैफल्येन दिवङ्गतः ।

अस्य प्रमुखचलच्चित्राणि[सम्पादयतु]

वर्षाणि चलच्चित्रनामानि भूमिकाः ठीका
क्रि.श.१९८८ कौन जीता कौन हारा
क्रि.श.१९८२ चलती का नाम गाड़ी
क्रि.श. १९७४ बढ़ती का नाम दाढ़ी
क्रि.श. १९७१ दूर का राही
क्रि.श. १९७१ हंगामा
क्रि.श. १९६८ साधू और शैतान
क्रि.श. १९६८ पड़ोसन गुरु
क्रि.श. १९६८ हाय मेरा दिल
क्रि.श. १९६६ प्यार किये जा
क्रि.श. १९६६ लड़का लड़की
क्रि.श. १९६४ दूर गगन की छाँव में शंकर
क्रि.श. १९६४ मिस्टर एक्स इन बॉम्बे
क्रि.श. १९६२ हाफ टिकट
क्रि.श. १९६२ मनमौजी
क्रि.श. १९६२ नॉटी बॉय प्रीतम
क्रि.श. १९६ झुमरू झुमरू
क्रि.श. १९६० गर्ल फ्रैंड
क्रि.श. १९६० महलों के ख़्वाब राजन
क्रि.श. १९६० काला बाज़ार
क्रि.श. १९५९ चाचा ज़िन्दाबाद
क्रि.श. १९५८ चलती का नाम गाड़ी
क्रि.श. १९५८ रागिनी राजन
क्रि.श. १९५७ आशा
क्रि.श. १९५७ मिस मैरी
क्रि.श. १९५७ बंदी माधव
क्रि.श. १९५६ भाई भाई
क्रि.श. १९५६ पैसा ही पैसा
क्रि.श. १९५६ ढाके की मलमल
क्रि.श. १९५६ मेम साहिब
क्रि.श. १९५५ भगवत महिमा
क्रि.श. १९५५ पहली झलक
क्रि.श. १९५५ बाप रे बाप
क्रि.श. १९५४ नौकरी
क्रि.श. १९५४ धोबी डॉक्टर
क्रि.श. १९५३ लड़्की
क्रि.श. १९५२ तमाशा
क्रि.श. १९४६ शिकारी

निदेशितचित्राणि[सम्पादयतु]

वर्षाणि चलच्चित्राणि टीका
क्रि.श.१९८२ चलती का नाम ज़िन्दगी
क्रि.श.१९७४ बढ़ती का नाम दाढ़ी
क्रि.श.१९७१ दूर का राही
क्रि.श.१९६४ दूर गगन की छाँव में


"https://sa.wikipedia.org/w/index.php?title=किशोर_कुमार&oldid=474986" इत्यस्माद् प्रतिप्राप्तम्