महेन्द्र कपूर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
महेन्द्र कपूरः
जन्मनाम महेन्द्र कपूरः
मूलतः भारतीयः
सङ्गीतविद्या हिन्दीचलच्चित्रस्य नेपथ्यगायकः, भारतीयशास्त्रीयसङ्गीतम्
वृत्तिः गायकः
सक्रियवर्षाणि क्रि.श.१९५० तः.२००७ ।


महेन्द्र कपूरः (जीवितकालः क्रि.श. १९३४तमवर्षस्य जनवरीमासस्य ९दिनाङ्कतः क्रि.श. २००८तमवर्षस्य सप्टम्बर् मासस्य२७दिनाङ्कपर्यन्तम्) [[हिन्दीभाषायाः चलच्चित्रस्य प्रसिद्धः नेपथ्यगायकः । एषः बि.आर्.चोपडा इति चलच्चित्रनिर्मातुः हमरा़ज़्, गुमराह, धूल का फूल, वक्त, धुन्ध इत्यादिषु चलच्चित्रेषु सर्वकालस्मरणीयगीतानि गीतवान् । अस्य अधिकानि गीतानि सङ्गीतकारेण रविना स्वरसंयोजितानि सन्ति । अस्य जन्म पञ्जाबराज्यस्य अमृतसरनगरे अभवत् । नेपथ्यगायगस्य वृत्तिम् अन्विष्य एषः अल्पे वयसि एव मुम्बैनगरम् अगच्छत् । क्रि.श १९५३तमे वर्षे "मदमस्त्" इति चलच्चित्रस्य साहिर् दुधियनवी इत्यस्य "आप आये तो खायल ए दिल् ए नशाद आया " इति गीतं गीत्वा स्वस्य गानवृत्तिम् आरभत । क्रि.श.२००८तमे वर्षे सप्टम्बर मासस्य २७तमे दिनाङ्के कस्यचित् व्यधेः कारणेन अयं दिवङ्गतः । तदा अस्य आयुः ७४वर्षाणि आसन् ।[१]

वृत्तिजीवनम्[सम्पादयतु]

क्रि.श १९६८तमे काले " उपकार " इति चलच्चित्रस्य "मेरे देश की धरती सोना उगले " इति बहुचर्चितगीतस्य गानार्थम् एषः सर्वश्रेष्ठनेपथ्यगायकः इति पुरस्कारं प्राप्तवान् । एतं महत्वपूर्णं पुरस्कारम् अतिरिच्य अनेन क्रि.श. १९६३तमे वर्षे "गुमराह" इति चलच्चित्रस्य "चलो एक बार फिर् से अजनबी बन् जाएँ " इति गीतस्य गानार्थं फिलं फेर् प्रशस्तिं प्राप्तवान् । तत्पश्चात् क्रि.श. १९६७तमे वर्षे हमराज़् इति चलच्चित्रस्य " नीले गगन के तले " इति गीतस्य गानार्थम् अपि फिलं फेर् पुरस्कारं प्राप्तवान् । अस्य कलाजीवनस्य तृतीयः फिलंफेर् पुरस्कारः क्रि.श.१९७४तमे वर्षे लोकार्पितस्य' रोटि कपडा और् मकान ' इति चलच्चित्रस्य "नहीं नहीं और् अहीं " इति गानार्थम् आगतः । एतदनन्तरं पद्मश्रीप्रशस्तिः महारार्ष्ट्रसर्वकारस्य लतामङ्गेश्कर् सम्माननं च प्राप्तम् । हिन्दीभाषाम् अतिरिच्य एषः दादा कोण्डके इत्यादीनाम् अनेकेषां मराठीभाषायाः चलच्चित्रे अपि कण्ठं योजितवान् । एषः मोहम्मद रफी, तलत् महमूदः, मुकेशः, किशोरकुमारः, हेमन्तकुमारः इत्यादीनां प्रसिद्धगायकानां काले एव साफल्यं प्राप्तवान् ।

अस्य सुमधुरगीतानि[सम्पादयतु]

अपि अतिप्रसिद्धस्य दूरदर्शनधारावाहीकथायाः महाभारतस्य शीर्षिकागीतम् अपि गीतवन् यत् अतीव लोकप्रियम् अभवत् । रोहनकुमारः इति अस्य पुत्रः क्रि.श. १९८०तमे वर्षे केषुचित् चलचित्रेषु अभिनयं कृतवान् । तेषु लव् ८६इति चलच्चित्रं प्रसिद्धम् अभवत् । महेन्द्र कपूरस्य लोकप्रिय गीतेषु हमराज़् चित्रस्य " नीले गगने के तले "," किसी पत्थर की मूरत सी ", गुमराह चित्रस्य " चलो एक बार फिर से ", किस्मत् चित्रस्य " लाखों हैं यहाँ दिलवाले ", उपकार चित्रस्य " मेरे देश की धरती ", पूरब और पश्चिम चित्रस्य " है प्रीत जहाँ की रीत सदा ", फकीरा चित्रस्य " पकीरा चल चला चल ", क्रान्ति इति चित्रस्य " अब के बरस तुझे ", धूल का फूल चित्रस्य " तेरे प्यार का आसरा ", इत्यादीनि गीतनि ।

प्रशस्तिपुरस्काराः[सम्पादयतु]

  • क्रि.श.१९६३ - फिल्मफेर् पुरस्कारः (पुरुषनेपथ्यगायकः) - चलो इक बार फ़िर से (ग़ुमराह)
  • क्रि.श. १९६७ - फिल्मफेर् पुरस्कारः (पुरुषनेपथ्यगायकः) - नीले गगन के तले (हमराज़)
  • क्रि.श. १९७४- फिल्मफेर् पुरस्कारः (पुरुषनेपथ्यगायकः) - नहीं नहीं (रोटी कपड़ा और मकान)

उल्लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महेन्द्र_कपूर&oldid=323120" इत्यस्माद् पुनः प्राप्तिः