गणेशः
| गणेशः | |
|---|---|
|
बसोहली-लघुचित्रम्, १७३० तमे वर्षे। राष्ट्रियसंग्रहालयः, नवी दिल्ली। | |
| देवनागरी | गणेशः |
| संस्कृतानुवादः | Gaṇeśa |
| सम्बन्धः | देवः |
| मन्त्रः | ॐ गणेशाय नमः |
| शस्त्रम् | परशुः (कुठारः), पाशः, अङ्कुशः (गजहुकः) |
| पर्वतः | मूषकः |
| सहचारी | बुद्धिः (प्रज्ञा), ऋद्धिः (समृद्धिः), सिद्धिः (सफलता) |

|
परम्पराः
|
|
प्रवेशद्वारम्:सनातनधर्मः |
गणेशः(Ganesha) प्रसिद्धा हिन्दुदेवता । शिवपार्वत्योः प्रथमः पुत्रः भवति। गणः नाम समूहः, गणानाम् ईशः गणेशः इति। सः विनायकः इति नाम्नि अपि प्रसिद्धः।[१] सः गजवक्त्रः वर्तते। स एव विघ्ननाशकः। अतः एव सः कार्यारम्भे पूज्यते । सः भक्तप्रियदेवः। तस्य भक्ताः गाणपतेः इति ख्याताः। गणेशोपनिषद् गणेशपुराणं मुद्गलपुराणं च तस्य स्तुतिं कुर्वन्ति। सः न केवलं हैन्दवैः किन्तु बौद्धैः जैनैः अपि पूजितः।
नामानि
[सम्पादयतु]तस्य नामानि गणेशसहस्रनामनि वर्णितानि। कानिचन नामानि ः
- गणेशः - गणानाम् ईशः
- गणपतिः - गणानाम् पतिः
- गजाननः - गजस्य आननमिव आननं यस्य सः
- गणाधिपः - गणानाम् अधिपः
- विनायकः - विशिष्टः नायकः
- विघ्नेशः - विघ्नानाम् इशः
- एकदन्तः - एकः दन्तः यस्य सः
- लम्बोदरः - लम्बम् उदरं यस्य सः
- गजवक्त्रः - गजस्य वक्त्रं यस्य सः
- वक्रतुण्डः - वक्रान् तुण्डयति/ वक्रं तुण्डं यस्य सः
वैशिष्ट्यानि
[सम्पादयतु]गणेशः पौराणिकशास्त्रानुसारेण गजशिरधारिदेवतारूपेण पूजिता अस्ति। तस्य एकः दन्तः अर्धः वर्तते। बृहदाकारोदरम् अस्य अवयवे विलक्षणतया दृश्यते। गणेशस्य चरणदेशे विविधभक्ष्याणि भवन्ति। तत्पुरतः मूषिकः स्थितः वर्तते।
आध्यात्मिकशिक्षायाः प्रथमसोपानं भवति 'श्रवणम्', तन्नाम वेदान्ते विद्यमानानां परमसत्यानां श्रवणम् । द्वितीयसोपानं 'मननं' तत्सत्यस्य स्वातन्त्रप्रतिच्छाया एव। श्रवणमननमाध्यमेन सर्वज्ञताम् अर्जयितुं शक्यते। गजाननस्य बृहदाकारकं कर्णं मस्तकञ्च तदेव द्योतयति।
गणेशस्य हस्तचतुष्टयं मन- बुद्धि-अहंकार-चित्तं च द्योतयति। गणेशः स्वयं सच्चिदानन्दस्वरूपः भूत्वा आत्मोपलब्धेः चत्वारि उपादानानि प्रदर्शयति।
शुण्डं गजाननस्य अवयवे लाक्षणिकतया तिष्ठति। स्थूलसूक्ष्मकार्ययोः सम्पादनं गजशुण्डस्य अत्याश्चर्यगुणं भवति। यथा शुण्डेन वृक्षोत्पाटनं कर्तुं शक्यते तथैव शुण्डेन भूमौ पतितां सूचीं अपि स्वीकर्तुं शक्यते। वक्रतुण्डस्य बुद्धिमत्ता स्थूल(वस्तुनिष्ठजगत्)-सूक्ष्म(पारमार्थिकजगत्)जगतोः मध्ये सेतुबन्धं करोति। परमात्मनः प्राप्त्यर्थं तन्मार्गेण (स्थूलात् सूक्ष्मं प्रति) एव गमनीयेति जनान् सूचयति ।
महत् उदरं सूचयति यत् खादितानि सर्वाणि खाद्यानि जीर्णीकर्तुं समर्थं वर्तते इति । तथैव आदर्शः पुरुषः स्वस्य जीवने घट्यमानाः सर्वविधघटनाः अपि निश्चलमनसा जीर्णीकुर्याद् इति ।
गणेशः सर्वदा एकस्य उपरि अपरं पादं संस्थाप्य उपविशति। एकः पादः भूमौ स्थितः भवति । तस्य व्यक्तित्वस्य कश्चन अंशः पार्थिवलोके भवति अपरः तु सर्वदा परमसत्ये एकनिष्ठतया स्थितः भवति। तथा मनुष्योऽपि पार्थिवलोके स्थित्वा योगबलेन मूलभूतात्मोपलब्धिं कर्तुं शक्नोति।
मूर्तिः
[सम्पादयतु]तस्य मूर्तयः मन्दिरेषु गृहेषु च प्राचुर्येण दृश्यन्ते। तस्य एकदन्तकं गजवक्त्रम् अस्ति। तस्य उदरं भाण्डाकारम्। सः नागयज्ञोपवितम् धरति। तस्य चत्वारः बाहवः सन्ति। सः पाशम् अङ्कुशं मोदकं च धरति। सः एकहस्तेन आशिषं ददाति।
विवर्तनम्
[सम्पादयतु]गणपतेः उल्लेखः प्राचीनतमे हिन्दुधर्मग्रन्थे ऋग्वेदे अस्ति। तत्र ऋक् मन्त्राः यथा-" गणानां त्वा गनपतिं हवामहे...."(२\२३\१) एवं "विषु सीदा गणपतेः"(१०\११२\९) गणपतेः धारणां जनयन्ति। यद्यपि पौराणिकगणेशस्य वर्तमाने पूज्यमानस्य गणेशस्य च भेदाः सन्ति तथापि नैके विशारदाः मन्यन्ते यत्-"गणपति-ब्रह्मणस्पति"-तः एव "गजवदन-गणेश-विघ्नेश्वर"स्य धारणा विवर्तितास्ति।(Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p.125)
ऋग्वेदकालिकस्य गणपतेः वृहस्पतिः, वाचस्पतिः इति च अपरनाम आसीत्। गणेशः सर्वदा नृत्यसंगीतकारीसमूहे (यच्च 'गणः’ इत्युच्यते) विराजमानः भवति । तथा देवतानां रक्षकरूपेणैव कल्पितः आसीत्।(Hindu Gods and Goddesses, Swami Harshananda, Sri Ramakrishna Math, Chennai, 1981, p. 125-27)
भिन्नमतानुसारेण, भारतवर्षस्य आदिवासीजनैः पूजिता हस्तिदेवता एवञ्च लम्बोदरयक्षस्य कल्पनायाः मिश्रणेन एव गणेशस्य उद्भवः जातः ।
अवताराः
[सम्पादयतु]गाणपत्यसम्प्रदायस्य प्रधानग्रन्थौ द्वौ स्तः । गणेशविषयके द्वे उपपुराणे (गणेशमुद्गलश्च) पृथग्पृथकतया गणेशस्य क्रमशः चत्वारः एवं अष्ट अवताराः सन्ति इति कथयति ।-
गणेशपुराणम्
[सम्पादयतु]गणेशपुराणे उल्लिखितम् अस्ति यत् गणेशस्य सत्य-त्रेता-द्वापर-कलियुगेषु एवम् अवताराः भवन्ति -
महोत्कटविनायकः(सत्ययुगः), मयूरेश्वरः(त्रेता), गजाननः(द्वापरः), धूम्रकेतुः(कलिः)
मुद्गलपुराणम्
[सम्पादयतु]मुद्गलपुराणं गणेशस्य अष्टावताराणां विषये सूचयति यथा-
वक्रतुण्डः, एकदन्तः, महोदरः, गजाननः, लम्बोदरः, विकटः, विघ्नराजः, धूम्रवर्णः इत्यादि।
वीथिका
[सम्पादयतु]उपयोगार्थं मुक्तानां चित्राणां वीथिका -
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिमीडियाकोषे Ganesha अनेन सम्बद्धमाध्यमाः सन्ति। |
- Ganesh: Symbol and presence Archived २००७-०२-१० at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ Sharma, Munshi Ram (1978). चतुर्वेद मीमांसा. Vaidika Śodha Saṃsthāna : vitaraka Grantham. आह्रियत 26 April 2026.

