वैश्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ऊरुतदस्य यद्वैश्यः - इति वैश्यवर्णो, ब्रह्मणोरुतः संजात इति मन्यते । समाजस्यार्थिकविकासो वैश्यवर्णस्य दायित्वमासीत् । वाणिज्यं-पशुरक्षा च कृष्यादानरतिः शुचिः । वेदाध्ययनसम्पन्नः स वैश्य इति संज्ञितः ॥ इति महाभारत कथानाद्वैश्यःपशूनां रक्षणं, वाणिज्यं , यजनं,दानं,वेदाध्ययनं, चेति कर्माणि कुर्वन् धनसमृद्ध्या, अन्नसमृद्ध्या च राष्ट्रपालने सहयोगं यच्छेत् । अपि च-

वैश्यस्यापि हि यो धर्मस्तं ते वक्ष्यामि शाश्वतम् ।
दानमध्ययनं यज्ञः शौचेन धनसञ्चयः ॥
पितृक्त् पालयेद् वैश्यो युक्तः सर्वान् पशूनिह ।
विकर्म तद् भवेदन्यत कर्म यत् स समाचरेत् ॥
रक्षया स हि तेषां वै महत् सुखमवाप्नुयात् ।
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददौ पशून् ॥

इति महाभारतस्यैव शान्तिपर्वस्थ श्लोकैर्वैश्येनानुपालयमानो धर्मः क इति स्पष्टमवगम्यते ।

अन्नसम्पत्त्या,पशुसम्पत्त्या,रत्नवस्त्रादिसम्पत्त्या च यदि वैश्यो राष्ट्रं न संवर्धयति तर्हि क्षुधार्ताः जीर्णवस्त्रधारिणो ब्राह्मण अध्ययनाध्यापने, क्षत्रियः प्रजापालनं दुष्टदमनं, शूद्राश्च परिचर्यादिकं स्व कर्तव्यं न पालयेयुः । अत एवोक्तं- ‘यदि न स्युस्तथा वैश्या न भवेयुस्तथा परे-’ इति वैश्यवर्णेनैव राष्ट्रस्यार्थिकस्थितिः सुदृढा भवति । वैश्याः सततं धनार्जनपराः, अधर्मेण मार्गेण धनार्जनं च न कुर्युरित्यतो वेदाध्ययनं-यजनं-दैवताराधनं-दानं-ब्राह्मणानामादर इत्येवं सदाचारैरुपदिश्यन्ते । चतुर्षु वर्णेषु वैश्यवर्णस्यैव लोकोदरपूरणभारोऽस्ति । ब्राह्मणेभ्यो दानरूपेण,क्षत्रियेभ्यो ‘कर’ रूपेण, शूद्रेभ्यो पारिश्रमिक रूपेण च यात्किञ्चिदपि ददत् सर्वेषामुदराणि पूरयत्यसौ ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैश्यः&oldid=480993" इत्यस्माद् प्रतिप्राप्तम्