त्र्यम्बकेश्वरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Trimbakeshwar Shiva Temple
Trimbakeshwar Shiva Temple is located in Maharashtra
Trimbakeshwar Shiva Temple
Trimbakeshwar Shiva Temple
Location within Maharashtra
भौगोलिकस्थितिः: १९°५५′ उत्तरदिक् ७३°३०′ पूर्वदिक् / 19.917°उत्तरदिक् 73.500°पूर्वदिक् / १९.९१७; ७३.५००निर्देशाङ्कः : १९°५५′ उत्तरदिक् ७३°३०′ पूर्वदिक् / 19.917°उत्तरदिक् 73.500°पूर्वदिक् / १९.९१७; ७३.५००
नाम
शुद्धनाम: Trimbakeshwar Mandir
संस्कृतानुवादः: Tryambakeśvara
अवस्थितिः
देशः: India
राज्यम्: Maharashtra
मण्डलम्: Nashik
स्थानीय: Trimbak
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: Shiva
स्थापत्यशैली: Hemadpanthi

द्वादश ज्योतिर्लिङ्गेषु अन्यतमं त्र्यम्बकेश्वरमन्दिरम् इदानीन्तनमहाराष्ट्रराज्ये अस्ति । गोदावरीनद्याः तीरे विद्यमानं प्राचीनं दिव्यक्षेत्रम् एतत् । एतत् क्षेत्रं “पश्चिमकाशी” इत्यपि उच्यते । इदानीम् एतत्क्षेत्रं “नासिक्” नाम्ना प्रसिद्धम् अस्ति । रामस्य आदेशानुगुणं लक्ष्मणः शूर्पणखायाः कर्णौ नासिकां च अत्रैव अकर्तयत् । तत् कारणात् अस्य स्थानस्य नाम “नासिक” इति सञ्जातम् । एतत् क्षेत्रं नव शिखरैः आवृतम् अस्ति । तस्मात् कारणात् “नवशिख”नाम्ना निर्दिश्यते स्म । तदेव कालान्तरे “नासिक” इति सञ्जातं स्यात् इत्यपि उच्यते । नासिकक्षेत्रं पञ्चवटीक्षेत्रं च मिलित्वा नासिकनाम्ना निर्दिश्यते । एतयोः द्वयोः स्थानयोः मध्ये पुण्यसलिला गोदावरी प्रवहति । गोदावर्याः दक्षिणतीरे नासिकक्षेत्रम् अस्ति, उत्तरतीरे च पञ्चवटीक्षेत्रम् । अत्र द्वयोः अपि स्थानयोः असंख्यानि मन्दिराणि सन्ति ।

जब्बलपुरस्य समीपे विद्यमाने भरतपुरे कृते उत्खनने क्रिस्तपूर्वसम्बद्धः कश्चन ब्रह्मस्तूपः प्राप्तः । तत्र अपि नासिकक्षेत्रस्य उल्लेखः अस्ति । क्रि श १५०तमे वर्षे भारतम् आगतः ईजिप्तस्य प्रवासी “टालेमी”नामकः अपि प्रसिद्धं धार्मिककेन्द्रं नासिकक्षेत्रम् उल्लिखितवान् अस्ति । जिनप्रभसूरिनामकस्य जैनलेखकस्य ग्रन्थे अपि नासिकक्षेत्रस्य उल्लेखः अस्ति । नासिकक्षेत्रे जैनमतस्य अष्टमः तीर्थङ्करः चन्द्रप्रभस्वामी वसति स्म इत्यपि उल्लिखति सः । षष्ठे शतके नासिकक्षेत्रे चालुक्यानां शासनम् आसीत् । अनन्तरं राथोडानां शासनम् आरब्धम् । तदनन्तरं त्रयोदशशतकस्य अन्तिमभागपर्यन्तं देवगिरिस्थानां यादवानां शासनम् आसीत् अत्र । चतुर्दशशतकस्य आरम्भकाले सुल्तानां शासनम् आरब्धम् । १५३०तमे वर्षे बहुमनिसुल्तानस्य वशं गतम् एतत् क्षेत्रम् । षोडशे शतके अहमदनगरस्य सुल्तानस्य शासनम् आरब्धम् । अनन्तरं मोगलजनानां शासनगतं जातम् एतत् नासिकक्षेत्रम् । ते अस्य क्षेत्रस्य नाम एव “गुल्शनाबाद्” इति परिवर्तितवन्तः । भाग्यवशात् तत् नाम प्रसिद्धं न जातम् । मोगलजनाः अत्रत्यानि मन्दिराणि नाशितवन्तः । १६८०तमे वर्षे औरङ्गजेबः अत्रत्यानि २५ मन्दिराणि नाशितवान् । तेषां मन्दिराणाम् अवशेषैः एव औरङ्गदरवाजं, दिल्लीदरवाजं, जुम्मामस्जिदम् इत्यादीनि निर्मितानि । सप्तदशशतकस्य आरम्भे मराठावीराः एतत् क्षेत्रं वशीकृतवन्तः ।

प्राचीनकालादारभ्य अपि एतत् क्षेत्रं प्रसिद्धं वाणिज्यकेन्द्रम् आसीत् । पेश्वेजनानां काले अस्य क्षेत्रस्य महता प्रमाणेन अभिवृद्धिः जाता । पेश्वेजनाः अत्र बहूनां सेतूनां, कासाराणां, वसतिप्रदेशानां च निर्माणं कृतवन्तः । एतत् नासिकक्षेत्रं पञ्चमहाक्षेत्रेषु अन्यतमम् । अन्यानि च – (प्रयागः, पुष्करं, नैमिषारण्यं,गया च ) “नासिकं च प्रयागं च पुष्करं नैमिषं तथा । पञ्चमं च गयाक्षेत्रं षष्ठं कुत्र न विद्यते ॥“ इति ।

महाराष्ट्रे नासिक्प्रदेशे विद्यमानं त्र्यम्बकेश्वरमन्दिरम्

सरस्वत्याः तीरे दानेन, नर्मदातीरे तपसा, गङ्गातीरे शरीरत्यागेन यत् फलं प्राप्यते तत् सर्वमपि फलं गोदावर्याः सान्निध्ये प्राप्यते इति वदति गोदामाहात्म्यम् । गोदावर्याः दक्षिणाभिमुखः प्रवाहः दुर्लभः मोक्षदायकः च । सः नासिकक्षेत्रं प्रति आगतैः प्राप्यते । अत्र बहूनि मन्दिराणि सन्ति । पञ्चवट्याः रामकुण्डसमीपे कपालेश्वरमन्दिरम् अस्ति । अत्र शिवस्य पुरतः नन्दी नास्ति । सुन्दरनारायणमन्दिरम् अत्रत्यं प्राचीनं मन्दिरम् । तत् मन्दिरं नाशयित्वा तत्स्थाने यवनाः स्मशाननिर्माणं कृतवन्तः आसन् । क्रि श १७५६तमे वर्षे अत्र तत् मन्दिरं पुनर्निर्मितम् । गर्भगृहे कृष्णशिलायाः विष्णुमूर्तिः अस्ति । तस्याः मूर्तेः दक्षिणे वामे च भागे वृन्दायाः लक्ष्म्याः च विग्रहौ स्तः । प्रतिवर्षं मार्चमासस्य २०तमे वा २१तमे वा दिनाङ्के सूर्यस्य किरणाः साक्षात् विष्णुविग्रहस्य चरणयोः यथा पतेत् तथा एतत् मन्दिरं निर्मितम् अस्ति । पञ्चवट्यां रामस्य कुटीरं यत्र आसीत् तत्रैव कालराममन्दिरम् अस्ति । एतदेकं भव्यं मन्दिरम् । एतत् मन्दिरं द्वादश वर्षाणि यवत् द्विसहस्रादिकाः कर्मकराः अविरतश्रमेण निर्मितवन्तः । रङ्गराव ओधेकर नामकः १७८२ वर्षावसरे २३ लक्षरूप्यकाणां व्ययम् अकरोत् इति तस्मिन् काले । गर्भगृहे रामस्य लक्ष्मणस्य सीतायाः च सुन्दराः विग्रहाः सन्ति । चैत्रमासे १३ दिनानि यावत् अत्र महता वैभवेन उत्सवः प्रचलति । रामनवमीदिने विशेषपूजा रथयात्रा च प्रचलति । अस्मात् मन्दिरात् सार्धैकमैल् दूरे प्राचीनं तपोवनम् अस्ति । शुर्पणखायाः नासिकाच्छेदः, खरदूषणयोः संहारः, मारीचवधम् इत्यादयः घटनाः अत्रैव प्राचलन् इति उच्यते । अत्र लक्ष्मणस्य मन्दिरम् अपि अस्ति । अनेकाः गुहाः अपि सन्ति अत्र । नैरुत्यभागे त्र्यम्बकेश्वरज्योतिर्लिङ्गम् अस्ति । गौतमस्य तपसा तृप्तः शिवः धेनोः प्राणरक्षणार्थं गङ्गाम् एव अवतारयत् अस्मिन् क्षेत्रे । इतः एव गोदावर्याः प्रयाणस्य आरम्भः । कार्त्तिकपूर्णिमायां माघबहुलचतुर्दश्यां च अत्र उत्सवः प्रचलति । इदानीं विद्यमानं त्र्यम्बकेश्वरमन्दिरं बालाजी बाजीराव् पेश्वे निर्मितवान् इति । क्रान्तिरत्नः स्वातन्त्र्यवीरः सावरकरः जन्म प्राप्नोत् नासिकसमीपस्थे भगूरिग्रामे । तस्य प्रौढशिक्षणं नासिकनगरे एव सम्पन्नम् । क्रान्तिकारिणां गुप्तसंस्था “अभिनवभारतम्” अपि आरब्धा अत्रैव । अस्य एव प्रेरणया नासिकस्य कलेक्टरस्य जाक्सन् नामकस्य वधं कृतवान् अनन्तकान्हेरः । ताद्शानाम् अनेकेषां क्रान्तिकारिणां वस्तुतः, कर्मणा, बलिदानेन च पुनीतं क्षेत्रम् एतत् नासिकक्षेत्रम् ।

पुणे विश्वविद्यालयेन, डेक्कन् कालेज् आफ् रिसर्च् इन्स्टिट्यूट् संस्थया च नासिकक्षेत्रस्य गाडगेमहाराजधर्मशालायाः समीपे उत्खननं कृतम् । तदा क्रि. पू. ३ शतकस्य लोहनिर्मितनि शस्त्राणि, मृद्घटाः, कुम्भाः, क्रि.श. २ शतकस्य शतवाहनानां कालस्य अवशेषाः च प्राप्ताः तत्र । तेन तत्र व्यवस्थितं नागरिकजीवनम् आसीत् इति ज्ञायते । समर्थरामदासः, शिवाजिः, विदब्रह्मा श्रीगागाभट्टः, मिर्झाराजः जयसिंहः, सन्ताजीघोर्पणे इत्यादयः महान्तः नासिकक्षेत्रस्य भक्ताः आसन् ।

सुप्रसिद्धं नासिकक्षेत्रम् ऋषिमुनीनां तपोभूमिः, साधकानां योगभूमिः, मनुकुलस्य मोक्षभूमिः च । कृतयुगे सृष्टिकर्ता ब्रह्मा अत्र पद्मासनस्थः सन् तपः आचरत् इति । तस्मात् कारणात् एतत् क्षेत्रं “पद्मनगरम्” इत्यपि उच्यते । त्रेतायुगे खरः, दूषणः, त्रिशिरः इति त्रयः लोककण्टकाः राक्षसाः अत्र वसन्तः ऋषिमुनीनां तपसः यज्ञस्य च विघ्नम् आचरन्ति स्म इति । तस्मात् कारणात् एतत् क्षेत्रं “त्रिकण्टकम्” इत्यपि उच्यते । द्वापरयुगे एतत् “जनस्थानम्” इति निर्दिश्यते स्म । जनस्थानस्य कश्चन भागः एव पञ्चवटी । सूर्यः अश्वरूपेण आगत्य अश्विन्याः रूपेण विद्यमानया उषया सह विहारं कुर्वन् आसीत् अस्मिन् स्थाने इति । तदा तत्र विद्यमानाः ५ वटवः सूर्यस्य अश्वरूपं दृष्ट्वा हसितवन्तः । कुपितः सूर्यः तान् “पञ्चवटी भवन्तु” इति शप्तवान् । ते वटवः वटवृक्षाः सञ्जाताः इति । रामः यदा वस्तुम् अत्र आगतवान तदा तेषां वटूनाम् (ऋषिकुमाराणां) शापविमोचनं जातम् इति । कलियुगे एतत् “नासिक”नाम्ना प्रसिद्धम् अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=त्र्यम्बकेश्वरः&oldid=480443" इत्यस्माद् प्रतिप्राप्तम्