वैद्यनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

द्वादश ज्योतिर्लिङ्गानाम् आवल्याम् वैद्यनाथः नवमं ज्योतिर्लिङ्गम् अस्ति । शिवपुराणे द्वादश ज्योतिर्लिङ्गस्तोत्रे यत् “परल्यां वैद्यनाथम्” इति उक्तं तत् क्षेत्रम् अस्ति इदानीन्तनमहाराष्ट्रस्य “बीड”मण्डलेपरलिपर्वते वनस्पतयः महता प्रमाणेन उपलभ्यन्ते । तस्मात् कारणात् अत्र वैद्याः एव अधिकतया आगच्छन्ति स्म । अतः अत्रत्यः आराध्यदेवः “वैद्यनाथः” इति निर्दिष्टः । समुद्रमथनावसरे अमृतम् आनीतवान् धन्वन्तरी विष्णोः सूचनानुसारम् अत्रत्ये शिवलिङ्गे आत्मानं गोपितवान् आसीत् । दैत्यनां संहारानन्तरम् अमृतं देवेभ्यः वितीर्णवान् । तस्मात् कारणात् अत्रत्यं वैद्यनाथम् अमृतेश्वरः, धन्वन्तरी इत्यपि निर्दिशन्ति । अस्मिन् क्षेत्रे विष्णोः, अम्बाभवान्याः, मुरलीधरस्य, गोरारामस्य एवम् अनेकेषां देवानां मन्दिराणि सन्ति । वनवासम् आगतः रामः परलिक्षेत्रम् अपि आगतवान् इति लीलाचरित्रे, आनन्दरामायणे च उल्लेखः अस्ति ।

“परल्यां वैद्यनाथं च” इत्यस्मिन् स्थाने “वैद्यनाथं चिताभूमौ” इति पाठान्त्तरम् अपि अस्ति । तत्र निर्दिष्टा चिताभूमिः अस्ति बङ्गालस्य सन्थालपरगणे । एतत् क्षेत्रं वैद्यनाथधाम इत्यपि वदन्ति । एतत् पार्वत्याः अपि प्रियं क्षेत्रम् । अतः एतत् किञ्चित् शक्तिपीठम् अपि । अत्र शिवः सतीदेव्याः हृदयभागस्य दहनसंस्कारम् अकरोत् इति । तस्मादेव कारणात् एतत् क्षेत्रं “चिताभूमिः” इति उच्यते । एतत्क्षेत्रसम्बद्धा काचित् पौराणिकी कथा स्वारस्यकरी अस्ति – राक्षसेन्द्रः रावणः कदाचित् शिवम् उद्दिश्य तपः आचरत् । शिवात् एकं ज्योतिर्लिङ्गं प्राप्य लङ्कायां तस्य प्रतिष्ठापनं करणीयम् इति तस्य इच्छा आसीत् । शिवः प्रत्यक्षः नाभवत् । शिवदर्शनेच्छया रावणः एकस्यानन्तरम् एकं शिरः कर्तयित्वा शिवाय अर्पितवान् । दशमं शिरः यदा कर्तयितुम् उद्युक्तः तदा तत्पुरतः शिवः प्रत्यक्षः सन् तस्य इच्छाम् अपूरयत् । शस्त्रवैद्यः इव रावण्स्य कर्तितानि नव शिरांसि अपि पुनः योजितवान् । तस्मात् एव कारणत् सः वैद्यनाथः सञ्जातः ।

माघ-फाल्गुणमासयोः अत्र असंख्याः भक्ताः गङ्गोदकम् आनीय वैद्यनाथाय अर्पयन्ति । एतत् क्षेत्रं देवघर् (देवगृहम्), हरितकीवनं, केतकीवनं, हरदपीठम् इत्यपि वदन्ति । अन्येषु अपि क्षेत्रेषु वैद्यनाथमन्दिराणि सन्ति । उत्तरप्रदेशे हिमालयस्य उपत्यकायां “कुमाउ”विभागे अपि “वैजनाथ”इत्यत्र किञ्चन शिवमन्दिरम् अस्ति । पञ्जाबराज्यस्य काङ्गडमण्डले ४००० पादमितोन्नतस्य पर्वतस्य उपरि अपि किञ्चित् शिवमन्दिरम् अस्ति । एतत्सर्वम् अपि वैद्यनाथज्योतिर्लिङ्गम् इत्येव उच्यते ।



"https://sa.wikipedia.org/w/index.php?title=वैद्यनाथः&oldid=434385" इत्यस्माद् प्रतिप्राप्तम्