शब्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
SennMicrophone.jpg

जनाः जीवाः, जन्तवश्च यदा किमपि कार्यं कुर्वन्ति, किमपि अभिव्यक्तिं कुर्वन्ति, तदा तैः काचन क्रिया क्रियते, तया क्रियया वायुमण्डले काचन विकृतिः आगच्छति । वायुमण्डले (दबाब)बलम् आपतति । तेन वायुतरङ्गानामुत्पत्तिः जायते । अर्थात् यदा जीवैः काचन क्रिया क्रियते तदा तस्याः क्रियायाः वायुमण्डले प्रतिक्रिया- स्वरूपं किञ्चन कम्पनमुत्पद्यते । तदेव कम्पनं ध्वनिः इति कथ्यते । यद्यपि अस्माकं संस्कृतसाहित्ये ध्वनिरिति शब्दस्य व्यापकं वर्णनं कृतं वर्तते, विविधरूपेण ध्वनिशब्दस्यार्थोऽपि प्रतिपादितः वर्तते । परमत्र ध्वनिशब्दस्यार्थः भवति सामान्या ध्वनिः । अर्थात् यः श्रूयते तदेव ध्वनिः इत्यादयः । अर्थात् ध्वन्यते इति ध्वनिः । भवन्तु ते प्राकृतिकाः, मानवकृताः वा ध्वनयः । अस्योत्पत्तिः सर्वत्र अनायासेनैव भवति । कदाचिदयं विद्युल्लतया जायते, जलेन जायते, पवनेन जायते, वस्तुपतनेन जायते, वात्यया जायते, अद्या जायते, सागरेण वा जायते । मूलतः ध्वनिः कस्याश्चित् सामान्यप्रक्रियायाः परिणामः भवति ।

शब्दशक्तिः[सम्पादयतु]

शब्दतरङ्गाः

विश्वे बहव्यः शक्तयः वर्तन्ते द्युतिशक्ति, विद्युच्छक्ति, शब्दशक्तिः इत्यादयः । एतासु शब्दशक्तिविषये इदानीं किञ्चित् विचारयामः । वस्तुनः कम्पनात् शब्दतरङ्गाः उत्पत्स्यन्ते । एते तरङ्गावयौ प्रसार्य अस्माकं श्रुतिपथमागच्छन्ति । अत एव पुरातनाः “श्रोत्रग्राह्यो गुणः शब्दः” इति कथयन्ति स्म । शब्दस्य प्रसरणम् एवं भवति :-


ताडनेन वादनेन वा वस्तु कम्पितः भवति । तदा तस्य अङ्गं विश्रान्तस्थितितः दक्षिणपार्श्वं प्रथमतः गच्छति इति भावयामः । अनेन समीपस्था वायुकणाः संपर्कम् अनुभवन्ति, गात्रसंकोचनं च । चित्रे “c“ इति प्रदर्शिताः भागाः सङ्कुचितभागाः। यदा कम्पितवस्तुनः अङ्गं वामभागं गच्छति तदा वायो अवकाशः वर्धते । तदा वायुगुणाः दूरं गत्वा विरलतं यत्र वायुसंमर्दं अल्पं वर्तते। वस्तुतः पुनः पुनः कम्पनेन वायौ क्रमशः संकोचं-विरलयोः रूपम् आविर्भवति, पुरतः चलति च, एवं शब्दः सर्वासु दिक्षु प्रसरति । अनेन एतत् स्पष्टं भवति यत् शब्दप्रसरणाय वायुरिव कस्यचन मध्यवर्तिनः आवश्यकता अस्ति । द्युतितरङ्गशब्दयोः अयमेव व्यत्यासः । द्युतितरङ्गाः शून्यकोशो अपि प्रसरन्ति । किन्तु शब्दः मध्यवर्तिना विना न गन्तुं शक्तः । अत एव शून्र्यात् प्रकाशः आगच्छति न शब्दः । अस्य विशदीकरणार्थं प्रयोगमेकं कुर्मः-

पारदर्शकभाजनमेकं स्वीकरोतु । तस्मिन् विद्युद्घण्डां निक्षिपतु । तस्यै विद्युत्पूरणेन घण्टा शब्दं कर्तुमारभते । घण्टाशब्दं सर्वत्र च प्रसरति । भजनेन सह वायुरेचकयन्त्रस्य संपर्कं कल्पयतु । यदा यन्त्रं कार्यम् आरभ्यते तदा भाजने वायोः प्रमाणं कतिमानं प्राप्नोति । यथा यथा वायुः क्षीयते तथा त्तथा शब्दः अपि लघु भवति । यदा भाजने वायुः शून्यं भवति, तदा विद्युद्घण्डायाः ताडनं दृश्यते, किन्तु तस्य शब्दः बहिः नागच्छति । अतः शून्ये आकाशे शब्दः न प्रसरति। पुरातनाः ’ शब्दगुणकमाकाशम् ’ इति कथयन्ति स्म । किन्तु तत् न सत्यम् ।


द्युतितरङ्ग-शब्दतरङ्गयोः अन्यः व्यत्यासः विधते । द्युतितरङ्गाः वायौ अतिशीघ्रं प्रसरन्ति । तेषां वेगः द्रवे घनवस्तुनि वेगाबाहुल्यं वहति । अनिलेषु वेगः कनिष्ठतमः । अस्यापि परीक्षणं साध्यम् । धूमशकट निलयं गत्वा, शकटस्य आगमशब्दः प्रथमतः मार्गगत अयःश्लाकेषु श्रूयते, तदनन्तरं वायौ । द्युतितरङ्गानामपेक्षया शब्दतरङ्गानां वेगः अत्यल्पः । अस्यापि प्रात्यक्षिकं साध्यम् । वर्षकाले विद्युतः प्रभां प्रथमतः पश्यन्ति जनाः, किञ्चित् कालानन्तरं मेघगर्जनं शृण्वन्ति किल । अनेनैव शब्दः पश्चादागच्छति इति निश्चीयते, शब्दवेगं सरलप्रयोगेन मातुं शक्यते । त्वद्गृहात् तव मित्रस्य गृहं प्रथमतः निखवरतया निर्धारय । उदाहरणार्थं दूरं १.१ किलोमीटर् भवतु। त्वं गृहस्य उपरिभागे स्थित्वा स्फोटकमेकं स्फोटय । यदा तव मित्रं स्फोटकस्य कान्तिं पश्यति, तदा घटियन्त्रं चालयतु । क्षणत्रयानन्तरं ( 3 seconds) सः शब्दं शृणोति चेत्, शब्दः तद्दूरं क्रमितुं एतावान् कालः अवश्यकः इति ज्ञायते । तदा शब्दस्य वेगः १.१ कि . मि /३ सेकेंड् = 1100 मी /3 = 366. 67 मी/से. भवति.।


अस्य प्रयोगस्य विविधवातावरणेषु पुनरावर्तनं करणीयम् । तदा एतत् स्पष्टं भवति यत् शब्दवेगः वातावरणस्य उष्णताम्, आर्द्रतां च अवलम्बते । एताभ्यां सह शब्दस्य तीव्रता कम्पन संख्यामनुसरति । तत्रापि यदि शब्दमूलं श्रोतुः समीप मागच्छति तदा तीव्रता वर्धयन्ति इव दृश्यते । शब्दमूलस्य अपसरणेन तीव्रतायाः ह्रासः अनुभूयते । एषः ’डाप्लर् परिणामः’ इति प्रसिद्धः । एनं परिणाममुपयुज्य वाहनानां वेगं विचारयन्ति, अतिवेगचालकानां शिक्षां दास्यन्ति च । एषः परिणामः द्युतिकिरणेषु अपि संभवति, किन्तु तस्य अतिवेगेन दर्शनं कष्टम् । शब्दस्य प्रतिफलनं चान्यं प्रमुखं लक्षणम् । पुरातनेषु देवालयेषु अस्य उपयोगः कृतः । स्तंभेषु स्वराणामाविर्भावः, अनेकवारं शब्दस्य पुनरावर्तिः इत्यादि रोचकाः अनुभवाः तत्र प्राप्यन्ते । यदि शब्दतरङ्गाः समानरूपेण पुनः पुनः प्रादुर्भवन्ति, तदा मधुरं शब्दं श्रुणुमः । इदमेव सङ्गीतम् । यदि समानरूपिता नास्ति तदा कठोरं भवति । विविधशब्दानां नामानि संस्कृते एवं सन्ति ।

शब्दग्राहकः मनुष्यकर्णः
जन्तवः शब्दाः
सिंहस्य गर्जनम्
वस्त्रपर्णानां मर्मरः
अश्वस्य हेषा
धेनोः विष्फारः
मेघस्य स्तनितम्
शुनकस्य भषणम्
पक्षिणः कूजनम्
भूषणानां शिञ्जितम्
वीणायाः क्वणतिः
गजानां बृंहणम्
डक्कादयः झर्झरः

शब्दस्यापेक्षया प्रकाशः बहुदूरं प्रसरति । शब्दतरङ्गेषु मध्यवर्तितः कणाः तरङ्गप्रसारस्य दिशायामेव कम्पयन्ति । एतादृशेषु तरङ्गेषु शक्तिव्ययः अधिकं वर्तते । अत एव वयं दूरस्य दृश्यं पश्यामः, किन्तु शब्दः न श्रूयते । आकाशवाणिदूरदर्शनादिषु शब्दतरङ्गान् विद्युत्कान्तीयतरङ्गानां साहाय्येन प्रेषयन्ति ।

एवमस्ति शब्दतरङ्गानां सामान्यपरिचयः । शब्दतरङ्गैः विना निर्जीवमिव भासते जगत् । अतः ’शब्दब्रह्म’ इति प्रयोगः वर्तते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शब्दः&oldid=435002" इत्यस्माद् पुनः प्राप्तिः