कपिलः (ऋषिः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
Kapil
Watercolour painting on paper of Kapil, a Vedic sage.
तत्त्वचिन्तनम् Samkhya
सम्मानाः Hindu sources describe him as a descendant of Manu.


परिचयः[सम्पादयतु]

ऋषिः कपिलः सांख्यदर्शनस्य प्रवर्तकः अस्ति । भागवतपुराणे यत्र सांख्यदर्शनं वर्णितमस्ति तत्र अस्य प्रमुखं पात्रं दृश्यते । प्राचीनहिन्दुपरम्परायाम् अयं मनोः पुत्रः ब्रह्मणः पौत्रः इति उल्लिखितमस्ति । कपिलः परमसिद्धपुरुषः आसीत् इति भगवद्गीतायाम् उल्लिखितमस्ति । तस्य वंशजाः अधुना पञ्जाबराज्ये दृश्यन्ते । तेषाम् उपनाम 'कपिल'/'कपिल्' इति वा वर्तते ।
भागवतपुराणस्य तृतीयोध्याये अस्य विषये विवरणं लभ्यते । तस्य पिता कर्दममुनिः माता देवाहुतिश्च । कपिलः मातरं योगदर्शनं बोधितवान् । विष्णोः आराधनद्वारा मोक्षमार्गं मात्रे अदर्शयत् सः ।

गङ्गायाः उगमः[सम्पादयतु]

स्वर्गतः गङ्गायाः आनयने कपिलमुनिः प्रमुखं पात्रम् आवहति । रामस्य वंशीयः राजा सगरः ९९ वारम् अश्वमेधयागं कृतवान् आसीत् । शते अश्वमेधयागावसरे देवराजः इन्द्रः असूयया अश्वम् अपहृत्य कपिलस्य आश्रमे तं गोपितवान् । अश्वम् अन्विष्य आगताः सगरस्य ६०,००० पुत्राः अश्वं कपिलमुनेः आश्रमे अपश्यन् । कपिलः एव अपहृतवान् इति मत्त्वा तदुपरि आक्रमणम् अकुर्वन् । ततः क्रुद्धः कपिलः तान् भस्मसात् अकरोत् । एतस्मात् परमदुःखितः सगरस्य पौत्रः अंशुमान् सगरस्य पुत्राणां जीवदानाय प्रार्थयत् । कपिलः अवदत् - 'गङ्गा यदि आगत्य इदं भस्म स्पृशति तर्हि ते पुनरुज्जीविताः भवन्ति' इति । अग्रे राजा भगीरथः स्वस्य महत्तपसा गङ्गां स्वर्गाद् आनीतवान् । तेन सगरस्य पुत्राः उज्जीविताः जाताः ।

बोधनम्[सम्पादयतु]

कपिलस्य सांख्यदर्शनं महाभारते भागवतपुराणे च बहुधा उल्लिखितमस्ति । सांख्ययोगः आत्मदर्शनमार्गं बोधयति । कपिलस्य सांख्ययोगं कृष्णः उद्धवाय अबोधयत् । इदम् 'उद्धवगीतम्' इति नाम्ना भागवतपुराणे उपलभ्यते ।

भगवद्गीतायां कृष्ण वदति -

अश्वत्थः सर्ववृक्षाणां देवर्षीणाञ्च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ (१०.२६)
गङ्गासागरे कपिलमुनिआश्रमः

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कपिलः_(ऋषिः)&oldid=424512" इत्यस्माद् पुनः प्राप्तिः