आगमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सगुणोपासनस्य निर्गुणोपासनस्य च क्रमं यत् शास्त्रं बोधयति तच्च शास्त्रम् आगमः इति कथ्यते । आ समन्ताद्गमयति ।

आसमन्ताद्गमयति धर्माधर्मौ प्रंपदम् । आगमस्तेन कथित इति वेदविदो विदुः ।

तन्त्रसारे एवं कथितमस्ति - :आगमोक्तविधानेन कलौ देवान् यजेत् सुधीः । न हि देवाः प्रसीदन्ति कलौ चान्यविधानतः ।
तत्त्वं मन्त्रार्थं च इदं शास्त्रं बोधयति इत्यनेन तन्त्रम् इत्यपि निर्दिश्यते इदं शास्त्रम् ।

भेदाः[सम्पादयतु]

उपासनाविधानं, साधनामार्गः, आचारविचाराः, उपास्यदेवताः इत्यादयः भिद्यन्ते इत्यतः विविधाः आगमाः उपलभ्यन्ते ।

शैवागमः[सम्पादयतु]

अस्मिन् परशिवः एव उपास्यदेवता । अस्मिन् चत्वारः सम्प्रदायाः विद्यन्ते । ते -

  1. शैवसम्प्रदायः
  2. सोमसम्प्रदायः
  3. लाकुळसम्प्रदायः
  4. पाशुपतसम्प्रदायः

अयं वरुणपद्धतिः, महेन्द्रपद्धतिः, ईशानशिवगुरुदेवपद्धतिः, सोमशम्भुपद्धतिः इत्यादिभिः अष्टादश पद्धतिभिः युक्ता अस्ति । अयं परमेश्वरस्य सद्योजात-वामदेव-अघोर-तत्पुरुष-ईशानादिभिः पञ्चमुखैः उपदिष्टमस्ति । कामिकादि वातुळान्त अष्टाविंशतिसंहितारूपः अस्ति । एतेषु १० संहिताः सदाशिवेन दशशिः बोधिताः । अयं शैवागमः इति प्रसिद्धः अस्ति । अन्ये अष्टादश संहिताः अष्टादशरुद्राय उपदिष्टम् इत्यतः रौद्रागमः इति प्रसिद्धः अस्ति । रौद्रागमस्य प्रमुखसंहितायाः वातुळागमस्य उत्तरभागः वीरशैवसम्प्रदायस्य अनुष्ठानस्य आधारभूतः अस्ति ।

शाक्तागमः[सम्पादयतु]

अस्मिन् परशिवस्य शक्तिः एव उपास्यदेवता । शक्तेः एव प्राधान्यम् इत्यतः देव्यागमः इत्यपि उच्यते । शाक्तग्रन्थाः शाक्ततन्त्राणि इत्यपि निर्दिश्यन्ते । श्रीविद्योपासनादि समस्तमन्त्रशास्त्राणां शाक्ततन्त्रमेव आधारभूतम् ।

वैष्णवागमः[सम्पादयतु]

अस्मिन् भेदद्वयम् - १ पाञ्चरात्रागमः २ वैखानसागमः चेति ।

पाञ्चरात्रागमः[सम्पादयतु]

भगवता पञ्च देवताः उद्दिश्य पञ्चसु रात्रिषु अयम् आगमः बोधितः इत्यतः पाञ्चरात्रागमः इति प्रसिद्धः जातः । अनन्तः, गरुडः, विष्वक्सेनः, ब्रह्म, इन्द्रश्च भगवता बोधिताः । अत्र विष्णुः एव आराध्यदेवः । इदं भगवच्छास्त्रम् इत्यपि कथ्यते । अस्मिन् दिव्यसिद्धान्तः, आगमसिद्धान्तः, तन्त्रसिद्धान्तः, तन्त्रान्तरसिद्धान्त च इति चत्वारः भेदाः वर्तन्ते । अयम् आगमः ज्ञान-योग-क्रिया-चर्यापादैः युक्तः अस्ति । श्रीमदानन्दतीर्थाचार्यः पाद्मसंहितां सङ्गृह्य माध्वसम्प्रदाययुतेषु देवालयेषु पूजार्थम् आनुकूल्यं यथा स्यात् तथा योजितवान् अस्ति । पाञ्चरात्रागमस्य सः भागः तन्त्रसारागमः इति प्रसिद्धः अस्ति ।

वैखानसागमः[सम्पादयतु]

लोकोद्धाराय परमात्मनः अंशात् अवतारं प्राप्तवता श्रीविखनसमहर्षिणा भृगु-अत्रि -मरीचि-कश्यपाः उपदिष्टाः । अयम् आगमः संहितारूपेण तेन उपदिष्टम् । अस्मिन् चत्वारः भागाः सन्ति -

संहिता - मरीचिमहर्षिणा प्रोक्ताः जय-आनन्द-संज्ञान-वीर-विजयादयः अष्ट आगमाः संहिता इति निर्दिश्यन्ते ।
अधिकरणम् - भृगुमहर्षिणा प्रोक्ताः खिल-खिलाधिकार-पुराधिकार-वासाधिकार-अर्चाधिकारादयः दश भागाः अधिकरणम् इति निर्दिश्यन्ते ।
तन्त्रम् - अत्रिमहर्षिणा प्रोक्ताः पूर्वतन्त्र-विष्णुतन्त्र-उत्तरतन्त्र-महातन्त्रनामकाः चत्वारः भागाः तन्त्रम् इति निर्दिश्यन्ते ।
काण्डम् - कश्यपमहर्षिणा प्रोक्ताः सत्यकाण्ड-धर्मकाण्ड-ज्ञानकाण्डनामकाः त्रयः भागाः काण्डम् इति निर्दिश्यन्ते ।

जैनागमः[सम्पादयतु]

द्वादशाङ्गात्मकस्य जैनागमस्य स्वरूपम् एवं वर्तते - सर्वज्ञैः तीर्थङ्करैः समवसरणसभायां गणधरादीन् श्रेष्ठान् उद्दिश्य कृतं बोधनम् एव जैनागमः, जैनसिद्धान्तः, द्वादशाङ्गश्रुतः इत्यादिभिः नामभिः निर्दिश्यते । अयं जैनागमः सर्वज्ञैः तीर्थङ्करैः अनादिकालतः अनन्तकालपर्यन्तम् उपदिश्यमानमेव भवति इत्यतः अयं सादिः अनादिः इत्यपि कथ्यते । जैनागमः द्विविधं वर्तते - अङ्गबाह्यम् अङ्गप्रविष्टम् इति ।
अङ्गप्रविष्टम् द्वादशभिः अङ्गैः युक्तं वर्तते । ते - आचाराङ्ग, सूत्रकृताङ्ग, स्थानाङ्ग, समवायाङ्ग, व्याख्याप्रज्ञप्ति, ज्ञातृकथा, उपासकाध्ययन, अनुत्तरोपपादिक, अन्तकृद्दशाङ्ग, प्रश्नव्याकरण, विपाकसूत्र, दृष्टिवाददशाङ्गेति च । उपासकाध्ययनाङ्गे देवप्रतिष्ठा, पूजाक्रमः श्रावकाचारः, यत्याचारः च प्रतिपादिताः सन्ति । जैनागमे त्रयः आराध्यदेवताः - देवः, गुरुः, शास्त्रञ्च

देवः[सम्पादयतु]

अर्हन्ताः सिद्धाः च । अर्हन्तेषु भूतभविष्यद्वर्तमानस्य ७२ तीर्थङ्कराः, पञ्चविदेहेषु वर्तमानाः सीमन्धर-युगमन्धरादि २० तीर्थङ्कराः च अन्तर्भवन्ति ।

गुरवः[सम्पादयतु]

चतुरशीतिलक्षगुणसम्पन्नाः गणधर आचार्यपरमेष्ठीवर्याः, द्वादशाङ्गपाठकाः उपाध्यायपरमेष्ठिवर्याः, ज्ञानध्यानतपोरक्ताः सर्वसाधुपरमेष्ठिवर्याः च ।

शास्त्रम्[सम्पादयतु]

जिनमुखोद्भूत-स्याद्वादनयगर्भित-द्वादशाङ्गरूपा जिनभारतिप्रतिष्ठा पूजाक्रमाः च अधः लिखितेषु ग्रन्थेषु बोधिताः सन्ति -

  1. अकलङ्कस्वामिरचिता अकलङ्कसंहिता
  2. नेमिचन्द्रविरचितं प्रतिष्ठातिलकम्
  3. आशाधरिसूरिविरचितं प्रतिष्ठातिलकम्
  4. वसुनन्द्याचार्यविरचिता संहिता
  5. ब्रह्मसूरिविरचिता संहिता
  6. भगवज्जिनसेनाचार्यविरचितम् आदिपुराणम्
"https://sa.wikipedia.org/w/index.php?title=आगमः&oldid=403857" इत्यस्माद् पुनः प्राप्तिः