बृहद्देवता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

बृहद्देवता अनुक्रमणी-ग्रन्थेषु मुख्यग्रन्थः मन्यते। ग्रन्थोऽयं शौनकेन रचितः। अस्य ग्रन्थरत्नस्य आलोके ऋग्वेदीयदेवतानां रहस्यं स्पष्टतः आलोकितं भवति। द्वादशशतेषु पद्येषु निर्मितोऽयं ग्रन्थः ऋग्वेदीयदेवतानां विषये प्रामाणिकः, प्राचीनस्तथा पर्याप्तरूपेण विस्तृतोऽप्यस्ति । ग्रन्थोऽयम् अष्टाध्यायेषु विभक्तोऽस्ति । प्रत्येकस्मिन्नध्याये प्रायः पञ्चपद्यानामेकः वर्गो भवति, किञ्चास्य विभाजनस्य सम्बन्धः ऋग्वेदस्य अष्टकेन सह कथमपि भवितुं न शक्यते। वर्गाणां विभाजनमपि पूर्णतः अव्यावहारिकं, यथेच्छकल्पितं चास्ति । अतो यदा कदा आख्यानस्य मध्ये एव कोऽपि वर्गः समाप्तो भवति ।


विषयवस्तु[सम्पादयतु]

बृहद्देवतायाः प्रथमाध्यायस्य द्वितीयाध्यायस्य च आदिमपञ्चदशवर्गाः (१२५ श्लोकाः) ग्रन्थस्य उपादेयभूमिकारूपेण सन्ति । अत्र देवतायाः स्वरूपस्य, स्थानस्य, वैलक्षण्यस्य च विवरणं विस्तरेण प्रदत्तमस्ति । भूमिकायाः अन्तिमानां सप्तवर्गाणां सम्बन्धः व्याकरणेन सहास्ति । निरुक्तेन सम्बद्धविषयाणां निपात-अव्यय-सर्वनाम-संज्ञा-समासादीनां वर्णनं यथेष्टरूपेण लभते। शब्दविभाजने यास्कस्य अपि अशुद्धीनामालोचना वर्त्तते । द्वितीयाध्यायस्य षड्विंशतितमाध्यायाद् आरभ्य अन्तपर्यन्तं ग्रन्थोऽयम् ऋग्वेदस्य प्रत्येकं सूत्राय देवतानां निर्देशं क्रमशः करोति । नास्तीयं शुष्कसूची देवतायाः, अत्र सूक्तानां विषये समुपलब्धानाम् आख्यानानामपि निर्देशः सुष्टुतया प्रतिपादितोऽस्ति । अस्मिन् कार्ये अस्य ग्रन्थस्य प्रायश्चतुर्थांशो व्ययोऽभवत् । एतानि आख्यानानि बृहद्दवतायाः प्राणाः सन्ति । 

महत्त्वम्[सम्पादयतु]

काव्यशैल्यां निबद्धानि एतानि आख्यानानि ऐतिहासिकरीत्या महाभारते निर्दिष्टैः आख्यानैः सह सम्पर्कं स्थापयन्ति । अनया दृष्ट्या ‘बृहद्देवता' कथासाहित्यस्य आदिमो ग्रन्थो मन्यते। द्याद्विवेदस्य 'नीतिमञ्जरी' बृहद्देवताया एवानुशीलनस्य परिणतफलमस्ति । सर्वानुक्रमणीग्रन्थे कात्यायनः, वेदभाष्ये सायणश्च एतान्याख्यानानि अत्रत एव उद्धृतवन्तौ। अनेन प्रकारेण आख्यानानां प्राचीनतमसङ्ग्रहत्वेनापि 'बृहद्देवता'-साहित्यस्य सार्वभौमदृष्ट्यापि महत्ता अस्ति।

यास्कस्य निरुक्तं, कात्यायनस्य च सर्वानुक्रमणीग्रन्थयोः मध्यकालवर्त्ती ग्रन्थोऽयं महत्त्वपूर्णोऽस्ति । शौनकेनात्र निरुक्तस्य न केवलं देवताविषयककल्पना एव अङ्गीकृता, प्रत्युत तेषामनेकानि वाक्यान्यप्युद्धृतानि । कात्यायनेनाऽपि बृहद्देवतायाः समुपयोगः स्वरचनायां सर्वानुक्रमण्यां बहुशः कृतः । सूत्ररूपे सत्यपि सर्वानुक्रमण्यां बृहद्देवतायाः प्रायः त्रिंशत् श्लोकाः यथावद् अल्पपरिवर्तनेन सह स्वीकृताः, उद्धृताश्च सन्ति। अपाणिनीयपदानां बहुलतया प्रयोगेण सर्वानुक्रमणीकारः कात्यायनो वार्त्तिककाराद् वैयाकरणकात्यायनात् सर्वथा भिन्नः एवाऽऽसीत् । अनेन प्रणीतस्य बृहद्देवतायाः उद्धरणानि तेन स्वग्रन्थे दत्तानि, अतः बृहद्देवता पूर्वपाणिनीययुगस्य कृतित्वेन वि० पू० अष्टमशतकोतरभागे अवर्ततेति मन्यते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बृहद्देवता&oldid=434360" इत्यस्माद् पुनः प्राप्तिः