कुष्ठरोगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुष्ठरोगः
Classification and external resources
नार्वेदेशस्य २४ वर्षीयः कुष्टरोगी, १८८६
ICD-10 A30
ICD-9 030
OMIM २४६३००
DiseasesDB ८४७८
MedlinePlus ००१३४७
eMedicine med/१२८१ derm/223 neuro/187
MeSH D007918

कुष्ठरोगः रोगेषु अन्यतमः भवति । अयं दीर्घकालिकः रोगःमैकोब्याक्टीरियं लेप्रेयि-जीवाणुभिः, मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । चर्मरोगः अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचाराः यदि न क्रियन्ते तर्हि क्रमेण चर्म, नाडिः, चक्षुः, पादः इत्येतेषाम् अङ्गानां हानिः सम्भवति ।

इतिहासः[सम्पादयतु]

एतेन रोगेण आ चतुस्सहस्रवर्षेभ्यः मनुकु्लः पीड्यमानः अस्ति । अस्य कुष्टरोगस्य विषये प्राचीन चिनादेशस्य, ईजिप्तदेशस्य, भारतदेशस्य च सभ्यतासु स्पष्टतया निरूपितं दृश्यते । जेरुसलें-प्रदेशस्य समीपे विद्यमाने नगरे भूमौ स्थापितशवस्य परीक्षणेन ज्ञातं यत् कुष्ठरोगः तदा अपि आसीत् इति । १९९५ तमे संवत्सरे २ तः ३ लक्षाधिकजनाः कुष्ठरोगेण विकलाङ्गाः सञ्जाताः इति विश्वारोग्यसंस्थया पट्टिका कृता अस्ति । इदानीन्तनेषु विंशतिवर्षेषु पञ्जदशाधिकरोगिणां कृते दत्ता चिकित्सा सफला ।

कारणम्[सम्पादयतु]

मैकोब्याक्टीरिया लेप्रेयि-जीवाणुः, मैकोब्याक्टीरिया लेप्रोमाटोसिस्-जीवाणुः च कुष्ठरोगस्य मूलकारणीभूतौ । लेप्रोमाटोस्-जीवाणुः कुष्ठरोगस्य मृत्योः च कारणीभूतः ।

चिकित्सा[सम्पादयतु]

१९४० वर्षात् पूर्वम् अस्य रोगस्य औषधं न आसीत् । १९४३ तमे संवत्सरे ’गय् हेन्रि फगेट्’इत्येषः अस्य रोगस्य प्रामिन्-नामकम् परिणामकारिणम् औषधं संशोधितवान् । समनन्तरं ड्याप्सोन्-नामकम् औषधम् प्रसिद्धं जातम् । १९६०, १९७० च तमे संवत्सरे ड्याप्सोन् अपेक्षया अधिकरोगनिरोधकशक्तियुक्ते औषधे क्लोफाजिमैन् रिफाम्पिसिन् च शोधिते । गच्छताकाले भारतीयः वैज्ञानिकः शान्तारां यावल्करः जीवाणूनां प्रतिरोधस्य उपशमनार्थं रिफाम्पिस् ,ड्याप्सोन् चिकित्सायाः च संयुक्तचिकित्सां सूत्रीकृतवान् । विश्वारोग्यसंस्थायाः तज्ज्ञसमित्या १९८१ तमे संवत्सरे सूचितं यत् बहुविधचिकित्सां दातुं शक्यते इति । उपरि उक्तानि (त्रीणि) औषाधानि अपि दातुं शक्यानि इति प्रप्रथमतया एतया समित्या उद्घोषितम् । एतानि औषधानि प्रमाणबद्धपथ्यव्यवस्थायाम् (MDT) उपयुज्यमानानि सन्ति । एतेषु एकैकस्य उपयोगकरणे निषेधः कृतः अस्ति यतः प्रतिरोधाधिक्यम् अधिकं करोति इति । औषधस्य मौल्यम् अधिकम् इत्यतः केषु्चित् देशेषु औषधानाम् अङ्गीकरणं न जातम् । १९८५ तमे संवत्सरे १२२ देशेषु कुष्ठरोगः सार्वजनिकारोग्यसमस्या इति परिगणितम् । १९९१ तमे संवत्सरे जिनिवादेशे प्रचालिते ४४ तमायां विश्वारोग्यपरिषदि कुष्ठरोगः सार्वजनिकारोग्यसमस्या इति परिगणितम् । २००० तमसंवत्सराभ्यन्तरे अस्य रोगस्य निर्मूलनं क्रियेत इति निर्णयः अपि कृतः अस्यां परिषदि । विश्वारोग्यसंस्थायाः सभायां सदस्यराष्ट्रेषु कुष्टरोगः कथं वारणीयः इति चर्चितः । अस्यां सभायां न्यूनधनेन यथा औषधानि लभ्येरन् तथा व्यवस्था कल्पनीया इत्यपि चर्चितम् आसीत् ।

अपायः[सम्पादयतु]

मलिनशय्या, कलुषितं जलम्, पौष्ठिकांशरहितः आहारः, रोगव्यापृतेषु प्रदेशेषु वासादयाः अपायकराः भवन्ति । संशोधनेन ज्ञातम् अस्ति यत् अणुसाधिते प्रतिरोधे लोपः अस्ति इति हेतोः रोगत्पत्तिः सम्भविष्यति इति । महिलनाम् अपेक्षया अधिकप्रमाणेन पुरुषाः एव रोगग्रस्ताः भवन्ति इति संशोधनेन ज्ञातम् । केनडादेशस्य लेप्रेसिमिषन् संस्थायाः चिन्तनानुसारं सम्पूर्णजनसंख्यायां ९५ प्रतिशतजनेषु नैसर्गिकप्रतिरोधशक्तिः विद्यते ।

जागतिकपरिस्थितिः[सम्पादयतु]

प्रदेशः पञ्जीकृतं रोगप्रसारस्य प्रमाणम्
(प्रमाणम्/१०,००० जनसंख्या)
नूतनरुग्णानां संख्या
२००० आरम्भः २००१ २००२ २००३ २००४ २००५
४०,८३० (०.५६) ३९,६१२ ४८,२४८ ४७,००६ ४६,९१८ ४२,८१४
अमेरिका ३२,९०४ (०.३९) ४२,८३० ३९,९३९ ५२,४३५ ५२,६६२ ४१,७८०
आग्नेय-एष्या १३३,४२२ (०.८१) ६६८,६५८ ५२०,६३२ ४०५,१४७ २९८,६०३ २०१,६३५
पूर्व-मेडिटरेनियन् ४,०२४ (०.०९) ४,७५८ ४,६६५ ३,९४० ३,३९२ ३,१३३
पश्चिम-पेसिफिक् ८,६४६ (०.०५) ७,४०४ ७,१५४ ६,१९० ६,२१६ ७,१३७
योगः २१९,८२६ ७६३,२६२ ६२०,६३८ ५१४,७१८ ४०७,७९१ २९६,४९९


: रोगप्रसारणप्रमाणम् रुग्णानां संख्या च, एतेषु राष्ट्रेषु कुष्टरोगस्य समूलनाशः नजातः
राष्ट्राः पञ्जीकृतं रोगप्रसारस्य प्रमाणम्
(प्रमाणम्/१०,००० जनसंख्या)
नूतनरुग्णानां संख्या
(प्रमाणम्/१०,००० जनसंख्या)
२००४ तमवर्षस्य आरम्भे २००५ तमवर्षस्य आरम्भे २००६ तमवर्षस्य आरम्भे २००३ तमे वर्षे २००४ तमे वर्षे २००५ तमे वर्षे
फलकम्:BRA ७९,९०८ (४.६) ३०,६९३ (१.७) २७,३१३ (१.५) ४९,२०६ (२८.६) ४९,३८४ (२६.९) ३८,४१० (२०.६)
फलकम्:MOZ ६,८१० (३.४) ४,६९२ (२.४) ४,८८९ (२.५) ५,९०७ (२९.४) ४,२६६ (२२.०) ५,३७१ (२७.१)
फलकम्:NPL ७,५४९ (३.१) ४,६९९ (१.८) ४,९२१ (१.८) ८,०४६ (३२.९) ६,९५८ (२६.२) ६,१५० (२२.७)
फलकम्:TZA ५,४२० (१.६) ४,७७७ (१.३) ४,१९० (१.१) ५,२७९ (१५.४) ५,१९० (१३.८) ४,२३७ (११.१)
योगः एन् ए एन् ए एन् ए एन् ए एन् ए एन् ए

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुष्ठरोगः&oldid=480149" इत्यस्माद् प्रतिप्राप्तम्