सूर्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सूर्य इत्यस्मात् पुनर्निर्दिष्टम्)
आधुनिकविज्ञानासनुसारं सूर्यस्य रचना

सूर्यः (चिह्न: ☉) किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेः विस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।


रविमार्गः[सम्पादयतु]

विश्वगोले रविमार्गः इत्येषः किञ्चन बृहद्-वृत्तम्। भूकेन्द्रसिद्धान्तानुगुणं भूमिः विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः भूमिं परितः भ्रमन्ति । रविः अपि भूमिं परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) रविमार्गः इति कथ्यते । अत्रैव सायनराशिचक्रनिरयणराशिचक्रौ कल्प्येते|अतिन्युनदिनमानदिवसात् सायनराशिचक्रान्तर्गत मकरराशौ सूर्यः चंक्रमते | अस्मिन्नेव दिने सायनमकरे अर्क इति लिखन्ति पञ्चांगकाराः |सौरवर्षे रविमार्गे कल्पिते राशिचक्रे मकरमासादयः द्वादशाः भवन्ति | सायनमकरमासारम्भदिनात् सन्निकटात् पूर्ववर्तिशुक्लपक्षारम्भदिनात् अमान्तो चान्द्रोमासः वेदांगज्योतिषविद्भिः मन्यन्ते | अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम्। भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः रविमार्गस्य वक्रता इति निर्दिश्यते। इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सूर्यः&oldid=484529" इत्यस्माद् प्रतिप्राप्तम्