ज्योतिषम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(ज्योतिश्शास्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

ज्योतिषं वेदस्य नैजं ज्यौतिषायत्तमतं ज्यौतिष् ज्योतिषशास्त्रस्य वेदाङ्गत्वं स्वीकृतम् । अयमर्थः उक्तः अार्चज्योतिषे, यथा —

'वेदा हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्वा विहिताश्च यज्ञाः॥

तस्मादिदं कालविधानशास्त्रं यो ज्यौतिषं वेद स वेद यज्ञान्॥'[१]

इतिहासः[सम्पादयतु]

चतुर्णामपि वेदानां पृथक् पृथग् ज्यौतिषशास्त्रमासीत्, तेषु सामवेदस्य ज्यौतिषशास्त्रं नोपलभ्यते, त्रयाणामितरेषां वेदानां ज्यौतिषाण्यवाप्यन्ते ।

(१) ऋग्वेदस्य ज्यौतिषम् - आर्चज्यौतिषम्, षट्त्रिंशत्पद्यात्मकम्।

(२) यजुर्वेदस्य ज्यौतिषम् - याजुषज्यौतिषम्, ऊनचत्वारिंशत्पद्यात्मकम् ।

(३) अथर्ववेदस्य ज्यौतिषम् - आथर्वणज्यौतिषम्, द्विषष्टि-उत्तरशतपद्यात्मकम् ।

एतेषां त्रयाणामपि ज्यौतिषाणां प्रणेता लगधो नाम आचार्यः । तत्र याजुषज्यौतिषस्य प्रामाणिकं भाष्यद्वयमपि प्राप्यते। प्रप्रथमं तु सोमाकरविरचितं प्राचीनं, द्वितीयं सुधाकरद्विवेदीकृतं नवीनम् । एतस्य ज्यौतिषशास्त्रस्य त्रीणि वर्त्मानि, तदिदं शास्त्रं त्रिस्कन्धमुच्यते । तदुक्तम् —

'सिद्धान्तसंहिताहोरारूपं स्कन्धत्रयात्मकम्।

वेदस्य निर्मलं चक्षुज्योतिश्शास्त्रमनुत्तमम्॥'

लगध-प्रणीतस्य वेदाङ्गज्यौतिषग्रन्थस्य श्लोकानां रहस्यं किम् इत्येतद् वस्तुतो विद्वद्धौरेयाणामपि दुर्गमम् । ग्रन्थस्यास्य अवतीर्णस्य ३४०० वर्षाणि व्यतीतानीति शङ्करबालदीक्षितस्य मतम्। लोकमान्यतिलक-सुधाकरद्विवेदि-डॉ० थीवो-प्रभृतयो विद्वांसो ग्रन्थस्यास्य श्लोकान् व्याख्यातुं प्रायतन्त । भारतीयस्य ज्यौतिषशास्त्रस्य ग्रन्थ एष आद्यः। मन्यते यत्, न ततः प्राक् ज्यौतिषि क्वापि काचित् कृतिलिखिता प्राप्यते इति।

'हिस्ट्री आफ संस्कृत लिटरेचर' इत्येतन्नामके ग्रन्थे प्रो० मैक्समूलरः कथयति यद्, अङ्कशास्त्रज्ञानार्जनं यूरोपीयाः भारतीयेभ्यः कृतवन्तः, तस्मात् ते तेषां सन्त्यधर्मणाः । अन्यैश्च बहुभिः मनियरविलियम-प्रभृतिभिरिदं स्पष्टमेवाभिहितं यत्, प्रतीच्यदेशीया भारतीयेभ्यो गणितविद्यामगृह्णन्। 

वेवर-महाभागो ज्यौतिःशास्त्रस्य प्राचीनतामधिकृत्य ब्रूते -

'शास्त्रमिदं भारतवर्षे, यदा ईसामसीहस्य जातस्य २७८० वर्षाणि व्यतीतान्यभूवंस्तदानीमपि प्रचलितमवाप्यत॥'

काउण्टजोर्णन्स्जानी-महोदयः स्वकीये 'थियोगोनी आफ दि हिन्दूज' इत्येतन्नामधेये ग्रन्थे लिखति यत्, कलियुगस्य आरम्भादेव भारतवर्षे ज्यौतिःशास्त्रस्यासीत् प्रसारः । सरहण्टर-महोदयः 'इण्डियन-गजेटियर'-मध्ये — 'अनेकेषु विषयेषु भारतीयानां ज्यौतिःशास्त्रं यवनप्रणीताज्ज्योतिःशास्त्रादुन्नततरमदृश्यत' इत्येतदुल्लिखति। कोलबूको नाम विद्वान् 'एलिफिस्टोन्स हिस्ट्री आफ इण्डिया, ग्रन्थे - 'अयनगतिमुद्दिश्य पृथिव्याः स्वपरिधौ दैनिकश्चावर्त्तनमधिकृत्य भारतीयैः यद्गणितं तदरबदेशीयगणनाशास्त्रादुच्चतरम्' इति वदति । विलसन अपि कथयति - भारतीयैः विद्वद्भिः ज्योतिर्विद्यायाम् अलौकिकी उन्नतिः कृता । भारतीयविदुषा शङ्करबालकृष्णदीक्षितेन सप्रमाणं सिद्धं कृतं यद् अस्य वेदाङ्गज्यौतिषशास्त्रस्य ई० पू० १४०० वर्षात् प्रागेवाभवत् । सुदूरात प्राचीनकालात् सम्बद्धत्वेनेदं शास्त्रमतिदुरूहं दुर्बोध्यं च अभवत् ।

आवश्यकता[सम्पादयतु]

यज्ञभागाः सन्ति बहुविधाः । केचन यज्ञा एवंविधा विधाने नीता ये संवत्सरसम्बन्धिनः सन्ति । केचन एतादृशाः सन्ति ये क्रतुसम्बन्धिनो वर्तन्ते । केचन च तिथि-मास-पक्ष-नक्षत्र-परकाः सन्ति । भावोऽयं देवेषु यज्ञभागादीनां विधानं भिन्न-भिन्नकालेषु कृतमवाप्यते । तैत्तिरीयब्राह्मणे उल्लिखितम् —

'वसन्ते ब्राह्मणोऽग्निमादधीत, ग्रीष्मे राजन्य अादधीत। शरदि वैश्य अादधीत'।[२]

अष्टकायां फाल्गुन्यां पूर्णमासे च दीक्षायाः विधानं विदवत् ताण्डयब्राह्मणं दीक्षितं भवति -'एकाष्टकायां दीक्षेरन् फाल्गुनीपूर्णमासे दीक्षेरन्[३] प्रातः सायञ्च अग्नौ दुग्धाज्येन हवनस्य विधानमस्ति - 'प्रातर्जुहोति, सायं जुहोति'[४] यज्ञस्य साफल्यं न केवलम् उचितविधानेऽस्ति प्रत्युत उचितसमयस्य नक्षत्रस्य अपि आवश्यकता वर्त्तते । असुराणां परिभाषां निर्दिशन्त्याः श्रुतेर्वचनम् -

'ते असुरा अयज्ञा अदक्षिणा अनक्षत्राः ॥

यञ्च किञ्चाकुर्वत तां कृत्यामेवाकुर्वत॥'

एतदविधायाः वेदाज्ञायाः पालनं ज्यौतिषशास्त्रज्ञाने सत्येव यथायर्थं भवितुमर्हति ।

यज्ञविधानाय ज्यौतिषशास्त्रस्य आवश्यकता भास्कराचार्येण अपि स्वीकृता –

'वेदास्तावत् यज्ञकर्मप्रवृत्ता यज्ञाः प्रोक्तास्ते तु कालाश्रयेण॥

शास्त्रादस्मात् कालबोधो यतः स्यात् वेदाङ्गत्वं ज्यौतिषस्योत्तमस्मात्॥'[५]

वेदाङ्गज्यौतिषस्य सम्मत्यां ज्यौतिषसमयो वेदाङ्गेषु मूर्धस्थानीयोऽस्ति -

'यथा शिखामयूराणां नागानां मणयो यथा।

तद्वद् वेदाङ्गशास्त्राणां गणितं मूर्धनि स्थितम् ॥'[६]

गच्छता कालेन शास्त्रमिदं संहितागणितजातकाख्येषु त्रिषु भागेषु आत्मानं प्रकटीचकार । आर्यभट्ट-वराहमिहिर-ब्रह्मगुप्त-भास्कराचार्य-प्रभृतयः विश्वविदिताः ज्योतिविदः अद्भुतान् सिद्धान्तान् अवतार्य शास्त्रमिदम् अभिनवेन रूपेण विभूषयाञ्चक्रुः । शास्त्रमिदं त्रिकालवर्त्तिनीम् अपि स्थितिं करतल-आमलकवत् करोति । एतेन परोक्षं भाविकालस्थितञ्च वस्तु प्रत्यक्षं जायते । ज्योतिर्महिम्नि उक्तम् —

'वेदस्य निर्मलं चक्षुः ज्योतिःशास्त्रमकल्मषम्।

विनेतदखिलं श्रौतं स्मातं कर्म न सिद्ध्यति।।'

सर्वाण्यपि दर्शनानि, सकलानि शास्त्राणि, सर्वाश्चपनिषदो येषां हि परमरहस्यभूतानां वेदानां सौन्दर्यसुधां सततमहर्निशं पिबन्त्योऽपि न तृप्यन्ति, तेषां वेदाननुशीलयितुं शाकल्य-आत्रेय-गार्ग्य-स्कन्दस्वामि-माधवभट्ट-नारायण-उद्गीथ-वेङ्कटमाधव-आनन्दतीर्थ-भवस्वामि-गुरुदेव-क्षुर-भट्टभास्करमिश्र-उव्वट-महीधर-भरतस्वामि-गुणविष्णु-सायण-प्रभृतयः प्रयासं चक्रिरे। देशान्तरीयाः अपि विपश्चितो वेदामृतं पातुं तान् व्याख्यातुं वा अध्येतुं प्रायतन्त ।

यज्ञान् प्रतिपादनाय एव वेदाः प्रवृत्ता अजायन्त । तेषां हि यज्ञानां विधानं चेत् समुचिते काले विधीयते तदैव तत्फल लभ्यते । ज्यौतिःशास्त्रं यज्ञविधानस्य युक्ततरं कालं निर्दिशति, तस्मात् शास्त्रं तत्कालविधायकशास्त्रमित्येतेन च नाम्ना प्रख्यातं वर्त्तते ।

मानवः स्वभावेन एव स्वकल्याणाभिनिवेशी प्राणी वर्त्तते । सः सर्वदैव अभिलषति यत्, तदीयं कार्यं शुभे समये मङ्गलवर्षिण्यां वेलायां प्रारब्धं स्यात्, येन स मनोभिलषितं संलब्धुं शक्नुयात् । आपदस्तं न निपीडयेयुः दुखप्रदा घटना, भयावहा स्थितयो मनोरथविध्वंसिनः प्रत्यूहाः, अनिष्टकारिण्यो दारुणा घटिकाश्च न तं निपातयेयुः इत्येतदर्थं स तद्विषये कृत्स्नतया ज्ञानमधिगन्तुं वाञ्छति, येन तदागमनात् प्रागेव सावधानोऽभवत्, तन्निवारणाय क्षमः सञ्जायेत वा । सकलस्यापि भाविनः अनेहसो ज्ञानमसौ करतलामलकवत् कर्त्तुम् उत्कण्ठते । ज्यौतिषं शास्त्रं मानवस्य आकाङ्क्षां सर्वथैव पूरयति । तच्छास्त्रं मानवं प्रति तदीयं भाविकालं सम्यक् ज्ञायपति । कस्मिन् काले का घटना घटेत, कस्मिन् काले कासां कासाम् आपदाम् आगमनस्य सम्भावनाः, कस्मिन् काले तदीयो भाग्योदयो भवेत्, कस्मिन् काले शत्रुरोगादिकं तं व्यथयेत्, जगति कस्मिन् कस्मिन् काले का का ईतिर्भीतिश्च समागच्छेत्, कदा किं जायत इत्यादिको निखिलमपि शास्त्रमिदं सर्वाङ्गीणतया बोधयति । तस्मात्कारणात् शास्त्रमेतद् जनप्रसिद्धम्। लोकपरमोपकारित्वाद् इदं शास्त्रं सर्वेषां मानवानां नितान्तं प्रियशास्त्रं मन्यते l लोकः शास्त्रमिदं स्वकीयशुभविधायकं मित्रमवगच्छति । दुःखानां निवारकत्वात् सुखानां विधायकत्वाच्च तस्य तस्य सर्वेऽपि जगतीतलस्य मानवास्तस्मिन् अादरधियं प्रदर्शयन्ति ।

प्रवर्तकः[सम्पादयतु]

ज्योतिःशास्त्रस्य बीजानि वेदेषु लभन्ते । तत्र - 'एका च मे त्रिस्रश्च मे पञ्च च मे सप्त च मे ॥' इत्यादिषु मन्त्रेषु गणितसिद्धान्तः, किञ्च- 'इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभि ॥' इत्यादिषु मन्त्रेषु रेखागणितस्य बीजं विलोक्यते । तदेवं शास्त्रस्यास्य उद्भवभूः श्रुतय एव सन्ति । एतत्प्रवर्तका अष्टादशमहर्षयः, ते च -

'सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिः पराशरः॥

कश्यपो नारदो गर्गो मारीचिर्मनुरङ्गिराः॥

लोमशः पुलिशश्चैव च्यवनो यवनो भृगुः॥

शौनकोऽष्टादशश्चैते ज्योतिःशास्त्रप्रवर्त्तकाः॥'

वेदाङ्गज्यौतिषशास्त्रस्य प्रवर्तकः लगधः अपि मन्यते।

'प्रणम्य शिरसा कालमभिवाद्य सरस्वतीम्।

कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः॥'[७]

किञ्च कोऽयं लगधः? इति एतावता अज्ञातम्।

ग्रन्थाः[सम्पादयतु]

वेदाङ्गभूतस्य ज्यौतिषशास्त्रस्य साहित्यं विशदं व्यापकञ्चास्ति । तत्र सूर्यपितामहादिकानां सिद्धान्तग्रन्थाः, गौरीकालजातकादयो दैवग्रन्थाः, पराशरजैमिनीकृतार्षग्रन्था:, वाराहमिहिरकृत-बृहज्जातकादयः पौरुषग्रन्थाः, वैदिकज्यौतिषसंहितादिकाश्च प्रचुराः ग्रन्थाः विराजमानाः सन्ति । अस्त्येतच्छास्त्रं स्कन्धत्रयात्मकम् — 'सिद्धान्तसंहिताहोरारूपं स्कन्धत्रयात्मकम्॥' इति।

अस्य वेदाङ्गस्यानेके प्रकाण्डपाण्डित्यवन्तो भुवनविदिता आचार्या बभूवुः । तेषां नामानि -वराहमिहिरः, अार्यभट्टः, ब्रह्मगुप्तः, लल्लाचार्यः, उत्पलाचार्यः, श्रीपतिः, भोजदेवः, भास्कराचार्यः, केशवः, गणेशदैवज्ञः, ज्ञानराजः, कमलाकरश्च सन्ति । सर्वेऽप्येते अाचार्याः ज्यौतिःशास्त्रविषयकान् उत्तमोत्तमान् ग्रन्थान् प्रणिन्युः । ज्योतिविदाम् आधुनिकः संसारो यन्निधिमेतेभ्यो विद्वज्जनेभ्यः संलब्धवान्, तेन स स्पृहणीयं परमगौरवं भजते। वराहमिहिरस्य बृहज्जातक-लघुजातक-बृहत्संहिता इत्यादिग्रन्थाः, कमलाकरस्य सिद्धान्ततत्त्वविवेकादिका ग्रन्थाः, भास्कराचार्यस्य सिद्धान्तशिरोमणिप्रभृतिग्रन्थाः, गणेशदैवज्ञस्य ग्रहलाघवादिग्रन्थाः प्रसिद्धाः। तदतिरिक्ता लघुबृहत्पाराशरी-जैमिनिसूत्र-भृगुसंहिता-मीनराजजातकनाडीग्रन्थप्रभृतयः अार्षग्रन्थाश्च ज्यौतिःशास्त्रिणो हि प्रीणन्ति नितराम्। 

ढुण्ढिराजस्य जातकाभरणम्, अनन्तस्य जातकपद्धतिः, नृहरेः जातकसारः, दिवाकरस्य पद्मजातकं, बलभद्रस्य होरारत्नं, गोविन्दस्य होराकोस्तुभः इत्यादिग्रन्थाः अपि ज्योतिर्विद्भिरनुशील्यन्ते। केरल-मतप्रतिपादका रमलचिन्तामणि-रमलामृतप्रभृतयो ग्रन्थाः, ताजिकभूषणपद्धति-ताजिकतन्त्रसार-ताजिकपद्धति-ताजिकनीलकण्ठीप्रभृतिग्रन्था, किञ्च प्रश्नज्ञानसदृशब्रह्मग्रन्था हि बहवो ज्योतिःशास्त्रस्य साहित्ये प्रथिताः सन्ति । शकुनशास्त्रमपि संहितास्कन्धभूतमेव । तत्र अम्रदेवात्मजस्य जैनभूपस्य नृपतिजयचर्या-नाम्नी कृतिः सुप्रसिद्धैव । सूर्यदासपुत्रेण स्वरसारनामकः स्वरशास्त्रस्य च ग्रन्थो विरचितः । ज्योतिषे फलादेशे सामुद्रिकशास्त्रस्य महनीयता केन न ज्ञायते । एतस्मिन् विषये राजकृतं ह्रस्वसञ्जीवनमतिविश्रुतम्।

गणितशास्त्रं ज्यौतिर्ग्रहशास्त्राद् व्यतिरिक्तं नास्ति । तस्याप्यन्तर्भावः तत्रास्ति । अङ्कगणितं बीजगणितञ्च इत्येतद् द्वयमपि ग्रहविज्ञानस्य अङ्गत्वेन मतम् । अार्यभट्टः, ब्रह्मगुप्तः, भास्कराचार्यश्च एते त्रयो विपश्चिद्वरा ग्रहतन्त्रस्य रचयितारः सन्ति । गणितस्य दशमलवपद्धतिः ग्रहतन्त्रस्य अङ्गभूतैव विद्यते । गणितशास्त्रे गणिताध्ययनाय आर्यभट्टीयस्य इत्येतौ द्वावपि ग्रन्थौ महत्त्ववन्तौ स्तः । ब्रह्मगुप्तकृते बाह्यस्फुटसिद्धान्ते कुक्कुटाध्यायश्च गौरवमतिशयमावहति । अङ्कगणितसम्बन्धी लीलावतीसंज्ञको ग्रन्थश्च उपयोगिषु ग्रन्थेषु गण्यते ।

भास्कराचार्यस्य सिद्धान्तशिरोमण्याख्यसन्दर्भ बीजगणितमतीव प्रकृष्टतां गाहते, एवमेवाङ्कगणिततन्त्रं भास्कराचार्य-ब्रह्मगुप्तयोः स्वोत्कृष्टतायां सर्वत्र सुविदितम् । शून्यविषये त्रैराशिकविषये विधयस्तत्राकलिताः सन्ति । बीजगणितमपि परां कोटिमाटीकते। भास्कराचार्यब्रह्मगुप्ताचार्यौ सरलसमीकरणसिद्धान्तं सविशदं विवृण्वानौ दृश्येते । यज्ज्यामितिशास्त्रमत्र देशे याज्ञिकप्रक्रियासु बहुतरं साहाय्यं प्रददौ, तदपि तत्र वैशद्येन निरूपितम् । अस्मद्विद्वत्प्रणीतेषु एषु ज्यौतिःशास्त्रविषयकेषु सोऽपि सिद्धान्तं निष्पन्नतां नीतो यः पाइथोगोरस-सिद्धान्त इत्येतेन नाम्ना प्रसिद्धोऽस्ति । त्रिकोणमिति तन्त्रे च भारतीया विद्वांसोऽधिकारं निहितवन्तः। इतिहासेषु सन्त्येवंविधा उल्लेखा बहवो येभ्यो यूनान-अरबदेशनिवासिनां विद्वद्वराणां गणितज्यौतिषविद्याध्ययननिमित्तेन भारतं प्रत्यागमनं विदितं जायते । अरबदेशीयः खालिफ-आलमान-सरहारून-अलरसीदनामा सम्राट्, जातस्य यस्य १२०० वर्षाण्यतीतानि, मुहम्मदविनमूसाभिधेन विदुषां बीजगणितं गणितञ्च अरबीभाषायामनूदितम्।

नामानि कालाः ग्रन्थाः
आर्यभटः ५०० ई. आर्यभटीयम्
वराहमिहिरः ६०० ई. पञ्चसिध्दान्तिका, बृहज्जातकं ल्घुजातकञ्ज ।
ब्रह्मगुप्तः ७०० ई. ब्रह्मस्फुटसिध्दान्तः, खण्डखाद्यं, ध्यानग्रहश्च ।
लल्लः ७०० ई. रत्नकोशः, धीवृध्दियन्त्रञ्च ।
उत्पलाचार्यः १००० ई. वाराहमिहिरग्रन्थानां टीकाः ।
श्रीपतिः ११०० ई. सिध्दान्तशेखर –धीकोटिकरण- रत्नमाला जातकपध्दतयः
भोजदेवः ११०० ई. राजमृगाङ्ककरणम्
भास्कराचार्यः १११४ ई. सिध्दान्तशिरोमणिः, करणकुतूहलञ्च ।
केशवः १५०० ई. ग्रहकौतुक –महूर्त्ततत्त्व –जातकपध्दतयः ।
गणेशः १५५० ई. ग्रहलाघवम् ।
कमलाकरः १६५० ई. सिध्दान्ततत्त्वविवेकः ।

असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्य स्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।

सम्बद्धाः विषयाः[सम्पादयतु]

बाह्यसूत्राणि[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. ( आर्चज्यौतिषम् ३६ )
  2. (तै० ब्रा० १।१ )
  3. (ताण्डत्यब्रा० ५॥९॥१७ )
  4. (तै० ब्रा० २॥१॥|२ )
  5. ( सिद्धान्तशिरोमणिः )
  6. (वेदाङ्गज्यौ० ४ )
  7. ( अार्चज्यौतिष श्लो० २ । )
"https://sa.wikipedia.org/w/index.php?title=ज्योतिषम्&oldid=427603" इत्यस्माद् पुनः प्राप्तिः