महीधरः
महीधरस्य 'आचार्य' इति उपाधित्वात् आचार्यमहीधरः इति प्रसिद्धः। एषः वेदस्योपरि भाष्यम् अरचयत्। काशीवासी महीधरोऽयं वैष्णवाचार्यः आसीत्। तन्त्रशास्त्रेऽपि एतस्य गतिः आसीत्।
जीवनम्
[सम्पादयतु]एतस्य जन्म काश्यामभूत् । तत्र च तस्य वासस्थानसन्निधौ एका पुष्करणी अद्यापि वर्त्तते इति परम्परातः श्रूयते । नागर-ब्राह्मणवंशीयोऽयं विद्वानासीदिति । काश्यामेवाऽध्ययनं विधाय विरचितकतिपयग्रन्थो महीधरः काशीनरपतेः शरणं गतवान् । अत एव प्रायः ‘यथा राजाश्रितः पण्डितः' इति तस्यैवोक्त्या सङ्गच्छते ।
भाष्यम्
[सम्पादयतु]काशीपतेः शरणे एव अनेन 'वेददीपस्य सामभाष्य'स्य रचना कृता इत्याचार्येण । यद्यपि भाष्यमिदं न मौलिकं तथाप्यर्थस्य विशदतया दृष्टया उपादेयमस्ति । अस्य भाष्यस्य पाण्डुलिपिः सम्पूर्णानन्दविश्वविद्यालयस्य सरस्वतीभवनपुस्तकालये संग्रहीताऽस्ति । अस्य भाष्यस्योपरि उव्वटभाष्यस्य स्पष्टच्छाया प्रतिलक्षिताऽस्ति । किञ्चानेन विदुषा निरुक्तश्रौतसूत्रादिग्रन्थेभ्यः उद्धरणानि दत्त्वा याज्ञिकक्रियायाः विधानं बोधगम्यतां नीतम् । तन्त्रादिषु रहस्यमयेषु शास्त्रान्तरेष्वपि स सम्यगधीती विनयेन भक्त्या च गुरुजनान् तथा समप्रीणयत्, यथा तेऽस्मै गुह्याद् गुह्यतराण्यपि रहस्यवस्तूनि समुपादिशन् । विदुषे चास्मै सर्वविद्यापारङ्गत 'आचार्य' इति विरुदमुपाहरन् । अनेन तन्त्ररहस्यविवेचको 'मन्त्रमहोदधि'-नामा एकः ग्रन्थः विक्रमस्य १६४५ शतके ( १५८८ ई० ) प्रणीतः । अस्य ग्रन्थस्य अन्ते भाष्यकारेण लिखितमिदम् -
'अब्दे विक्रमतो जाते बाणवेदनृपैर्मिते ।
ज्येष्ठाष्टम्यां शिवस्याग्रे पूणों मन्त्रमहोदधिः ।'
अतोऽस्य भाष्यकारस्य समयः षोडशशतकस्योत्तरार्द्ध इति निश्चीयते ।
उव्वटाचार्यात् पञ्चाशत्वर्षानन्तरमयमभवत् । नरसिंहस्योपासकोऽयमासीत्, यस्योल्लेखः ग्रन्थेषु बहुशः उपलब्धो भवति ।