माधवभट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

माधवभट्टः ऋग्वेदस्य भाष्यं कृतवान्। 'माधव'-नामधेयाश्चत्वारो भाष्यकाराः उल्लिख्यन्ते इतिहासकारैः । तेष्वेकः सामवेदसंहितायां किञ्चेतरे त्रय ऋग्वेदे भाष्यं लिलिखुः । केषाञ्चनमतेन माधवो नाम न कोऽपि भाष्यकारः सायणः किंवा वेङ्कट एव ‘माधव' इत्येतेन नाम्नः ख्यात आसीत् । अन्ये चाहुः माघवः सायणात् वेङ्कटाच्च भिन्न अासीदतः माधवस्य व्यक्तित्वं स्वतन्त्रमेव । माधव ऋग्वेदे विलक्षणं पाण्डित्यं निदधौ । सायणो वेङ्कटश्चोभौ माधवस्य भाष्यमनुसस्रतुः । अन्योऽप्येकः माधवोऽस्ति । यस्य ऋग्वेदप्रथमाष्टकस्य टीका मद्रासविश्वविद्यालयतः प्रकाशिताऽभवत् । सारगर्भिता इयं टीकाऽस्ति । अल्पाक्षरे सत्यपि मन्त्राणामर्थावबोधने नितान्तमहत्त्वपूर्णाऽस्तीयं टीकेति । द्वादशशततमेशवीयाब्दे वेङ्कटमाधवः अभूदिति पण्डितसाम्बशिवशास्त्री मन्यते । वेङ्कटस्य भाष्यमतिसंक्षिप्तमस्ति । पर्यायवाचिपदान्युपस्थाप्य समन्त्रार्थम् आकलयितुं श्लाघ्यं यत्नं कृतवान् ।

ऋग्वेदे भाष्यम्[सम्पादयतु]

अस्याः टीकायाः लेखनात्पूर्वमेवायम् एकादशानुक्रमण्यः लिलेख । यासु प्रत्येका कोषरूपेण स्थाप्य ऋग्वेदस्य शब्दार्थान् प्रकटयितुं समर्थाऽस्ति। एतासु उपलब्धास्वनुक्रमणीषु द्वावेवानुक्रमण्यौ प्रकाशितौ स्तः। नामानुक्रमणी, आख्यातानुक्रमणी च । एतयोः अध्ययनेन सहजानुमानोऽयं भवितुमर्हति यदृग्वेदस्येयं नामधात्वोरेकत्र संग्रहोऽस्ति । किश्च इतोऽधिकापि महत्त्वपूर्णानुक्रमण्यः -निर्वचनानुक्रमणी-स्वरानुक्रमणी-छन्दानुक्रमणीप्रभृतयः अद्याऽपि समुपलब्धाः न भवन्ति । एतासु अनुक्रमणीषु सर्वाधिकमहत्त्वपूर्णानुक्रमणी 'स्वरानुक्रमणी' अप्युपलब्धा नाऽस्ति । अनेन ग्रन्थेन वैदिकस्वरस्य यज्ज्ञानं भवितुमर्हति तत्तु अन्यासु टीकासु भवितुं नार्हति । वैशिष्ट्यस्य सङ्केतः वेदमर्मज्ञाः विद्वांसः प्रथममेव देवराजयज्वानः निघण्टुनिर्वचनादाप्नुवन् । अनेन प्रतीतो भवति यद्देवराजयज्वा माधवेन सह निभ्रान्तरूपेण परिचितो नासीत् । निजग्रन्थस्य प्रस्तावनायामसौ वेङ्कटमाधवस्य सङ्केतं कृतवान् । विषयेऽस्मिन् बहु सम्भाव्यताऽस्ति यदसौ वेङ्कटमाधवमेव माधवस्य निर्देशेन सम्बद्धं कृतवान् । अस्य ग्रन्थानुशीलनेन ज्ञातो भवति यन्माधवस्य निर्दिष्टविषयेष्वेकोऽपि निर्देशः वेङ्कटमाधवस्य ग्रन्थे समुपलब्धो नाऽस्ति इति । अपि च कतिपयाः निर्देशाः सायणमाधवस्य बृहद्भाष्ये एव प्राप्यन्ते, ग्रन्थोऽयं तस्य स्वकीयरचना नास्ति । देवराजयज्वनः सर्वे निर्देशाः अस्य अभिनवमाधवस्य ग्रन्थे एव प्राप्तुं शक्यन्ते, यद्ययं समग्रग्रन्थः समुपलब्धो भवेत् । ग्रन्थस्यास्य यावदंशः समुपलब्धोऽभवत्, तस्मिन् भागेऽद्धाधिकनिर्देशाः प्राप्यन्ते एव, तेनायं माधवो वेङ्कटमाघवाद्भिन्नः एवाऽस्तीति प्रमाणितः अभवत् ।

टीकायाः वैशिष्टयम्[सम्पादयतु]

माधवस्यास्य टीका यथार्थतः भाष्यमेवाऽस्ति । अस्यानुसरणं सायणमाधवेन कृतम् । तद्वदेव वेङ्कटमाधवेनाऽपि स्वच्छन्दरूपेण अस्यानुसरणं कृतम् । स्कन्दस्वामिनः टीकायाम् अप्यस्यानुक्रमण्याः अनुकरणं प्राप्यते। किश्च ऋक्संहितायाः अल्पाशंस्य एकाष्टकस्य भाष्यं समुपलब्धं भवति । तथाप्येतावदेवांशः पूर्वोक्तकथनस्य पर्याप्तप्रमाणमुपस्थापयति । देवराजयज्वना माधवस्य निर्देशं कृत्वा स्वग्रन्थे यत्स्वरवर्णनं कृतं तत्सर्वम् अस्मिनल्पकायिकांशे एवोपलब्धं भवति । देवराजयज्वा सर्वानपि स्वनिर्देशान् अस्मादेव संहिता-भाष्यादेवालिखत्। अनेन ज्ञातो भवति यद्देवराजयज्वनः सविधे प्रायः माघवस्य सम्पूर्णं भाष्यमासीत्, किञ्च ‘कोऽयं माधवः' इति सोऽपि नाजानात् । सन्दिग्धस्थलस्य स्वरभेदेन प्रातिशाख्यभेदेन च विशदीकरणस्यास्य विचित्रा शैली वर्त्तते । यद्यपि भाष्यमिदं लघुकायमस्ति तथाप्यस्यार्थः निःसन्दिग्धोऽस्ति । अस्य भाष्यस्य अनुसरणं स्कन्दस्वामी-वेङ्कटमाधव-सायणप्रभृतयः विद्वांसः कृतवन्तः । इतिहासकाराणां मते ख्रीष्टाब्दस्य चतुर्दशशतके सायणाचार्योऽभवत् । ख्रीष्टस्य दशमशतके वेङ्कटमाधवोऽभवतु तथा ख्रीष्टस्य सप्तमशतके स्कन्दस्वामी आसीत् । अनेन प्रणीतस्य भाष्यस्योद्धरणानि स्कन्दस्वामिना, वेङ्कटमाधवेन सायणेन च स्वीयेषु ग्रन्थेषु दत्तानि, अतोऽयं ख्रीष्टस्य षष्ठशतकोत्तरभागे अवर्त्ततेति कल्पनां कर्तुं शक्यते।

 सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=माधवभट्टः&oldid=443998" इत्यस्माद् पुनः प्राप्तिः