सामग्री पर जाएँ

वराहमिहिरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वराहमिहिरः कश्चित् भारतीय: ज्योतिषी गणितशास्त्रज्ञ: च आसीत्। एषः उज्जयिनीनगरे राज्ञ: विक्रमादित्यस्य अस्थाने आसीत् । सिद्धान्तः संहिता होरा चेति ज्योतिश्शास्त्रस्य त्रयः विभागाः । वराहमिहिरः एतान् त्रीन् भागान् अपि अधिकृत्य ग्रन्थान् विलिख्य ख्यातः अस्ति । एषः क्रि.श. ६ शतके आसीत् इति परिगण्यते । विक्रमादित्यस्य आस्थाने स्थितेषु नवसु रत्नेषु अन्यतमः आसीत् एषः इत्यपि प्रतिपादयन्ति केचन । एषः अवन्तिनिवासी आसीत् , आदित्यदासः एतस्य पिता आसीत् इति च ज्ञायते । पञ्चसिद्धान्तिका, लघुसंहिता, वाराहीसंहिता, बृहज्जातकम् इत्येते ग्रन्थाः एतेन रचिताः सन्ति । होराशास्त्रे जातकशास्त्रे वा बृहज्जातकं ग्रन्थं सुप्रसिद्धं अस्ति । बृहज्जातके जातकस्य जन्मकालिकस्थ ग्रहवशात् तस्य जीवनस्य शुभाशुभं फलं वक्तुं सक्यते । बराहमिहिर पश्चात् य: विद्वांस: होराशास्त्रं रचितवान्, तेन प्रायेण वराहमिहिर ग्रन्थं दृष्ट्वा अहं ग्रन्थं रचयामिति उल्लेखं प्राप्यते, इत्यनेन होराशास्त्रे बृहज्जातकस्य वैशिष्ट्यं सिद्धयति । संहिताग्रन्थे बृहत्संहिता सुप्रसिद्धम् । बृहत्संहितायां ४००० श्लोकाः, १०० अध्यायाः च सन्ति । ज्योतिषिकलक्षणम्, नक्षत्रव्यूहः, वृष्टिः, वास्तुविद्या, अश्वलक्षणं, वज्रपरीक्षा, पाकाध्यायः इत्यादयः, बहवः विषयाः निरुपिताः सन्ति अत्र । अतः एषः ग्रन्थः ‘लघुविश्वकोषः’ इत्येव परिगण्यते । पूर्वकृतीनाम् आधारेण ग्रन्थं रचितवान् एषः तत्र तत्र आधारग्रन्थान् अपि उल्लिखति ।

पञ्चसिद्धान्तिकाग्रन्थे एतस्मात् पूर्वकालिकस्य भारतीयज्यौतिषस्य विषयाः सङ्गृहीताः । अत्र ग्रहाणां चलनस्य, अक्षांश- रेखांशयोः विषयस्य च निरुपणं विद्यते । ग्रन्थेऽस्मिन् रोमन्खगोलविज्ञानसम्बद्धः रोमकसिद्धान्तः, अलेग्साण्ड्रियादेशस्थपाल्महोदयेन निरुपितः पौलिशसिद्धान्तश्च अस्ति । जर्मनपण्डितः डा. थीबोमहोदयः ऐदम्प्राथम्येन ग्रन्थस्यास्य सम्पादनं कृत्वा क्रि.श. १८५७ (सप्तपञ्चाशदधिक- अष्टादशशततमे) वर्षे प्राकटयत् ।

वराहमिहिरस्य असाधारणं बुद्धिकौशलं भारतीयैः पाश्चात्त्यैश्च सर्वदा स्मर्यते । एतेन प्रतिपादिताः विषयाः अद्यापि विज्ञानक्षेत्रे बहूपकारकाः संशोधनयोग्याश्च सन्ति ।

"https://sa.wikipedia.org/w/index.php?title=वराहमिहिरः&oldid=472108" इत्यस्माद् प्रतिप्राप्तम्