स्कन्दस्वामी
स्कन्दस्वामी ऋग्वेदस्य, निरुक्तस्य च भाष्यकारः इति प्रसिद्धः। अस्य अपरं नाम स्कन्दमहेश्वरः इति। सम्प्रति लभ्यमानेषु ऋग्वेदसंहितायाः भाष्येषु पुरातनतमं भाष्यं स्कन्दस्वामिनः लभ्यते ।
परिचयः
[सम्पादयतु]स्कन्दस्वामी ऋग्वेदे विशदं भाष्यञ्चकार । स निरुक्तेऽपि टीकां कृतवान् । ऋग्वेदसंहितायाः सर्वप्रथमभाष्यमस्यैव सम्प्रति समुपलभ्यते । ग्रन्थकारस्य पुरातनत्वेन सह ग्रन्थस्य अप्यन्तरङ्गगुणेन इदं भाष्यं जनेषु श्लाघ्यं समादरणीयञ्च अस्ति । स्कन्दस्वामिनः जन्म गुर्जरप्रदेशस्य विद्यापीठतया राजधानीभावेन च पुरा प्रथिते 'बलभी' इत्याख्यनगरे अभवत् । अस्य पितुर्नाम भर्त्तृध्रुवः अासीत् । ऋग्वेदभाष्यस्य प्रथमाष्टकस्य अन्ते भाष्यकारेण एतस्य चर्चा स्वयं कृताऽस्ति।
'बलभीविनिवासस्येतामृगर्थागमसंहतिम् ।
भर्तृध्रुवसुतश्चक्रे स्कन्दस्वामी यथा स्मृतिः ॥'
आचार्यस्यास्य काल तस्य भाष्यस्य पश्चाद्भागवर्णनाज् ज्ञायते ।
कालः
[सम्पादयतु]स्कन्दस्वामी अाचार्यस्कन्दस्वामिनः समयस्याऽपि निर्णयः पर्याप्तपर्यालोचनेन निश्चित्य वक्तुं शक्यते । परवर्त्तिषु ग्रन्थेष्वस्य नामोल्लेखेन अस्याविर्भावकालः सूचितो भवति । अयं शतपथब्राह्मणस्य विख्यातो भाष्यकारस्य हरिस्वामिनो गुरुरासीत् ॥ यतोऽस्य समयः सप्तमशतकमिति निश्चित्य वक्तुं शक्यते । यतो हि स्वयं हरिस्वामिना उपपत्तिक्रमेण शतपथब्राह्मणस्य प्रारम्भे स्कन्दस्वामिनं निजगुरुं स्वीकृत्य स्वपरिचयञ्च दत्तम्।
'नागस्वामी तत्र..............श्रीमुहस्वामिनन्दनः ।
तत्र याजी प्रमाणयज्ञ आढ्यो लक्ष्म्या समेधितः ॥ ५ ॥
तन्नन्दनो हरिस्वामी प्रस्फुरद् वेदवेदिमान् ।
त्रयी व्याख्यानधौरेयोऽधीततन्त्रो गुरोर्मुखात् ॥ ६ ॥
यः सम्राट् कृतवान् सप्तसोमसंस्थास्तथार्कश्रुतिम् ।
व्याख्यां कृत्वाऽऽध्यापयन्मां श्रीस्कन्दस्वाम्यस्ति मे गुरुः ॥ ८ ॥
हरिस्वामी स्वभाष्यरचनायाः समयोऽपि दत्तवान् । निदर्शनं यथा —
'यदाब्दानां कलेर्जग्मुः सप्तत्रिंशत्शतानि वै ।
चत्वारिंशत्समाश्चान्यास्तदा भाष्यमिदं कृतम् ॥'
स्कन्दस्वामिनः कालः प्रायः ६८२ विक्रमाब्दस्तथा ६२५ ख्रीष्टाब्दः सिद्धो भवति । हरिस्वामिनः भाष्यरचनाकालः ६३८ ई. इति मन्यते । यतो हि हरिस्वामी स्वभाष्यरचनायाः समयोऽपि दत्तवान् । निदर्शनं यथा —
'यदाब्दानां कलेर्जग्मुः सप्तत्रिंशत्शतानि वै ।
चत्वारिंशत्समाश्चान्यास्तदा भाष्यमिदं कृतम् ॥'
कलियुगे ३७४० वर्षे व्यतीते सति हरिस्वामिना भाष्यमिदं कृतम् । कलियुगस्य प्रारम्भः विक्रमाब्दात् ३०४५ वर्षं पूर्वं मन्यते। अर्थात् ख्रीष्टाब्दात् पूर्वमयं कालः ३१०२ ईशवीयो भवति । तेन हरिस्वामी ३७४०-३०४५= ६९५ विक्रमाब्दे अर्थात् ६३८ ख्रीष्टाब्दे शतपथब्राह्मणस्य भाष्यं रचयामास । पूर्वमस्मादेव स्कन्दस्वामिना ऋग्वेदभाष्यस्य रचना कृता तथा हरिस्वामिनं वेदमपि अध्यापितम् । अतः स्कन्दस्वामिनः कालः प्रायः ६८२ विक्रमाब्दस्तथा ६२५ ख्रीष्टाब्दः सिद्धो भवति । अन्येषाम् अपि इतिहासकाराणां कथनमस्ति यत्, स्कन्दस्वामी ६२५ शततमेशवीयाब्दाभ्यर्ण भारतं विभूषयामास इति। अनेन रूपेणायं हर्षबाणयोः समकालिकः प्रतीतो भवति ।
स्कन्दस्वामी यास्कस्य निरुक्तेऽपि टीकां कृतवान् । निरुक्तस्य टीकाकर्त्ता ऋग्भाष्यस्य च रचयिता एक एव स्कन्दस्वामी वर्तते । उभयोः ग्रन्थकारयोः अभिन्नत्वं देवराजयज्वनः निम्नलिखितोद्धरणेन प्रमाणितो भवति ।
'उपप्रायोभिरागत् इत्यादिषु निरुक्तटीकायां स्कन्दस्वामिना प्रय इत्यन्नं नाम उच्यते, तथा च ‘अन्नितिश्रवः' इत्यादि निगमेषु वेदभाष्ये ‘श्रव' इत्यन्नं नाम इति स्पष्टमुच्यते ।
ऋग्वेदभाष्यम्
[सम्पादयतु]ऋग्वेदे स्कन्दस्वामी नितरां विशदं विलक्षणश्च भाष्यश्चकार । भाष्येऽस्मिन् प्रत्येकसूक्तस्य आरम्भे तस्य सूक्तस्य ऋषेः देवस्य चोल्लेखो वर्त्तते। तथा च तद्बोधकः प्राचीनानुक्रमणिग्रन्थानां श्लोकोऽपि उद्धृतः अस्ति। निघण्टु-निरुतप्रभृति वैदिकार्थोपबोधकेभ्यः ग्रन्थेभ्यः उपयुक्तं प्रमाणमपि तत्रैव सङ्कलितमस्ति । भाष्यमिदं सरलं मिताक्षरि चास्ति । व्याकरण-विषयकतथ्यानाम् उल्लेखोऽपि अत्राऽस्ति संक्षेपेणैव । नास्त्यत्र सायणभाष्यस्य प्रथमाष्टकम् इव व्याकरणस्यातिविस्तरेण प्रदर्शनमिति ।
ऋग्वेदभाष्ये वेङ्कटमाधवेन लिखितमस्ति—
स्कन्दस्वामी नारायण उद्गीथ इति ते क्रमात्।
चक्रुः सहैकमृग्भाष्यं पदवाक्यार्थगोचरम् ।'
अनेन ज्ञातो भवति नारायण-उद्गीथौ स्कन्दस्वामिनः समय एव बभूवतुः ।
नारायण-उद्गीथौ
[सम्पादयतु]नारायणः ऋग्भाष्ये स्कन्दस्वामिनं प्रति साहाय्यं चकार इत्येतद् वेङ्कटमाधवो ब्रवीति । उदगीथस्योल्लेखः सायणेन आत्मानन्देन च कृतः । तदीया भाष्यशैली स्कन्दस्वामिभाष्यशैली इव । उपरिलिखितेन श्लोकेनापि प्रमाणितो भवति यदृग्भाष्यरचनायां स्कन्दस्वामिनः साहाय्यमनेन नारायणेन कृतम् । श्लोकस्थक्रमात् शब्देन अनुमीयते यदृग्वेदस्य मध्यभागे नारायणेन स्वभाष्यं लिखितम्। कतिपयविद्वांसः सामभाष्यकर्तुः माधवस्य पितरं नारायणं तथा ऋग्भाष्यकर्त्तारं नारायणमेकमेव मन्यन्ते। किश्च अस्य अद्यावधि न किमपि सबलप्रमाणं समुपलब्धं भवति । अस्याऽपि समयः विक्रमस्य सप्तमशताब्द्यामेव प्रमाणितो भवति ।
उदगीथः वेङ्कटमाधवस्य कथनानुसारेण उद्गीथः स्कन्दस्वामिनं प्रति ऋग्भाष्यलेखने साहाय्यं कृतवान् । अयं हि महापुरुषः ऋग्वेदस्यान्तिमभागस्य भाष्यं रचयामास । प्रत्येकाध्यायस्य परिसमाप्तौ तेन स्वविषये लिखितम्—
'वनवासीविनिर्गताचार्यस्य उद्गीथस्य कृता ऋग्भाष्ये.. अमुकः .....अध्यायः समाप्तः' इति।
अनेन कथनेनोद्गीथचार्यस्य वनवासिना सह कमपि सम्बन्ध प्रतीयते । प्राचीनकाले आधुनिककर्णाटकस्य प्रतीच्यभूखण्डः 'वनवासिप्रान्त' इति नाम्ना ख्यातः आसीत् । अतो विचार्यते — उद्गीथाचार्यः अस्यैव प्रान्तस्य प्रायः निवासी अासीत् । अतोऽधिकं न किमपि ज्ञातो भवत्यस्य महापुरुषस्य विषये । उदगीथस्य नामोल्लेखः सायणेनाऽऽत्मानन्देन च स्व-स्वभाष्ये कृतः । तदीया भाष्यशैल्यपि स्कन्दस्वामीभाष्यशैलीवाऽस्ति । अस्यापि प्रभावः सायणभाष्योपरि स्पष्टतः परिलक्षितो भवति । उद्गीथः सायणात् पूर्ववत्तीं भाष्यकारः प्रतीतो भवति यतः सायणेन ऋग्वेदस्यैकस्मिन् मन्त्रभाष्ये ( १०॥४६॥५ ) उद्गीथस्य व्याख्यायाः उल्लेखः कृतः । व्याख्येयं उद्गीथभाष्ये उपलब्धाऽस्ति । भाष्यमिदं ऋग्वेदस्य दशममण्डलस्य अापञ्चमसूक्तात् त्र्यशीतितमस्य सूक्तस्य पञ्चममन्त्रसमुपलब्धः भवति । अस्य भाष्यस्य प्रारम्भिकार्द्धभागः पञ्चत्रिशदधिकोनख्रीष्टाब्दे लाहौर-नगरस्य डी. ए. वी. महाविद्यालयस्य शोधविभागेन प्रकाशितः । शेषार्द्धभागोऽद्याप्यमुद्रित एवाऽस्ति । सायणभाष्येण सहोद्गीथभाष्यस्य तुलनायां कृते सति ज्ञातो भवति यद्, सायणेन भाष्यलेखनाय उद्गीथभाष्यस्थविपुलसाधनानां साधूपयोगं कृत्वैव स्वभाष्यं प्रणीतम्। अत एव 'तिलकवैदिकसंशोधनमण्डलेन' प्रकाशितस्य सायणभाष्यस्य त्रुष्टितांशस्य किंवा सन्दिग्धपाठस्य च संशोधनाय उद्गीथभाष्यादेव साहाय्यं स्वीकृतम् । अनेन प्रकारेण विश्रुतस्य सायणभाष्यस्य पाठसंशोधनार्थम् अप्यस्य भाष्यस्य महत्त्वमस्ति ।
सायणभाष्ये प्रभावः
[सम्पादयतु]सायणस्य ऋग्भाष्योपरि स्कन्दस्वामिनः भाष्यस्य स्पष्टतः प्रभावः परिलक्षितो भवति । अस्यानेकानि उदाहरणानि सन्ति । स्कन्दस्वामिनः ऋग्वेदस्य चतुर्थाष्टकपर्यन्तमेव भाष्यं समुपलब्धं भवति । शेषार्धस्य सम्पूर्तिः अन्येन आचार्यद्वयेन कृताऽस्ति। नारायण-उद्गीथौ तौ स्तः। अनन्तशयनग्रन्थावल्याम् अस्य भाष्यस्य प्रकाशनं क्रमशः समारब्धोऽभवत् ।