उव्वटः
उव्वटः काश्मीरिको विद्वानिति बहूनां मतम् । एतस्येदं नाम क्वचित् 'औबटः' क्वचिच्च ‘उवट' इत्यपि पठ्यते । एतेन यजुर्वेदसंहितायाम् स्वनाम्ना भाष्यं रचितम्।
परिवारः
[सम्पादयतु]एतदीयस्य पितुर्नाम 'वज्रटः' इत्यासीत्। ‘अयं मम्मटस्य भ्राता' इति सुधासागरकारस्य भीमसेनस्य मतम् । परन्तु उवटस्य विषये काश्वन विप्रतिपत्तयः सन्ति । तथा हि तत्कृते यजुर्वेदसंहिताभाष्ये पद्यमेकमुपलभ्यते-
'ऋष्यांदीनश्च पुरस्कृत्य अवन्त्यामुवटो वसन् ।
मन्त्रभाष्यमिदं चक्रे भोजे राष्ट्रं प्रशासति ॥' इति ॥
तस्यैव भाष्यस्य पुस्तकान्तरेऽन्यदपि पद्यमेकमुपलभ्यते—
'आनन्दपुरवास्तव्यवज्रटाख्यस्य सूनुना ।
मन्त्रभाष्यमिदं क्लृप्तं भोजे पृथ्वीं प्रशासति ॥' इति ॥
एतेन पद्यद्वयेन 'उव्वटः' वज्रटस्य पुत्रो भोजसमकालिकश्चेति प्रतिपाद्यते । यदि अयमुव्वटो भीमसेनोत्तरीत्या मम्मटस्य भ्राताऽभविष्यत्, तहि मम्मटस्य जैयटपुत्रत्ववर्णनात् तद्भ्रातुः उव्वटस्य अपि जैयटपुत्रत्वमभविष्यत्, तथा च उव्वटस्य वज्रटपुत्रत्वं श्लोकोक्तं कथमिव सङ्गच्छेत्। यद्यपि काश्मीरदेशीयस्य जैयटगोत्रस्य वज्रष्टाख्यस्य दत्तकपुत्रोऽयमिति कल्पनायां जैयटपुत्रस्याऽपि उव्वटस्य वज्रटपुत्रत्वमुपपद्यते, तथापि तस्य भोजसमकालिकत्वम् अनुपपन्नमेव । यतः तस्य ज्येष्ठभ्रातुः मम्मटस्य भोजराजाद् अर्वाक्तनत्वे स्थितेस्तत्कनिष्ठभ्रातुः उव्वटस्य सुतरां भोजराजाद् अर्वाक्तनत्वं सिद्ध्यति । अवन्त्याम् (उज्जयिन्याम् ) वसता तेन भाष्यं निरमायि इति एकत्र उल्लेखः, गुर्जरदेशप्रसिद्धे 'आनन्दपुरे' वसता तेन भाष्यं तन्निरमायि इति अपरोल्लेखः, एतदपि विप्रतिषिद्धमिव । यदि उव्वटस्य पिता वज्रट एवानन्दपुरवास्तव्य आसीत्, उव्वटस्तु उज्जयिन्यां वसन्नेव भाष्यं निरमात् इति कल्प्येत, तदपि वज्रटस्य काश्मीरिकत्वं सन्दिहोतैव ।
कालः
[सम्पादयतु]महाराजः भोजः धारानगरशासकः परमारवंश्यश्च आसीत् । स हि १०१८ ईशवीये सिंहासनारूढो भूत्वा १०६३ ईशवीयपर्यन्तं राज्यं कृतवान् इति। तस्य काल एकादशशतकम् । भोजस्य कविजनप्रियत्वं प्रसिद्धम्। शेखगिरिशास्त्री लिखति यत्, अयं भोजो धारातः स्वां राजधानीम् उज्जयिनीम् आनीतवानिति 'आइने अकबरी' पुस्तके लिखितं वर्तते। तेन पूर्वोल्लिखितस्य भोजराजस्य समयः १०१८ ईशवीतः १०६३ ख्रीष्टीयो वर्त्तते ।[१] अतो भोजराजसमकालिकत्वेन उव्वटः ख्रीष्टीयैकादशशतकस्य पूर्वाद्धे बभूवेति निश्चयेन वक्तुं शक्यते ।
भाष्यम्
[सम्पादयतु]अस्य भाष्यं लघ्वक्षरोऽपि सन् अतीव प्रोज्ज्वलः, सरलः प्रामाणिकश्च अस्ति । भाष्येऽस्मिन् अनेकमन्त्राणाम् अध्यात्मपरकोऽर्थः दर्शितोऽस्ति । अस्यान्यकृतिषु -
(क) ऋक्प्रातिशाख्यस्य टीका,
(ख) यजुःप्रातिशाख्यस्य टीका,
(ग) ऋक्सर्वानुक्रमणीभाष्यम्,
( घ ) ईशावास्योपनिषद्-भाष्यञ्च इति चत्वारो ग्रन्थाः प्रौढाः, प्रसिद्धाः प्रकाशिताश्चेति ।