सामग्री पर जाएँ

गुजरातराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गुर्जरदेशः इत्यस्मात् पुनर्निर्दिष्टम्)
गुजरातराज्यम्
ગુજરાત
  राज्यम्  

मुद्रिका
भारते गुजरातराज्यस्य स्थानम् राज्यस्य स्थानम्
भारते गुजरातराज्यस्य स्थानम्
गुजरातराज्यस्य मानचित्रम्राज्यस्य स्थानम्
गुजरातराज्यस्य मानचित्रम्
Coordinates (Gandhinagar): २३°१३′ उत्तरदिक् ७२°४१′ पूर्वदिक् / 23.217°उत्तरदिक् 72.683°पूर्वदिक् / २३.२१७; ७२.६८३निर्देशाङ्कः : २३°१३′ उत्तरदिक् ७२°४१′ पूर्वदिक् / 23.217°उत्तरदिक् 72.683°पूर्वदिक् / २३.२१७; ७२.६८३
राष्ट्रम्  भारतम्
Established १ मे १९६०
राजधानी गान्धिनगरम्
बृहत्तमं नगरम् कर्णावती-महानगरम् (जनसङ्ख्यादृष्ट्या)
मण्डलानि २६
सर्वकारः
  राज्यपालः ओम प्रकाश कोहली
  मुख्यमन्त्री भूपेन्द्र पटेल (भा॰ज॰प॰)
  विधानसभा सदनम् (१८२ seats)
  गुजरातस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः जस्टिस् एस् जे मुख्योपाध्याय
विस्तीर्णता
  संहतिः १९६,०२४ km
क्षेत्रविस्तारः सप्तमम्
जनसङ्ख्या (२०११)
  संहतिः ६०,३८३,६२८
  रैङ्क् दशमम्
भारतीयसर्वसाधारणकालमानम् (UTC+०५:३०)
ऐ एस् ओ ३१६६ कोड् IN-GJ
मानवसम्पन्मूलम् increase ०.६२१ (medium)
HDI rank चतुर्दशम् (२००५)
साक्षरताप्रमाणम् ७९.३१%
राज्यभाषा गुजराती
जालस्थानम् http://www.gujaratindia.com

गुजरातराज्यं ( /ˈɡʊdʒərɑːtərɑːdʒjəm/) (गुजराती: ગુજરાત, आङ्ग्ल: Gujarat) भारतस्य पश्चिमे स्थितं किञ्चन राज्यम् । गान्धीनगरम् अस्य राज्यस्य केन्दम् । कर्णावती-सुरत-वडोदरा-राजकोट-महानगराणि राज्यस्मिन् प्रमुखनगराणि सन्ति । अस्य राज्यस्य बृहत्तमं नगरं कर्णावती-महानगरम् अस्ति । श्रीकृष्णस्य द्वारका, द्वादशज्योतिर्लिङ्गेषु अन्यतमः सोमनाथश्च अत्र राराजते । भारतस्य शिल्पी सरदार वल्लभभाई पटेल, भारतस्वतन्त्रतान्दोलननेता मोहनदास करमचन्द गान्धी, भारतीयान्तरिक्षकार्यक्रमस्य पितामहः विज्ञानी विक्रम साराभाई, महान् वैज्ञानिकः होमी भाभा, भारतीयोद्योगस्य पितामहः जमशेदजी ताता, भारतीयचलच्चित्रस्य पितामहः दादासाहेब फाळके, नवभारतस्य स्वप्नद्रष्टा धीरूभाई अम्बाणी, कन्दुकक्रीडायाः अभूतपूर्वक्रीडकः रणजीतसिंहः, बालशिक्षाक्षेत्रे क्रान्तिजनकः गिजुभाई बधेका, भक्तशिरोमणिः नरसिंह महेता इत्यादयः महान्तः व्यक्तयः गुजरातराज्यस्य पवित्रभूमौ जन्म अधन्त । भारतगणराज्यस्य वर्तमानप्रधानमन्त्री नरेन्द्र मोदी त्रयोदशवर्षाणि गुजरातराज्यस्य मुख्यमन्त्री आसीत् ।

भौगोलिकम्

[सम्पादयतु]

गुजरातराज्यं भारतस्य पश्चिमे अरबीसमुद्रस्य तटे स्थितम् अस्ति । पश्चिमसमुद्रतटवर्तिराज्यस्यास्य उत्तरदिशि पाकिस्थानदेशसीमा, राजस्थानराज्यञ्च, पूर्वदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि महाराष्ट्रराज्यं चास्ति । अस्य पश्चिमदिशायाः भागः, दक्षिणदिशायाः कश्चन भागश्च अरबीसमुद्रतटे अस्ति । दक्षिणदिशि केन्द्रशासितप्रदेशाः अपि सन्ति, यथा – दीव, दमण, दादरा, नगर हवेली इत्यादयः । प्राकृतिकसौन्दर्येण परिपूर्णम् एतत् राज्यं स्वेतिहास-परम्परा-संस्कृतिभिः सह गौरवेण स्थितमस्ति । भारतस्य लम्बतमः समुद्रतटविस्तारः गुजरातराज्ये एवास्ति ।

भौगोलिकविभजनम्

[सम्पादयतु]

गुजरातराज्यस्य त्रयः मुख्यविभागाः सन्ति । ते कच्छ, काठियावाडप्रदेशः, मुख्यगुजरातं चेति ।

गुजरातराज्यस्य वायव्यदिशः विशालभागः कच्छप्रदेशान्तर्गतः अस्ति । अत्र भुज इति मुख्यनगरम् । अत्र कच्छसमुद्रकुक्षेः (Gulf of Kachchh) दक्षिणे गिरयः सन्ति । कच्छलघुमरुप्रदेशः पूर्वे, मरुप्रदेशश्च उत्तरेऽस्ति । मरुप्रदेशयोः विस्तारः २३,००० च.कि.मी. अस्ति । मरुभूमित्वात् क्षारयुक्तः प्रदेशः एषः । अतः अत्र कृषिः कूपजलेनैव भवति । अत्रस्थेषु 'भरवाड’जनेषु (pastoral groups) हस्तकलायाः उच्चकोटिज्ञानम् अस्ति । कच्छप्रदेशस्य सूचीकला मुख्यतः सोढाराजपुताः, मेघवालाः, झाटाः, मुठवाः इत्येतासु जनजातिषु दृश्यते । कच्छप्रदेशस्य सूचीकला गुजरातराज्ये एव न, अपि तु समग्रे भारते प्रसिद्धाऽस्ति ।

काठियावाडप्रदेशः

[सम्पादयतु]

सौराष्ट्र इति काठियावाडप्रदेशस्य नामान्तरम् । एतस्य प्रदेशस्योत्तरे कच्छलघुमरुप्रदेशः, वायव्ये कच्छसमुद्रकुक्षिः, नैऋत्ये अरबीसमुद्रः, पूर्वे खम्भातसमुद्रकुक्षिः चास्ति । अत्र राजकोटमहानगरं, भावनगरं च मुख्यकेन्द्रम् अस्ति, यत् आर्थिक-व्यापारक्षेत्रयोः प्रसिद्धम् अस्ति । अत्र समुद्रतटवर्तिप्रदेशः, गिरिप्रदेशः, समतलभूभागश्च वर्तते । गोरखनाथ-इत्याख्यस्य गुजरातराज्यस्य उन्नततमस्य शिखरस्य धाता गिरनारपर्वतः एतस्मिन् प्रदेशेऽस्ति । एषः पर्वतः १,११७ मी. उन्नतः । अत्र यवन-जैन-हिन्दु-बुद्धपन्थानां दरगाह-जिनालय-मन्दिराणि च सन्ति । अस्य पर्वतस्य समीपे एव गीर अभयारण्यम् अस्ति । एतदभयारण्यं 'सासण गीर' इत्यपि प्रसिद्धम् । इदम् 'एशिया’खण्डस्य-सिंहानां निवासः । अत्रस्था भूमिः शुष्कास्ति । अतः कृषिः वर्षाकाले एव भवति ।

मुख्यगुजरातप्रदेशः

[सम्पादयतु]

मुख्यगुजरातप्रदेशस्य भौगोलिकस्थानवर्णने स्वल्पानि स्थानानि सन्ति, परन्तु तानि गुजरातराज्यस्य मुख्यस्थानानि सन्ति । मुख्यगुजरातप्रदेशे उत्तरस्य समभूमिः, दक्षिणस्य लघुपर्वतमाला चान्तर्भवति । अपि चात्र गुजरातराज्यस्य व्यापारोद्योगयोः मुख्यकेन्द्राणि, अहमदाबाद-वडोदरा-सुरतमहानगराणि सन्ति । लघुपर्वतमालायाम् आदिवासिनः निवसन्ति । दक्षिणे वर्षायाः आधिक्यत्वात् कृषिः विपुलतया भवति । वर्षाकाले अत्र कृषिक्षेत्रे उच्चगुणवत्तायाः मृत्तिका लभ्यते । एषा मृत्तिका कृषिक्षेत्रम् अधिकं फलदं करोति ।

गुजरातराज्यस्य अन्यरीत्यापि विभागाः कृताः सर्वकारेण । परन्तु ते विभागाः केवलं व्यवस्थादृष्ट्या, न तु भौगोलिकद्ष्ट्या । ते अत्र चित्रमाध्यमेन ज्ञायन्ते । यथा – उत्तरगुजरातं, मध्यगुजरातं, दक्षिणगुजरातं, सौराष्ट्रं (काठियावाड) इति ।

वातावरणम्

[सम्पादयतु]

भारतदेशे तु ऋतुत्रयं सर्वत्र दरीदृश्यते । एवमेव गुजरातराज्येऽप्यस्ति । अत्र सामान्यतः 'मार्च्’-तः 'मे’-पर्यन्तं ग्रीष्मर्तुः, 'जून्’-तः 'सेप्टेम्बर्’-पर्यन्तं वर्षर्तुः, 'नवम्बर्’-तः 'फेब्रुवरी’-पर्यन्तं शिशिरर्तुः भवति । 'जनवरी’, 'मे’ च क्रमेण शीततमः, ऊष्णतमश्च भवति । अत्र 'अक्टोबर्’-मासेऽपि कदाचित् ऊष्णता भवति, कारणम् एतस्मिन् मासे वातावरणम् आर्द्रयुक्तवर्षर्तोः परिवर्त्य शीत-शुष्कशिशिरर्तोः अनुकूलं भवति । गुजरातराज्यं भिन्नलक्षणयुक्तान् प्रदेशान् स्वस्मिन् धरते । अतः प्रदेशानुसारं वातावरणमपि भिन्नं-भिन्नं भवत्यत्र ।
अत्र ग्रीष्मर्तौ तापमानं २५0C तः ४३0C पर्यन्तं भवति । परन्तु 'मे’-मासे ४८0C पर्यन्तं तापमानं भवितुमर्हति । शिशिरर्तौ तापमानं १२0C तः २७0C पर्यन्तं भवति । वर्षर्तोः मुख्यप्रभावस्तु नैऋत्ये एवाधिकः । सर्वाधिकवृष्टिपातः १,५०० मि.मी. नैऋत्यस्थेषु मण्डलेषु भवति । सर्वापेक्षया न्यूनः वृष्टिपातः कच्छप्रदेशे २५० मि.मी. भवति । गुजरातराज्यस्य अन्यभागेषु समवर्षा भवति ।

जलस्रोतः

[सम्पादयतु]

गुजरातराज्यस्य पश्चिमदिशि, दक्षिणदिशि च क्रमेण कच्छसमुद्रकुक्षिः, खम्भातसमुद्रकुक्षिः चास्ति । एते समुद्रकुक्षी अरबीसमुद्रस्य मुखे स्तः । कच्छ-सौराष्ट्रयोः मध्ये स्थिता कच्छसमुद्रकुक्षिः १८० कि.मी. लम्बमाना स्यात् । वर्षर्तौ एतस्याः समुद्रकुक्षेः जलं कच्छमरुभूमिपर्यन्तम् आगच्छति । तत् स्थानं समुद्रियराष्ट्रियोपवनम्, समुद्रियराष्ट्रियाभयारण्यम् इत्याभ्यां प्रख्यातमस्ति । सौराष्ट्रस्य दक्षिणदिशि स्थितास्ति खम्भातसमुद्रकुक्षिः । दक्षिणदिशि यत् वर्षाधिक्यम् अस्ति, तेन अत्र वेगेन जलं सागरं प्रति गच्छति । तत् जलं नर्मदादीनां नदीनां जलेन अधिकवेगवत् भवति ।

गुजरातराज्यस्य नद्यः
[सम्पादयतु]

नर्मदा-साबरमती-मही-ताप्तीनद्यः गुजरातराज्यस्य प्रमुखाः नद्यः । नर्मदाताप्त्योः प्रवाहः मध्यप्रदेशात् खम्भातसमुद्रकुक्षिपर्यन्तमस्ति, अर्थात् पूर्वात् पश्चिमं प्रति । भारते एते द्वे नद्यौ एव स्तः, ये अरबीसमुद्रे लीने भवतः । भारते नर्मदानद्याः माहात्म्यमधिकं वर्तते । नर्मदायाः उद्गमस्थानम् अमरकण्टकनामकशिवक्षेत्रमस्ति । अतः शिवात् अस्याः नद्याः उद्भवः इति लोकमतम् । उत्तरात् दक्षिणं प्रति वहन्ती साबरमतीनदी पुरा खम्भातसमुद्रकुक्षौ एव लीना भवति स्म । परन्तु कालान्तरे साबरमतीनदी शुष्का जाता । ततः परं नर्मदायोजनान्तर्गतं कुल्यानां (Canal) निर्माणमभूत् । अथ नर्मदायाः जलं कुल्या(Canal)माध्यमेन साबरमतीं प्रति प्रवहति । अतः साबरमतीनद्यां नर्मदाजलं वहत्यधुना ।

गुजरातराज्यस्य मण्डलानि

[सम्पादयतु]

गुजरातराज्यस्य मण्डलानि

सङ्केतः मण्डलम् मण्डलकेन्द्रम् जनसङ्ख्या (2011) विस्तीर्णता (km²) सान्द्रता (/km²) अधिकृतजालपुटम्
AHअहमदाबादअहमदाबाद७२,०८,२००८,०८७८९०http://amdavad.gujarat.gov.in/%5B%5D
AMअमरेलीअमरेली१५,१३,६१४७,३९७२०५http://amreli.gujarat.gov.in/ Archived २००४-०३-१८ at the Wayback Machine
ANआणन्दआणन्द२०,९०,२७६२,९५१६३१http://anand.gujarat.gov.in/ Archived २००९-०५-०६ at the Wayback Machine
BKबनासकाठापालनपुरम्३१,१६,०४५१०,४००२९०http://banaskantha.gujarat.gov.in/ Archived २००९-०५-२० at the Wayback Machine
BRभरुचभरुच१५,५०,८२२६,५२७२३८http://bharuch.gujarat.gov.in/ Archived २००९-०४-१० at the Wayback Machine
BVभावनगरम्भावनगरम्२८,७७,९६१९,९००२८८http://bhavnagar.gujarat.gov.in/ Archived २००९-०४-२७ at the Wayback Machine
DAदाहोददाहोद२१,२६,५५८३,७३३५८२http://dahod.gujarat.gov.in/
DGडाङ्गआहवा२,२६,७६९१,७६४१०६http://dangs.gujarat.gov.in/
GAगान्धिनगरम्गान्धिनगरम्१३,८७,४७८२,१६३६६०http://gandhinagar.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
JAजामनगरम्जामनगरम्२१,५९,१३०१४,१२५१५३http://jamnagar.gujarat.gov.in/ Archived २०२०-०४-१९ at the Wayback Machine
JUजुनागढजुनागढ२७,४२,२९१८,८४६३१०http://junagadh.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
KAकच्छभुज२०,९२,३७१४५,६५२४६http://kutch.gujarat.gov.in/ Archived २०२०-११-०१ at the Wayback Machine
KHखेडानडियाद२२,९८,९३४४,२१८५४१http://kheda.gujarat.gov.in/ Archived २०१२-०३-०१ at the Wayback Machine
MAमहेसाणामहेसाणा२०,२७,७२७४,३९३४६२http://mehsana.gujarat.gov.in/ Archived २०२०-०४-२० at the Wayback Machine
NRनर्मदाराजपीपळा५,९०,३७९२,७५५२१४http://narmada.gujarat.gov.in/ Archived २०२०-१०-२५ at the Wayback Machine
NVनवसारीनवसारी१३,३०,७११२,१९६६०२http://navsari.gujarat.gov.in/
PAपाटणपाटण१३,४२,७४६५,७००२३४http://patan.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
PMपञ्चमहालगोधरा२३,८८,२६७५,१००४५८http://panchmahals.gujarat.gov.in/ Archived २०१०-०८-११ at the Wayback Machine
POपोरबन्दरपोरबन्दर५,८६,०६२२,२९५२५५http://porbandar.gujarat.gov.in/ Archived २०२०-११-०३ at the Wayback Machine
RAराजकोटराजकोट३७,९९,७७०११,२०३३३९http://rajkot.gujarat.gov.in/ Archived २०२०-११-०१ at the Wayback Machine
SKसाबरकाठाहिम्मतनगरम्२४,२७,३४६७,३९०३२८http://sabarkantha.gujarat.gov.in/ Archived २०११-०९-१३ at the Wayback Machine
SNसुरेन्द्रनगरम्सुरेन्द्रनगरम्१७,५५,८७३१०,४८९१६७http://surendranagar.gujarat.gov.in/ Archived २०२०-११-०९ at the Wayback Machine
STसुरतसुरत६०,७९,२३१४,३२७१,३७६http://surat.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
VDवडोदरावडोदरा४१,५७,५६८७,५५५५५१http://vadodara.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
VLवलसाडवलसाड१७,०३,०६८२,९९०५६१http://valsad.gujarat.gov.in/ Archived २०२०-०६-०८ at the Wayback Machine
TAतापीव्यारा८,०६,४८९३,४३५२४९http://tapi.gujarat.gov.in/ Archived २०१५-०४-३० at the Wayback Machine

महानगराणि

[सम्पादयतु]

कर्णावती-महानगरं साबरमतीनद्याः तीरे विकसितमस्ति । गुजरातराज्यस्य अहमदाबादमण्डलस्य केन्द्रमेतन्महानगरम् । गुजरातराज्यस्य बृहत्तममेतन्नगरं भारतस्य महानगरेषु पञ्चमम् अस्ति । अस्य जनसङ्ख्या(२०११) ५,५७०,५८५ अस्ति । अत्र यन्त्रशालानां, व्यापारीकरणस्य च विकासः अधिकः । अस्य विकासस्य गणना राष्ट्रियस्तरेऽपि भवति । पुरा कर्णावती-महानगरं गुजरातराज्यस्य राजधानी आसीत् । पश्चात् १९८० तमे वर्षे सर्वकारः कर्णावतीमहानगरस्य एकं भागं पृथक्कृत्वा गान्धिनगराख्यं नवीननगरं निर्मापितवान्, तदेव राजनधानी इति अघोषयच्च । तथापि गुजरातराज्यस्य आर्थिकराजधानी तु कर्णावती एव ।

सुरतमहानगरं ताप्तीनद्याः तीरे स्थितं महानगरमस्ति । गुजरातराज्यस्य द्वितीयं बृहत्तममेतन्महानगरं सुरतमण्डलस्य प्रशासनिककेन्द्रम् । अस्य जनसङ्ख्या(२०११) ७,५७३,७३३ अस्ति । आङ्ग्लकाले एतन्महानगरं व्यापारस्य मुख्यकेन्द्रमासीत् । तदा विदेशं वस्तूनां प्रेषणाय अस्य समुद्रतटस्यैवोपयोगं भवति स्म । सद्यः वस्त्र-वज्र(Diamond)योः उद्योगाय गुजरात-भारतयोः एव न, अपि तु विश्वप्रख्यातमस्ति एतन्महानगरम् । विश्वस्य ९०-९५% वज्रविपणिं (Diamond Market) एतत् महानगरमेव चालयति । अतः एतन्महानगरं वज्रनगरम् (The Diamond City) इति प्रख्यातम् ।

अस्ति। १९०९ के बड़ौदा राज्य वडोदरस्य प्रथमः ऐतिहासिकः उल्लेखः क्रि. अङ्कोटक-नगरस्य (वर्तमानस्य अकोटा) समीपस्थस्य अस्य वत्पदराग्रामस्य महत्त्वं दशमशतके एव वर्धितम् । परन्तु वडोदरा-नगरस्य अकोटा-नगरे पुरातत्त्वीय-उत्खननेन अस्मिन् क्षेत्रे प्रायः ३००० वर्षपूर्वस्य प्रागैतिहासिक-सभ्यतायाः प्रमाणानि प्राप्तानि.[]

वडोदरामहानगरं गुजरातराज्यस्य तृतीयं बृहत्तमं महानगरमस्ति । अस्य जनसङ्ख्या(२०११) २५,२१,००० अस्ति । विश्वामित्रीनद्याः तीरे विकसितम् एतन्महानगरम् । वडोदरामहानगरस्य वटपुरम्, बरोडा इत्यपि नामान्तरे स्तः । वटपुरस्य सुवर्णेतिहासः अस्य महता शिक्षणप्रियराज्ञा ‘सयाजीराव गायकवाड’ इत्यनेन सुप्रसिद्धः अस्ति । यदा यदा वडोदरामहानगरस्य नामोल्लेखः भवति, तदा तदा ‘सयाजीराव गायकवाड’-राज्ञः अपि स्मरणं भवत्येव । अतः तस्य नाम्ना विश्वविद्यालयस्य स्थापनापि कृतास्ति अत्र । तस्य विश्वविद्यालयस्य नाम 'महाराजा सयाजीराव गायकवाड' विश्वविद्यालयः (M.S. University) इति । एतन्महानगरं अग्नितैल(Petroleum)-यन्त्रनिर्माणविद्या(Engineering)-वस्त्रोद्योगे(Textile)भ्यः प्रख्यातमस्ति ।

राजकोटमहानगरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रेआजीनद्याः तीरे स्थितमस्ति । सौराष्ट्रस्य बृहत्तमम् एतन्महानगरम् गुजरातराज्यस्य महानगरेषु चतुर्थमस्ति । एतन्महानगरं राजकोटमण्डलस्य प्रशासनकेन्द्रमस्ति । अस्य जनसङ्ख्या(२०११) ३,८०४,५५८ अस्ति ।

पौराणिकं गुजरातराज्यम्

[सम्पादयतु]

पौराणिककाले गुजरातराज्यम् अनर्तदेश नाम्ना प्रसिद्धम् आसीत् । गिरनार-सोमनाथयोः उल्लेख: पुराणेषु अस्ति । पुराणकाले सरस्वतीनद्या: प्रवाह: गुर्जरराज्यपर्यन्तम् आसीत् इति जनानाम् अनुमानम् । महाभारतकाले भगवता श्रीकृष्णेन गुर्जरराज्यस्य पश्चिमे तटे द्वारकानगरी निर्मापिता इति पुराणे उल्लेखोऽस्ति । अज्ञातवासे पाण्डवा: यत्र निवासं कृतवन्त:, सा विराटनगरी अद्यतने कच्छप्रदेशे एव कुत्रचित् आसीत् इत्यनुमीयते । महर्षिः याज्ञवल्क्यः नर्मदाया: तटे वासम् अकरोत् । सद्यः साबरमतीनद्याः तीरे साबरमती आश्रमः अस्ति, तत्रैव दधीचिर्षेः आश्रमः आसीत् इति संशोधकानां मतम् ।

पद्मपुराणे नारदभक्त्योः संवादः सम्प्राप्यते। तत्र गुर्जरदेशस्य चर्चा जाता अस्ति। यदा नारदः भक्तिं पृच्छति स्वदुःखकारणं, तदा सा प्रत्युत्तरे स्ववेदनां वदति। सा वेदना बहुषु श्लोकेषु वर्णिता। तेषु श्लोकेषु एव गुर्जरदेशस्य उल्लेखः सम्प्राप्यते -

स्थिता किञ्चिन्महाराष्ट्रे गुर्जरे जीर्णतां गता।

तत्र घोरकलेर्योगात्पाखण्डैः खण्डिताङ्गता।। []

भविष्यपुराणे कृष्णांशावतारस्य चर्चायाः काले सूतः गुर्जरदेशस्य उल्लेखं करोति। यथा -

वत्सराजो ययौ देशे गुर्जरे च मदालसाम्।

स सुतां च समादाय दिने तस्मिन्समागतः ।। २२ ।।

ऐतिहासिकं गुजराजराज्यम्

[सम्पादयतु]

सिन्धुग्राम्यसंस्कृतिः (Indus Valley Civilization)

[सम्पादयतु]

सर्वदेशानां, राज्यानाञ्च इतिहासः भवति । परन्तु सर्वेषाम् इतिहासस्य पुष्टता भवति इति तु अशक्यमेव । कारणम् इतिहासस्य बह्व्यः घटनाः किंवदन्तिरूपेण, काल्पनिकघटनारूपेण वा भवन्ति । काश्चन घटनाः सत्यभूताः स्युरेव, तथापि तासां प्रमाणं न प्राप्नुवन्ति संशोधकाः । गुजरातराज्यस्य इतिहासविषये एवं नास्ति । ५०००-५४०० वर्षपुरापि यः इतिहासः आसीत्, तस्य पुष्टतां स्वयं गुर्जरभूमिरेव करोति । देशे, विदेशे च सर्वत्र चर्चा भवति यत् भारतस्य संस्कृतिः अति प्राचीना इति । पूर्वम् एतस्याः चर्चायाः तर्काः आसन्, परन्तु १९८८ तमे वर्षे हरप्पासंस्कृतेः अवशेषे प्राप्ते सति प्रमाणमपि प्राप्तम् । कच्छसमुद्रकुक्ष्याः ३० कि.मी. दूरस्थात् मोरबी इतस्मात् नगरात् प्राप्ताः हरप्पासंस्कृतेः अवशेषाः गुजरात-भारतयोः इतिहासस्य प्रमाणमस्ति । भारतीयग्रन्थास्तु भारतस्य इतिहासं वर्णयन्ति एव, परन्तु गुजरात-महाराष्ट्र-पञ्जाब-हरियाणा-जम्मूकाश्मीर-राजस्थानराज्येषु हरप्पासंस्कृत्याः अवशेषे प्राप्ते सति ग्रन्थानां कथनं प्रमाणीभूतं जातम् । भारतस्य पूर्वाङ्गयोः अफ्घानिस्थान-पाकिस्थानयोः अपि हरप्पासंस्कृतेः अवशेषाः प्राप्ताः । गुजरातस्य लोथल-सुरकोतदा-रोजडी-मालवड-देसलपुर-धोळावीरा-रङ्गपुरेभ्यः हरप्पासंस्कृतेः मुद्रण-कला-भाषा-नगरादीनां विषये प्रमाणानि प्राप्तानि ।

मध्ययुगेतिहासः

[सम्पादयतु]

गुजरातराज्यस्य लिखितेतिहासे वर्णितमस्ति यत् मौर्यवंशस्य (३२२-१८५ B.C.E) आधिपत्यं गुजरातराज्ये आसीत् । मगधस्य नन्दवंशस्य नाशं कृत्वा, गणराज्यपरम्परां समाप्य, भारतस्य चक्रवर्तिराजा चन्द्रगुप्तः ई.स. ३२२ तमे वर्षे सौराष्ट्रं जित्वा गिरनारपर्वते स्वकीयं पुष्पमित्रनामकम् उपराजत्वेन न्ययुङ्क्त । अत्र मौर्यवंशस्य प्रख्यातः राजा अशोकः(२७३-२३२ B.C.E.) बुद्धधर्मस्य आदेशप्रसाराय शिलालेखस्य स्थापनां चकार ।
मौर्यवंशस्य अन्ते सति गुजरातराज्यस्य विभाजनं प्रारब्धम् । १३० तः - ३९० पर्यन्तं सीदीवंशीयराजानाम् आधिपत्यमासीत् । गुप्तवंशस्य राज्यं ४१५ तः - ४७० पर्यन्तमासीत् । मैत्रकवंशस्य राज्यं ४७३ तः - ७८८ पर्यन्तमासीत् । एतस्मिन् काले जैनधर्मस्य प्रचारः अधिकः जातः । ८-९ शताब्दे अत्र 'गुज्जर’वंशस्य राज्यम् आसीत् । एतस्मात् वंशात् एव अस्य प्रदेशस्य नाम गुजरात इति । सोलङ्कीवंशस्य शासनकालः गुजरातराज्यस्य सुवर्णकालः आसीत् । अस्य वंशस्य काले गुजरातराज्यम् आधुनिकव्यवस्थानाम् उपभोक्तृ अभवत् । नवीनकलाभिः निर्मितानि वस्तूनि, सूर्यकिरणैः चलन्ति साधनानि च एतस्मिन् काले विकसितानि आसन् । साहित्य-कला-व्यापार-स्थापत्यविद्यादीनां विपुलप्रसारः जातः । पाटणपत्तने 'पटोळा' कलायाः विकासः एतस्मिन् काले एव जातः ।

विदेशीशासनम्

[सम्पादयतु]

विदेशीजनां लक्ष्यमासीत् भारतस्य विपुलसम्पत्तेः हरणम् । अतः ते वारंवारं भारतस्य मन्दिराणाम् आक्रमणं कृत्वा धनम् अलुण्ठन् । १२, १३, १४ शताब्दे भारतस्य केन्द्रे यवनानां शासनमेवासीत् । १०२६ तमे वर्षे 'महमद गजनी' नामकः अफगानराजा सोमनाथमन्दिरम् अलुण्ठत्, मन्दिरं ध्वस्तञ्च अकरोत् । तथा च असङ्ख्याकानां यात्रिकानां वधं कृत्वा, अन्ते मन्दिरं अग्निसादकरोत् । एवम् अनेकवारम् आक्रमणेन भारतीयसंस्कृतेः हानिः जाता । १५७३ वर्षपर्यन्तं 'मुजाफ्फरदीन'वंशस्य शासनम् आसीत् । तस्य वंशस्य काले एव १४११ तमे वर्षे 'अहमद्’ नामकः राजा अहमदाबाद-महानगरस्य स्थापनां चकार । पश्चात् १६ शताब्दे मुघलवंशीयः राजा ‘अक्बर्’ गुजरातराज्यस्य अधिपतिः जातः ।

भारतेतरनिवेशकानां वृद्धिः

[सम्पादयतु]

'वास्को-द-गामा’-नामकः कश्चन पुर्तगाली १४९८ तमे वर्षे भारतं प्राप्तवान् । सः दीव-दमणप्रदेशौ स्वाधीनं कृतवान् । क्रमेण 'डच्’-‘ब्रिटिश'-‘फ्रेञ्च्’-जनाः भारतं प्राप्तवन्तः । सर्वे स्वस्वार्थं सिद्धं कुर्वन्तः भारतं लुण्ठितवन्तः । १७ शताब्दे मुघलसाम्राज्यस्य राज्ञैः 'ईस्ट् इण्डिया कम्पनी’ इत्यनेन सह व्यापारसन्धिः कृता । ततः आङ्ग्लाः व्यापारमाध्यमेन भारतस्य अर्थतन्त्रोपरि स्वामित्वं स्थापितवन्तः । व्यापारे तेषाम् एकाधिकारेण (Monopoly) पुर्तगालीजनाः पराजिताः । अतः सुरतमहानगरम् आङ्ग्लानाम् आधिपत्ये आगतम् । ततः मुम्बई, दीव, दमण अपि ते स्वाधीनं कृतवन्तः । तस्मिन्नेव समये १७५३ तमे वर्षे मराठाप्रदेशसैनिकौ दामजीगायकवाड-रघुनाथौ कर्णावतीमहानगरं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । तौ वडोदरामहानगरं स्वराजधानीम् अघोषयताम् । परन्तु १९ शताब्दस्य आरम्भे गुजरातस्याधिपत्यं 'ग्रीक्’-‘ईष्ट् इण्डिया कम्पनी’ इत्यनयोः मध्ये विभजितं जातम् ।

आङ्ग्लशासनम्

[सम्पादयतु]

स्वव्यापारस्य माध्यमेन पूर्वमेव आङ्ग्लाः भारतस्य अर्थतन्त्रस्योपरि स्वाधिपत्यं स्थापितवन्तः आसन् । १८१८ तमे वर्षे 'ईस्ट इण्डिया कम्पनी'जनाः मराठाशासकेभ्यः गुजरातराज्यं बलात् नीतवन्तः । तस्मात् कालात् आराभ्य १९१५ वर्षपर्यन्तं आङ्ग्लाः अस्य सञ्चालनं दृढतया कृतवन्तः । यद्यपि १८५७ तः वर्षद्वयं यावत् भारतीयैः आङ्ग्लानां प्रबलविरोधः कृतः आसीत्, तथापि आङ्ग्लाः स्वाधिपत्यं निश्चितं कृतवन्तः । एवं भारतस्य सर्वप्रथमाङ्ग्लप्रदेशरूपेण गुजरातप्रदेशस्य गणना जाता । १९-२० शताब्दे गुजरातराज्यं व्यापार-गृहनिर्माण-समाजसेवाक्षेत्रेषु स्वविकासम् अकरोत् । गुजरातराज्यस्य अहमदाबाद-सुरत-वडोदरामहानगरेषु बहूनां यन्त्रशालानां निर्माणं जातम् इति अस्य प्रख्यातमुदाहरणम् । २० शताब्दस्य प्रारम्भात् भारतस्य काश्चन संस्थाः भारतस्वतन्त्रतायाः विचारं प्रारभन्त । १९१५ तमे वर्षे महात्मना कोचरब-आश्रमस्थापनापर्यन्तम् आङ्ग्लैः निग्रहरूपेण सञ्चालनं कृतम् । परन्तु आश्रमस्य स्थापना आङ्ग्लशासकेभ्यः सूचनासीत् यत् "युष्माकं शासनसमाप्तेः समयः आगतः" इति । एवं गुजरातराज्ये भारतस्वतन्त्रतान्दोलनस्य आरम्भः अभूत् ।

गुजरातराज्यस्य स्थापना

[सम्पादयतु]
महागुजरातान्दोलनस्य दृश्यम्

गुजरातराज्यस्य बहवः नेतारः भारतस्वतन्त्रान्दोलने स्वयोगदानं कृतवन्तः । यथा – सरदार् वल्लभभाई पटेलः, महादेवभाई देसाई, मोहनदासकरमचन्दगान्धिः इत्यादयः । तेषां अमूल्ययोगदानेनैव भारतस्य जनाः स्वतन्त्राः सन्ति । १९४७ तमे वर्षे 'अगस्त्’-मासस्य १५ दिनाङ्के भारतस्वतन्त्रतोल्लासः भारतीयानां हृदि आसीत् । परन्तु आङ्ग्लजनितेन अन्तःकलहेन हिन्दु-यवनयोः साम्प्रदायिकहिंसा प्रारब्धा जाता । यवनानां प्रस्तावः आसीत् यत् भारतस्य विभाजनं भवेत्, यवनानां कृते पाकिस्थान इति नवराष्ट्रस्य निर्माणञ्च भवेत् इति । एवं भारतस्य मस्तकः भारतात् भिन्नः जातः ।
स्वतन्त्रतोत्तरं गुजरातप्रदेशः बोम्बे-राज्यस्य भागः जातः । ततः १९५६ तमे वर्षे कच्छ-सौराष्ट्रे अपि बोम्बे-राज्ये अन्तर्भूते जाते । तस्मिन्नेव समये महागुजरातान्दोलनं गुजरातराज्यस्य हितार्थम् आरब्धम् । अस्यान्दोलनस्योद्देशः स्पष्टः आसीत् यत् "गुजारतीभाषावक्तॄणां भिन्नं राज्यं भवेत्” इति । आन्दोलनफलत्वेन १९६० तमे वर्षे 'मे’-मासस्य १ दिनाङ्के नवगुजरातराज्यस्य स्थापना जाता ।
गुजरातराज्यस्य कच्छमरुभूमिः भारतस्य सशस्त्रसेनायाः सीमाक्षेत्रमस्ति । १९६५ तमे वर्षे उभयतः युद्धविरामभङ्गे सति कच्छमरुभूमौ भारत-पाकिस्थानयोः युद्धमभूत् । तत्रस्था ९०% भूमिः विवादितभूमित्वेन गण्यते अधुना । अतः सद्यः अपि हिन्दुनद्याः तीरे स्थितस्य 'सरक्रीक’ग्रामस्य समीपे भारत-पाकिस्थानयोः युद्धविरामभङ्गस्य वार्ता श्रूयते ।

अर्थव्यवस्था

[सम्पादयतु]

भारतस्य महत्वपूर्णा गुजरातराज्यस्यार्थव्यवस्था कृषिक्षेत्रे, उद्योगक्षेत्रे च स्वयोगदानं ददाति । गुजरातराज्यं कृषिक्षेत्रे कार्पास(Cotton)-कलाय(Peanuts)-खर्जूर-इक्षु-दुग्ध-दुग्धवस्तूनाञ्च योगदानं करोति । उद्योगक्षेत्रे अश्मचूर्ण(Cement)-अग्नितैल(Petroleum)क्षेत्रयोः गुजरातराज्यस्य महत्वपूर्णं योगदानमस्ति ।
विश्वस्य बृहत्तमः पोतभङ्गशाला (ship breaking yard) भावनगरस्य समीपे अलङ्गक्षेत्रेऽस्ति । धीरूभाई अम्बाणीद्वारा स्थापितायाः 'रिलायन्स् इण्डस्ट्रीस् लिमिटेड्’ इत्यस्याः संस्थायाः जामनगरस्य समीपे तैलशुद्धीकरणशाला (oil Refinery ) अस्ति । एषा तैलशुद्धीकरणशाला विश्वस्य बृहत्तमा 'ग्रास् रूट् रिफाइनरि’ अस्ति ।
Gas-based thermal electricity generation इत्यस्मिन् क्षेत्रे गुजरातराज्यस्य प्रप्रथमस्थानमस्ति । भारतस्य विद्युत्-विपण्याः (Electricity Market) कृते गुजरातराज्यस्य ८% योगदानमस्ति । भारते अणुना या विद्युत् उत्पाद्यते, तस्यां गुजरातराज्यस्य १% योगदानमस्ति । अणुविद्युदुत्पादने गुजरातराज्यस्य द्वितीयं स्थानम् ।
भारतस्य सर्वेभ्यः राज्येभ्यः गुजरातराज्यस्य आयः (social capital) सर्वाधिकः अस्ति । विश्वेऽस्मिन् त्रिप्रकारकाः देशाः भवन्ति । यथा – विकसितदेशाः, विकासशीलदेशाः, अविकसितदेशाश्च । भारतं तु विकासशीलदेशः । Legatum Institute इत्यस्याः संस्थायाः Global Prosperity Index 2012 इति संशोधनपत्रानुसारं विश्वस्य १४२ उत्तमराज्येषु गुजरातराज्यस्य स्थानं १५ तमम् अस्ति । एतस्मिन्नेव शोधपत्रे उल्लिखितमस्ति यत्, तेषु १४२ उत्तमराज्येषु विकसितदेशानां कतिचन एव राज्यानि स्थानं प्राप्तुं समर्थानि अभूवन् इति । अतः विकासशीलदेशस्य राज्यं सत् अपि गुजरातराज्यम् अत्र स्थानं प्राप्तवत् इति तु महत्साधनमेव ।

न्यायव्यवस्था

[सम्पादयतु]

गुजरातराज्योच्चन्यायालयस्य स्थापना १९६० तमे वर्षे अभूत् । 'बोम्बे’-राज्यात् भिन्ने जाते सति अस्य उच्चन्यायालयस्य संस्थापनं Bombay Re-organisation Act, 1960 अन्तर्गतमभूत् । सद्यः अत्र ४२ न्यायाधीशाः सन्ति । एषः न्यायालयः अहमदाबाद-महानगरस्य सोलाक्षेत्रे स्थितः अस्ति ।

पाकपद्धतिः

[सम्पादयतु]

गुजरातीभोजनं शाकाहारी एव भवति । 'गुजरातीथाली' इत्यस्यां मिष्ठान्नं, शाकं, सूपः, रोटिका, भाखरी, द्विदलः(pules), तक्रम्, अवलेहः च भवति । अत्र चणकेन निर्मितं खाद्यमधिकं लभ्यते । यथा – 'खमण', 'ढोकळा’, 'फाफडा’, 'दाबेली' इत्यादयः । अत्र उत्तरभारतीय-दक्षिणभारतीय-पूर्वभारतीयभोजनमपि लभ्यते । अत्र 'फरसाण' इति भोजनप्रकारः अपि बहु प्रचलितः अस्ति । महात्मनः विचारेण प्रेरिते गुजरातराज्ये मदिरापानं वर्ज्यमस्ति ।

गुजरातराज्यस्य भूगोलस्य वैशिष्ट्यकारणात् अत्र अनेकानां वन्यप्राणिनां, पक्षिणां च संरक्षणकेन्द्राणि सन्ति । गुजरातराज्यस्य वायव्ये दिशि कच्छमरुभूमिः अस्ति । अत्र केचन वन्यप्राणिविशेषाः सन्ति, ये विश्वे अन्यत्र कुत्रापि न दृश्यन्ते । एवमेव गुजरातराज्यस्य आग्नेये दिशि विद्यमाने डाङ्गमण्डले आर्द्रारण्यानि सन्ति, येषु विविधप्राणिपक्षिविशेषाः दरीदृश्यन्ते । अत एव वन्यप्राणिषु, पक्षिषु च ये आसक्ताः, तेभ्यः गुजरातराज्ये विद्यमानानि अभयारण्यानि, पक्षिधामानि, राष्ट्रियोद्यानानि च आकर्षणीयानि प्रेक्षणीयस्थलानि इत्यत्र न कश्चन संशयः । यथा - नळसरोवरपक्षिधाम, कच्छलघुमरुभूमिः ('लिटल् रण् आफ् कच्छ्'), कच्छहरितभूमिः ('ग्र्यास्-ल्याण्ड्स् आफ् कच्छ्'), गीर राष्ट्रियोद्यानम् अभयारण्यञ्च, वेलावदर राष्ट्रियोद्यानम् इति ।

परिवहनम्

[सम्पादयतु]

गुजरातराज्यपरिवहननिगमः (Gujarat State Road Transport Corporation - GSRTC) गुजरातराज्यस्य परिवहनव्यवस्थां पश्यन्ती संस्थास्ति । प्रारम्भिके काले ७ विभागाः, ७६ 'बस्’स्थानकानि, ७ कार्यशालाः, १,७६७ 'बस्’यानानि च आसन् । सद्यः १६ विभागाः, १२६ 'बस्’स्थानकानि, २२६ कार्यशालाः, ८,००० 'बस्’यानानि सन्ति । ५०,००० कार्यकर्तारः सेवारताः सन्त्यत्र ।

विशिष्टव्यक्तयः

[सम्पादयतु]

विशिष्टलक्षणैः, विशिष्टवातावरणेन, विशिष्टोद्योगैः च युक्ता गुजरातभूमिः विशिष्टव्यक्तीनामपि जन्मदात्री अस्ति । यथा –

वीक्षणीयस्थलानि

[सम्पादयतु]

सोमनाथमन्दिरं, नागेश्वरः, द्वारका, मोढेरा सूर्यमन्दिरम्, अडालजनी वाव, अक्षरधाममन्दिरम् इत्यादीनि गुजरातराज्यस्य वीक्षणीयस्थलानि सन्ति ।

सम्बद्धाः लेखाः

[सम्पादयतु]

कर्णावती-महानगरम्

सूरत-महानगरम्

वडोदरा-महानगरम्

राजकोट-महानगरम्

एकतामूर्तिः

सरदार वल्लभभाई पटेल

बाह्यतन्तुः

[सम्पादयतु]

https://en.wikipedia.org/wiki/Economy_of_Gujarat
www.gujarattourism.com गुजरातप्रवासनसंस्था- गुजरातराज्यम्

  1. "Gujarat State Gazetteers: Vadodara District".
  2. पद्मपुराणम्, खण्डः ६ (उत्तरखण्डः), अध्यायः १९३, श्लोकः - ५१
"https://sa.wikipedia.org/w/index.php?title=गुजरातराज्यम्&oldid=484058" इत्यस्माद् प्रतिप्राप्तम्