जीवराज महेता

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


डॉ.जीवराजभाई महेता(गुजराती: જીવરાજ મહેતા,आङ्ग्ल: Dr.Jivraj Narayan Mehta गुजरातराज्यस्य प्रथममुख्यमन्त्री आसीत् । साम्प्रतकाले सत्तां प्राप्तुं राजनीतिधनजात्यादीनां बलमनिवार्यमस्ति । किन्तु जीवराज महेता इत्येतस्य पार्श्वे एतेषु किमपि नासीत् । स्वस्य ज्ञानबलेनैव सः अग्रगामी अभवत् । स्वस्य ज्ञानमर्थात् सर्वेषां क्षेत्राणां ज्ञानम् । सः चिकित्साछात्रः आसीत् तथापि वित्तमन्त्री इति पदभारं सफलतया ऊढवान् ।

जन्म, परिवारञ्च[सम्पादयतु]

गुर्जरप्रान्ते जैनाः अग्रगामिनः, तेष्वपि कपोलजातिजनाः मुखरास्सन्ति । तस्यामेव जातौ नारायणभाई महेता इत्येतस्य गृहे १८८९ तमस्य वर्षस्य अगस्त-मासस्य एकोनत्रिंशत्तमे (२९) दिनाङ्के अमरेली-नगरे जीवराजभाई महेता इत्यस्य जन्म अभवत् । माता, पिता, पितामही च पुष्टिमार्गे आस्थायुताः आसन् । अतः जीवराजभाई इत्यस्मिन्नपि वैष्णवधर्मस्य संस्कारः आसीत् ।

शिक्षणम्[सम्पादयतु]

अमरेली-नगरे गायकवाड इत्यस्य शासनकारणात् प्राथमिकशिक्षणम् अनिवार्यम् आसीत् । अस्य प्रथमलाभार्थी जीवराजभाई आसीत् । तेन अमरेली-नगरस्य एङ्ग्लो वर्नाक्युलर् नामकशालायां मेट्रिक् पर्यन्तम् अभ्यासः कृतः । जीवराजभाई इत्यस्य पितामही अन्धा आसीत् । सा गृहकार्यरता इति दृष्ट्वा जीवराजभाई महेता विचारयति स्म यत् – “यदि पितामही अन्धायां सत्यामपि बहूनां जनानां सहायिका भवति तर्हि भगवता मह्यं तु अक्षिणी प्रदत्ते इत्यतः मया कियज्जनानां सहायता कर्तव्या ?” इति । एवं विचार्य पितुः साहाय्यं कर्तुं जीवराजभाई सिविल सर्जन इत्यस्य बालकं पाठयितुम् आरभत । यदा जीवराजभाई सिविल सर्जन इत्यस्य गृहं गतः, तदा चिकित्सकः जनेभ्यः निःशुल्कम् औषधं ददाति, जनाः तस्मै आशिषः ददति इति अपश्यत् । इदं सर्वं दृष्ट्वा तेनापि चिकित्सकः भवितुं निर्णयः कृतः ।

उच्चशिक्षणम्[सम्पादयतु]

१९०४ तमे वर्षे जीवराजभाई मेट्रिक् परीक्षायां समुत्तीर्य मुम्बई-नगरस्य ग्रान्ट् मेडिकल् कोलेज् इत्यस्मिन् प्रवेशं प्रापत् । तस्य निवासः जैनछात्रालये आसीत् । अतः तत्राऽपि निवासशुल्कं नासीत् । तेन पठनारम्भे सति महाविद्यालयतः छात्रवृत्तिः प्राप्ता । अतः अभ्यासव्ययः न्यूनः अभवत् । १९०७ तमे वर्षे एल्.एम्. एन्ड् एस्. इत्यस्य अन्तिमवर्षस्य परीक्षायां सर्वाधिकपुरस्काराः अनेन अर्जिताः । अष्टसु सप्तविषयेषु छात्रवृत्त्या सह सुवर्णपदकाः प्राप्ताः । अष्टमे विषये ग्वालियर-नगरस्य डॉ. दीक्षित इत्यनेन सह अर्धछात्रवृत्तिः लब्धा । विद्यालयस्य वर्षशतस्य इतिहासे इत्थं प्रथमवारमभवत् । मुम्बई-नगरस्य विश्वविद्यालयात् जीवराजभाई इत्यनेन लॉर्ड सेन्डहर्स्ट सुवर्णचन्द्रकः लब्धः । प्रथमवर्षादेव जीवराज महेता छात्रवृत्तिं प्रापत् । तेन विचारितं यत् – “अहं छात्रवृत्तिं प्राप्स्यामि अतः मया छात्रालये निःशुल्कं निवासः न कर्तव्यः” । अतः सः छात्रालयस्य विश्वासिने (trustee) पत्रम् अलिखत् यत् – “मह्यं विद्यालयपक्षतः छात्रवृत्तिः, विगुणछात्रवृत्तिः दीयते । अतः मह्यं दीयमानं साहाय्यं यदि अन्यस्मै छात्राय प्रदीयते तर्हि आनन्दम् अनुभविष्यामि” इति ।

चिकित्सायाः अभ्यासाय इङ्ग्लेण्ड-देशे गमनम्[सम्पादयतु]

चिकित्साक्षेत्रे उच्चाभ्यासाय जीवराजभाई इत्ययं १९०९ तमे वर्षे यदा इङ्ग्लेण्ड-देशमगच्छत्, तदा तेन ताता-संस्थातः साहाय्यं प्राप्तम् । लण्डन्-नगरस्य विश्वविद्यालये अभ्यासे सः निरन्तरं मुखरः आसीत् । इत्थं पञ्चवर्षं यावत् कठोरपरिश्रमेण १९१४ तमे वर्षे तेन विश्वविद्यालयस्य एम्.डि. इति पदवी प्राप्ता सुवर्णचन्द्रकश्च प्राप्तः । तस्यां प्रथमक्रमः अपि प्राप्तः ।

रङ्गभेदस्य विरोधः[सम्पादयतु]

प्रथमक्रमवशात् सः चिकित्सालये चिकित्सकपदस्य अधिकारी आसीत् । किन्तु रङ्गभेदकारणात् तत्स्थानं श्वेतवर्णीयाय चिकित्सकाय प्रदत्तम् । इङ्ग्लेण्ड-देशे रङ्गभेदं दृष्ट्वा जीवराजभाई इत्ययं विरोधं कर्तुम् अविचारयत् । किन्तु केवलं जीवराजभाई इत्ययं विरोधं करोति चेत्तेन लाभः नासीत् । अतः सः जापानी, सिलोनी इत्यादिछात्राणां सङ्घटनम् अकरोत् । एशिया-विद्यार्थिनां सम्मुखे चिकित्साचालकानां पराजयोऽभवत्

जीवराजभाई इत्यस्य सेवा[सम्पादयतु]

इङ्ग्लेण्ड-देशे जीवराजभाई षड् वर्षाणि यावत् स्थितः । तदानीं बहुभिस्सह तस्य परिचयोऽभवत् । महात्मना सह परिचयः तत्रैव जातः । तत्र महात्मा रुग्णः आसीत् । जीवराज महेता इत्यनेन तदवसरः स्वीकृतः, तस्य सेवा कृता च । इत्थमेव एकवारं गोपालकृष्णस्य सेवामपि अकरोत् । इङ्ग्लेण्ड-देशस्य यात्रायां जलयानस्य द्वारेण सह गोपालकृष्णस्य परिस्पन्दः अभवत् । तेन सः व्रणितः जातः । तदर्थं सेवायाः अवसरः जीवराज महेता इत्ययं प्रापत् । तेन तस्य अभ्यासकार्यं षड्मासस्य विलम्बेन समाप्तम् । तथापि जीवराजभाई इत्ययं खिन्नः नासीत्, अपि तु गौरवान्वितः आसीत् । कालान्तरे गोपालकृष्णः लण्डन्-नगरे इण्डियन् एसोसिएशन् नामिकां संस्थाम् अरचयत् । जीवराज महेता एतस्यै संस्थायै नूतनरूपम् अयच्छत् । तस्य नाम लण्डन् इण्डियन् एसोसिएशन् इति तेन परिवर्तितम् । वर्षद्वयं यावत् सः तस्याः संस्थायाः प्रमुखपदम् अलङ्करोत् ।

जीवराजभाई इत्यस्य भारते आगमनम्[सम्पादयतु]

१९१५ तमे वर्षे जीवराजभाई महेता इत्ययं स्वदेशं प्रत्यागतः । मुम्बई-नगरे कन्सल्टिङ्ग् फिजिशियन् भूत्वा चिकित्साक्षेत्रे व्यवसायम् आरभत । षड्-सप्तमासानां न्यूने एव काले सः अकल्पनीयां सिद्धिं प्रापत् । तदानीङ्काले तस्य मासिकलब्धिः (profit) ३००० रूप्यकाणि आसीत् । तदानीङ्काले इयं बह्वधिका लब्धिः आसीत् । तदानीमेव ताता-संस्थायाः अध्यक्षः रतन ताता रुग्णः अभवत् । मुम्बई-नगरे तस्य रुग्णतायाः चिकित्सा नासीदिति तम् इङ्ग्लेण्ड्-देशं प्रेषितुं विचारितम् ।

लण्डन्-नगरे गमनम्[सम्पादयतु]

जीवराजभाई महेता इत्ययं ताता-संस्थायाः साहाय्येन अपठत् । अतः तत् ऋणं दूरीकर्तुं जीवराजभाई महेता इत्यस्मै सेवायाः अवसरः लब्धः । तदानीं प्रथमविश्वयुद्धं प्रचाल्यमानम् आसीत् । स्वस्य उत्कृष्टां लब्धिं त्यक्त्वा रतन ताता इत्यनेन सह अरेबिया इत्याख्ये जलयाने उपविश्य लण्डन्-नगरम् अगच्छत् । तदा यत् भयम् आसीत् तदेव अभवत् । समुद्रमध्ये तेषां जलयाने छिद्रम् अभवत् । अतः जीवराज महेता इत्यनेन रतन ताता, लेडी ताता, तस्य परिवारजनाः नौकायामवतारिताः । अन्ते स्वयमपि अवतरितः । अरेबिया इत्याख्यं जलयानं जलनिमग्नम् अभवत् । नौका अपि समस्याग्रस्ता अभवत् । तदानीमेव वर्षा आरब्धा । तेन समुद्रः उग्ररूपमधारयत् । तेषां यानम् आत्रिंशद्होरा इतस्ततः भ्रममाणमभूत् । अन्ते रतन ताता इत्येनं रोगमुक्तं कर्तुम् इच्छुकः जीवराज महेता स्वयमेव रुग्णः अभवत् । वातावरणस्य आर्द्रतावशात् तस्य श्वासकोशे (lung) रोगः अभवत् । तेन सः आचतुर्वर्षं रुग्णः आसीत् । उपचारार्थं जीवराज महेता इत्ययं स्विड्जर्लेण्ड् अगच्छत् ।

पुनः भारते आगमनम्[सम्पादयतु]

स्विड्जर्लेण्ड्-देशे वडोदरा-नगरस्य महाराजं सयाजीराव इत्येतम् अमिलत् । तेन जीवराज महेता इत्यस्मै स्वपरिवारस्य चिकित्सकत्वेन कार्यं कर्तुम् उक्तम् । प्रस्तावमिमं स्वीकृत्य जीवराज महेता इत्ययं स्वदेशमागतः । ततः परम् आत्रिवर्षं वडोदरा-नगरस्य प्रधानचिकित्साधिकारित्वेन सेवाम् अयच्छत् ।

विवाहः[सम्पादयतु]

वडोदरा-नगरे मनुभाई महेता दिवान-पदारूढः आसीत् । तस्य हंसा नामाख्या सुन्दरी पुत्री आसीत् । जीवराज महेता इत्ययं तस्याः परिचये आगतः । परिचयः प्रेम्णि परिवर्तितः । उभौ विवाहं कर्तुं सज्जौ आस्ताम् । तेन सामाजिकैः ऊहापोहः कृतः । कारणम् अयं विवाहः अन्तर्जातीयः आसीत् । किन्तु तौ समाजविरोधम् अचिन्त्य विवाहमकरुताम् ।

मुम्बई-नगरे गमनम्[सम्पादयतु]

१९२५ तमे वर्षे जीवराज महेता वडोदरा-नगरं त्यक्त्वा मुम्बई-नगरं समागतः । तस्य मतम् आसीत् “स्वदेशीराज्यात् ब्रिटिश-राज्ये वासेन राष्ट्रस्य अधिका सेवा भवति” इति । सर्वकारेण मुम्बई-नगरे गोरधनदास सुन्दरदास इति चिकित्सायाः विद्यालयः आरब्धः । तत्र जीवराज महेता इत्येतस्य डीन इत्याख्ये पदे नियुक्तिः जाता । महाविद्यालयेन सह छात्रालयस्य भारम् अपि सः एव वहति स्म । आसप्तदशवर्षं तेन इदं दायित्वं स्वीकृतम् । १९३०, १९४२, १९४४ तमेषु वर्षेषु इण्डियन् मेडिकल् एसोसिएशन् इत्यस्य प्रमुखपदे नियुक्तः अभवत् । हिन्द इत्यस्य चिकित्साविभागेऽपि सभ्यपदम् आलङ्करोत् ।

जीवराज महेता इत्यस्य कारावासः[सम्पादयतु]

महात्मा एवं गोखले इत्येतयोः सम्पर्केण जीवराज राष्ट्रवादी अभवत् । १९३२ तमे वर्षे स्वतन्त्रता-सङ्ग्रामे भागं गृहीत्वा वर्षद्वयं कारागारमगच्छत् । ततः परं १९४२ तमे वर्षे ‘हिन्द छोडो’ आन्दोलने भागम् अगृह्णत् । अनेन सः पुनः कारागारं प्रेषितः । तत्राऽपि बन्दिनां सेवामकरोत् । ततः निर्गत्य १९४६ तमे वर्षे मुम्बई-नगरस्य विधानसभायाः सदस्यत्वेन चितः । १९४९ तमे वर्षे बाबासाहेब खेर इत्यस्य मन्त्रिमण्डले पब्लिक् वर्क्स् तथा हौसिङ्ग् इत्याख्यस्य विभागस्य दायित्वं तस्य आसीत् । स्वतन्त्रतायाः आन्दोलनस्य अन्ते भारतीयसङ्घे वडोदरा-राज्यस्य विलीनीकरणम् अभवत् । तस्मिन् तस्य महत्वपूर्णा भूमिका आसीत् ।

वित्तमन्त्री जीवराज महेता[सम्पादयतु]

१९५२ तमे वर्षे देशे प्रथमं सामान्यं निर्वाचनम् अभूत् । जीवराजभाई अमरेली-प्रान्तात् विधानसभायै चितः । मुम्बई-सर्वकारेण तस्मै वित्तमन्त्रिपदं प्रदत्तम् । बहुभिः आश्चर्यमनुभूतं यत् “चिकित्सकाय तु चिकित्साविभागः दातव्यः, इदं वित्तमन्त्रिपदं कुतः ?” इति । किन्तु तेन पदेन जीवराजभाई प्रसन्नः अभवत् । १९६० तमस्य वर्षस्य मार्च-मासस्य ३१ तमे दिनाङ्के राज्यस्य अन्तिमम् आवेदनम् प्रस्तूय तेन उक्तं यत् – “१९५२ तमे वर्षे धनभारः ३०.४९ कोटिः (crore) आसीत् । तत् इदानीं १९६० तमे वर्षे ९० कोटिरभवत्” इति ।

गुजरातराज्यस्य प्रथममुख्यमन्त्री जीवराज महेता[सम्पादयतु]

१९६० तमे वर्षे गुजरातराज्यम् अस्तित्वं प्रापत् । ततः प्राक् जीवराज महेता इत्यनेन धनम्, अन्य सम्पत्तेः च विभाजनाय विधानसभायाम् उग्रस्वरेण प्रस्तावः उपस्थापितः । “गुजरातराज्याय खाद्यं न प्राप्यते चेत् पृथक् गुजरातराज्यं नेच्छामः । गुजरातराज्यं दानं न याचते अपि तु अधिकारान् पृच्छति । अन्यथा इदं विभाजनम् अस्माभिः न याचितम् अपि तु बलात् योजितम्” इति । तस्य वचांसि श्रुत्वा सर्वकारः गुजरातराज्यस्य प्रथममुख्यमन्त्रित्वेन तस्य नियुक्तिम् अकरोत् । किन्तु सः मुख्यमन्त्रिपदे अधिकसमयं न स्थितः । १९६२ तमे वर्षे तस्य स्थाने बळवन्तराय महेता इत्यस्य नियुक्तिः जाता । ब्रिटिश्-सर्वकारेण जीवराज महेता इत्यस्य हाई-कमिश्नर् इति पदे नियुक्तिः कृता । ततः परं लोकसभायामपि चितः ।

मृत्युः[सम्पादयतु]

१९७७ तमस्य वर्षस्य दिसम्बर-मासस्य नवमे (९) दिनाङ्के तस्य मृत्युरभवत् ।

"https://sa.wikipedia.org/w/index.php?title=जीवराज_महेता&oldid=422868" इत्यस्माद् पुनः प्राप्तिः