सामग्री पर जाएँ

गान्धीनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गान्धिनगरम् इत्यस्मात् पुनर्निर्दिष्टम्)
गान्धीनगरम्

ગાંધીનગર
राजधानी
गुजरातराज्यस्य सचिवालयः
गुजरातराज्यस्य सचिवालयः
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् गान्धीनगरम्
Government
  महानगरपालकः आर् सि खार्सन्
Area
  Total १७७ km
Elevation
८१ m
Population
 (२००१)
  Total १,९५,८९१
  Density १,१००/km
भाषाः
  अधिकृतभाषाः गुजराती,हिन्दी
Time zone UTC+५ : ३० (IST)
पिन्
३८२ ०१०
दूरवाणीसङ्केतः ०७९
Vehicle registration GJ-18

गान्धीनगरम् (गुजराती: ગાંધીનગર, आङ्ग्ल: Gandhinagar) गुजरातराज्ये स्थितस्य गान्धीनगरमण्डलस्य केन्द्रम् अस्ति | इदं नगरं गुजरातराज्यस्य राजधानी अपि । प्राक् गान्धीनगरमण्डलम् अहमदाबादमण्डले एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् अहमदाबादमण्डलात् पृथक् कृतम्, अपि च गुजरातराज्यस्य प्रशासनकेन्द्रत्वेन संस्थापितम् ।

विस्तीर्णता

[सम्पादयतु]

अस्य मण्डलस्य विस्तीर्णं ६४९ चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये साबरकाठामण्डलम्, आग्नेये खेडामण्डलम्, नैऋत्ये अहमदाबादमण्डलम्, वायव्ये मेहसाणामण्डलम् अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं गुजरातराज्यस्य, अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।

गान्धीनगरम् इत्येतन्नगरं चण्डीगढसदृशं सुकल्पितं, योजनाबद्धं च नगरम् अस्ति । अस्मिन् नगरे ३० विभागाः सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता, विस्तृतिश्च १ किलोमीटर्-परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः (maintenance offices) च सन्ति ।

वीक्षणीयस्थानानि

[सम्पादयतु]

सुप्रसिद्धः, रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति ।

शिक्षणसंस्थाः

[सम्पादयतु]

गान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयःगुजरातराज्ये शिक्षणक्षेत्रे गान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धीनगरं गुजरातराज्यस्य 'हृदयभागः' इति प्रसिद्धम् ।

दशमे विभागे विद्यमानस्य गुजरातराज्यस्य सचिवालयस्य दृश्यम्
"https://sa.wikipedia.org/w/index.php?title=गान्धीनगरम्&oldid=333228" इत्यस्माद् प्रतिप्राप्तम्