वर्षाऋतुः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


भारतम् ऋतुनां देशोऽस्ति । अत्र षड् ऋतवो भवन्ति - ग्रीष्मः, वर्षा, शरद्, हेमन्तः, शिशिरः वसन्तश्च । वर्षा-ऋतुः ग्रीष्मात् अनन्तरम् आगच्छति । एतस्य कालः जुलाई मासतः सितम्बरमासपर्यन्तं भवति । श्रावण - भाद्रौ च अस्य भारतीयौ मासौ स्तः ।

ग्रीष्मस्य तापेन सन्तप्ता पृथिवी वर्षायाः आगमनेन शीतला शान्ता च भवति । आकाशः कृष्णैः मेघैः आच्छन्नः भवति । मेघेषु विद्युत् प्रकाशते । मेघाः गर्जन्ति । वृष्टिजलेन नद्यः, तडागाः कूपाश्च पूरिताः भवन्ति । पृथिवी हरितैर्घासैः आच्छदिता भवति । वृक्षेषु लतासु च नवीनानि पत्राणि आगच्छन्ति । प्रकृतिः शोभना नारीव शोभते । मयूराः मेघान् दृष्ट्वा नृत्यन्ति । मण्डूकाश्च कूर्दन्ति रटन्ति च । वर्षाकालः अतीव लाभदायकोऽस्ति । अस्माकं देशस्य कृषिः मुख्यतः वर्षाजलम् आश्रयति । उत्तमया वर्षया उत्तमा कृषिर्भवति । अस्मिन् ऋतौ श्रीकृष्ण-जन्माष्टमी, रक्षाबन्धनम्, स्वतन्त्रतादिवसादयः उत्सवाः आयोजिताः भवन्ति । वर्षाकालस्य काश्चित हानयोऽपि सम्भवन्ति । एतस्मिन् काले बहवो मार्गाः जलमग्नाः कर्दमयुक्ताश्च भवन्ति । अतिवृष्टेः कारणेन अनेकासु नदीषु जलवृद्धिः भवति । जलप्लवेन गृहाणि, पशवः, मनुष्या अपि नश्यन्ति । अनेके रोगाः अपि उद्भवन्ति । परन्तु जलेन विना जीवनं नैव चलति । अतः वर्षर्तुः प्राणिनां कृते शुभदायकः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=वर्षाऋतुः&oldid=395815" इत्यस्माद् पुनः प्राप्तिः