वलसाडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वलसाडमण्डलम्

Valsad district

વલસાડ જિલ્લો
मण्डलम्
गुजरातराज्ये वलसाडमण्डलम्
गुजरातराज्ये वलसाडमण्डलम्
देशः  India
विस्तारः २,९९० च.कि.मी.
जनसङ्ख्या(२०११) १७,०३,०६८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website valsad.gujarat.gov.in
दक्षिणगुजरात

वलसाडमण्डलम् (गुजराती: વલસાડ જિલ્લો, आङ्ग्ल: Valsad district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति वलसाड इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

वलसाडमण्डलस्य विस्तारः २,९९० चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे 'गल्फ् आफ् खम्भात', उत्तरे नवसारीमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले २,००० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले षट् नद्यः प्रवहन्ति । ताः यथा- दमनगङ्गा, पार, औरङ्गा, कोलक, तानं, मानं ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं वलसाडमण्डलस्य जनसङ्ख्या १७,०३,०६८ अस्ति । अत्र ८,८४,०६४ पुरुषाः ८,१९,००४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५६१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २०.७४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ८०.९४% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ धरमपुरं २ कपराडा ३ पारडी ४ उमरगाम ५ वलसाड

कृषिः वाणिज्यं च[सम्पादयतु]

आम्रफलं, कूष्माण्डः, चिकूफलं, कदलीफलम्, इक्षुः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु आम्रफलस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कूष्माण्डस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । वस्त्रोत्पादनं, रासायनिकोद्यमः, 'मषीन् टूल्स्', कर्गजोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्य मण्डलस्य धरमपुरे प्रसिद्धः सह्याद्रीपर्वतः तिष्ठति । अस्य मण्डलस्य उदवाडायाम् अग्निमन्दिरम् अस्ति यत् पार्सीजनाङ्गस्य पवित्रं यात्रास्थलम् अस्ति । धरमपुरे विद्यमानः 'लेडी विल्सन्' सङ्ग्रहालयः, वलसाड इत्यस्मिन् नगरे विद्यमानं विज्ञानकेन्द्रम् अस्य मण्डलस्य अपराणि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वलसाडमण्डलम्&oldid=458263" इत्यस्माद् प्रतिप्राप्तम्