गान्धीनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गान्धिनगरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
गान्धीनगरमण्डलम्
मण्डलम्
गुजरातराज्ये गान्धीनगरमण्डलम्
गुजरातराज्ये गान्धीनगरमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters गान्धीनगरम्
Area
 • Total २,१६३ km
Population
 (२०११)
 • Total १३,८७,४७८
Languages
 • Official गुजराती, हिन्दी
Website gandhinagar.gujarat.gov.in
मध्यगुजरात

गान्धीनगरमण्डलं (गुजराती: ગાંધીનગર જિલ્લો, आङ्ग्ल: Gandhinagar district) गुजरातराज्ये स्थितं प्रमुखं मण्डलम् अस्ति । अस्य केन्द्रम् अस्ति गान्धीनगरम्गान्धीनगरम् इतीदं नगरं गुजरातराज्यस्य राजधानी, प्रशासनकेन्द्रं च । प्राक् इदं मण्डलम् अहमदाबादमण्डले अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे अहमदाबादमण्डलात् अस्य मण्डलस्य पृथक्करणं जातम् ।

भौगोलिकम्[सम्पादयतु]

गान्धीनगरमण्डलस्य विस्तारः २,१६३ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे साबरकाठामण्डालं, पश्चिमे अहमदाबादमण्डलम्, उत्तरे मेहसाणामण्डलं, दक्षिणे खेडामण्डलम् अस्ति । अस्मिन् मण्डले ६६७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, खारी, वात्रक, मेश्वो ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं गान्धीनगरमण्डलस्य जनसङ्ख्या १३,८७,४७८ अस्ति । अत्र ७,२२,४५९ पुरुषाः ६,६५,०१९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६६० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६६० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.१५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ८५.७८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- १ गान्धीनगरम् २ दहेगाम ३ कलोल ४ माणसा

कृषिः वाणिज्यं च[सम्पादयतु]

तण्डुलः, गोधूमः, एरण्डं, सर्षपः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । बृहज्जम्बीरं, 'ग्वावा', दाडिमफलं, पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । आलुकं, वृन्ताकं, कपिशाकं ('क्याबिज्'), भिण्डकः, वार्तिकी ('टमेटो'), 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि शाकानि सन्ति । वस्त्रोत्पादनम्, 'इलेक्ट्रिकल् एण्ड् इलेक्ट्रोनिक्स्', आहारसंस्करणं, 'इन्फर्मेषन् टेक्नोलजी' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अक्षरधाम तु अस्य मण्डलस्य प्रमुखम्, आकर्षकं च वीक्षणीयस्थलम् अस्ति । अस्मिन्नेव मण्डले विद्यमानम् अडालज-वाव इत्येतत् विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदमपि प्रसिद्धं वीक्षणीयस्थलम् अस्ति । 'इन्द्रोडा डायनोसार् एण्ड् फोसिल् पार्क्' अपरं वीक्षणीयस्थलम् अस्ति । इदम् उद्यानम् 'जियोलोजिकल् सर्वे आफ् इण्डिया' द्वारा संस्थापितम् अस्ति । समग्रे विश्वे विद्यमानेषु डायनोसार्-उद्यानेषु अस्य उद्यानस्य द्वितीयं स्थानम् अस्ति । समग्रे भारते इदम् उद्यानम् एकमात्र'डायनोसार्'-सङ्ग्रहालयः अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=गान्धीनगरमण्डलम्&oldid=478323" इत्यस्माद् प्रतिप्राप्तम्