गान्धीनगरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गाँधीनगर इत्यस्मात् पुनर्निर्दिष्टम्)
गान्धीनगरम्

ગાંધીનગર
राजधानी
गुजरातराज्यस्य सचिवालयः
गुजरातराज्यस्य सचिवालयः
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् गान्धीनगरम्
Government
 • महानगरपालकः आर् सि खार्सन्
Area
 • Total १७७ km
Elevation
८१ m
Population
 (२००१)
 • Total १,९५,८९१
 • Density १,१००/km
भाषाः
 • अधिकृतभाषाः गुजराती,हिन्दी
Time zone UTC+५ : ३० (IST)
पिन्
३८२ ०१०
दूरवाणीसङ्केतः ०७९
Vehicle registration GJ-18

गान्धीनगरम् (गुजराती: ગાંધીનગર, आङ्ग्ल: Gandhinagar) गुजरातराज्ये स्थितस्य गान्धीनगरमण्डलस्य केन्द्रम् अस्ति | इदं नगरं गुजरातराज्यस्य राजधानी अपि । प्राक् गान्धीनगरमण्डलम् अहमदाबादमण्डले एव अन्तर्भूतम् आसीत् । १९६४ तमे वर्षे इदं मण्डलम् अहमदाबादमण्डलात् पृथक् कृतम्, अपि च गुजरातराज्यस्य प्रशासनकेन्द्रत्वेन संस्थापितम् ।

विस्तीर्णता[सम्पादयतु]

अस्य मण्डलस्य विस्तीर्णं ६४९ चतुरस्रकिलोमीटर्परिमितम् अस्ति । जनसङ्ख्या तु १३,३४,४५५ यस्मिन् ३५.०२ प्रतिशतं जनाः नगरीयाः (२००१ जनसङ्ख्यागणना) । मण्डलेऽस्मिन् गान्धिनगरम् इत्येतन्नगरं, चान्दखेडा, मोटेरा, अडालज् इत्येतानि त्रीणि उपनगराणि, २१६ ग्रामाः च अन्तर्भवन्ति । अस्य मण्डलस्य ईशान्ये साबरकाठामण्डलम्, आग्नेये खेडामण्डलम्, नैऋत्ये अहमदाबादमण्डलम्, वायव्ये मेहसाणामण्डलम् अस्ति । साबरकाठाखेडामेहसाणामण्डलेषु अधिकजनाः वसन्ति । एतानि मण्डलानि न केवलं गुजरातराज्यस्य, अपि तु पश्चिमभारतस्य वाणिज्यकेन्द्राणि वर्तन्ते ।

गान्धीनगरम् इत्येतन्नगरं चण्डीगढसदृशं सुकल्पितं, योजनाबद्धं च नगरम् अस्ति । अस्मिन् नगरे ३० विभागाः सन्ति । प्रत्येकस्यापि विभागस्य दैर्घ्यता, विस्तृतिश्च १ किलोमीटर्-परिमितम् । प्रत्येकस्मिन् विभागे प्राथमिकमाध्यमिकप्रौढशालाः, चिकित्सालयाः, आपणाः, अनुरक्षणकार्यालयाः (maintenance offices) च सन्ति ।

वीक्षणीयस्थानानि[सम्पादयतु]

सुप्रसिद्धः, रमणीयः अक्षरधामदेवालयः गान्धिनगरे विंशतितमे विभागे (in Sector : 20) अस्ति ।

शिक्षणसंस्थाः[सम्पादयतु]

गान्धीनगरे बह्व्यः शिक्षणसंस्थाः सन्ति । ताः -धीरूभाई अम्बानी इन्स्टिट्यूट् आफ् आय् सी टी, इण्डियन् प्लास्मा रिसर्च् इन्स्टिट्यूट्, गुजरातन्यायविश्वविद्यालयःगुजरातराज्ये शिक्षणक्षेत्रे गान्धीनगरस्य सर्वोच्चस्थानं वर्तते । अतः गान्धीनगरं गुजरातराज्यस्य 'हृदयभागः' इति प्रसिद्धम् ।

दशमे विभागे विद्यमानस्य गुजरातराज्यस्य सचिवालयस्य दृश्यम्
"https://sa.wikipedia.org/w/index.php?title=गान्धीनगरम्&oldid=333228" इत्यस्माद् प्रतिप्राप्तम्