पालिताणा
दिखावट
पालिताणा | |
|---|---|
|
नगरम् | |
|
पालिताणाजैनदेवालयाः | |
| Country |
|
| State | गुजरातराज्यम् |
| District | भावनगरम् |
| Elevation | ६६ m |
| Population (2001) | |
| • Total | ५१,९३४ |
| Languages | |
| • Official | गुजराती, हिन्दी |
| Time zone | UTC+5:30 (IST) |
पालिताणा (गुजराती: પાલીતાણા, आङ्ग्ल: Palitana) इतीदं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे स्थितस्य भावनगरमण्डलस्य एकं प्रमुखं पत्तनम् अस्ति । अहमदाबाद् इत्यस्मात् महानगरात् २४४ कि.मी. दूरे विद्यमानं वाणिज्यकेन्द्रम् अस्ति भावनगरम् इतीदं नगरम् । तत्र गान्धिस्मृतिग्रन्थभाण्डारः, वस्तुसङ्ग्रहालयः, गौरीशङ्करसरोवरः, तख्तेश्वरदेवालयाः च दर्शनीयाः सन्ति । भावनगरम् इत्यस्मात् नगरात् ५६ कि.मी. दूरे ९०० वर्षप्राचीनः ८६३ देवालयानां समूहः १९०० पादोन्नते पर्वते अस्ति । जैनयात्रास्थलमेतत् । सर्वे देवालयाः जैनदेवालयाः सन्ति । अत्रस्थाः बृहदाकाराः अमृतशिल्पनिर्मिताः आदिनाथादिदेवालयाः आकर्षकाः सन्ति ।