चन्द्रगुप्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चन्द्रगुप्त: (३१०-३३५) भारतस्य गुप्तसाम्राज्यस्य सम्राट् आसीत्‌। सः घटोत्कचस्य सुतः आसीत्। सः अयोध्याप्रयागमगधादीनां नगराणाम् अधिपतिः आसीत्‌। सः महाराजाधिराजः इति अभिधानम् अलभत। तेन वर्धिता श्रीः तस्य सुवर्णनाणकेषु दृश्यते। तस्य पट्टाभिषेक: ३२० तमे वर्षे अभवत्। गुप्तसम्राट् सन् सः गङ्गाप्रदेशे निवसद्भिः बहुभिः प्रमुखैः कुटुम्बैः सह सन्धिकरणेन प्रसिद्धः जातः।

चन्द्रगुप्तःI
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
अश्वारूढः चन्द्रगुप्तविक्रमादित्यः
राज्यम्
कालः क्रि.पू ३२०-३३५
राज्याभिषेकः
पूर्वजः घटोत्कचः
उत्तराधिकारी समुद्रगुप्तः
राज्ञी कुमारदेवी
वंशः
वंशः गुप्त
पिता घटोत्कचः
माता
परिवारः
भार्या(ः) कुमारदेवी
पुत्राः समुद्रगुप्तः
दुहितारः

जीवनम्[सम्पादयतु]

चन्द्रगुप्तः घटोत्कचस्य पुत्रः । तस्य पूर्वजैः 'महाराज'पदवी प्राप्ता आसीत् । प्रथमचन्द्रगुप्तः शिलाशासनेषु 'महाराजाधिराजः' इति निर्दिष्टः इत्येतत् तस्मात् कुटुम्बे दृष्टं भाग्यं सूच्यते । दिग्विजयद्वारा विवाहप्रस्तावानां द्वारा च तेन बहवः प्रदेशाः जिताः । तेन लिच्छवीराजकुमारी कुमारदेवी परिणीता। तेषाम् विवाहस्य चित्रं स्वनिष्केषु अङ्कितम्। समुद्रगुप्तः अपि कुमारदेव्याः पुत्रः एव आसीत्। लिच्छवीराज्यम् उपमगधम् उत्तरदिशि आसीत्। गुप्तलीच्छवीराज्ययोः ऐक्यं समुद्रगुप्तस्य विजयेषु उपाकरोत्। प्रयाग(अलहाबाद्)-साकेत(औध्)-मगध(दक्षिणबिहार्)जनपदानि गुप्तैः शास्यते इति उल्लेखः दृश्यते ।

"https://sa.wikipedia.org/w/index.php?title=चन्द्रगुप्तः&oldid=364538" इत्यस्माद् प्रतिप्राप्तम्