मम्मटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


परिष्कारयुगस्य आदिमः आलङ्कारिकः मम्मटः (Mammata) । एषः महान् वय्याकरणः अपि आसीत् इति ज्ञायते । यतः तस्य ग्रन्थे बहुत्र महाभाष्यस्य उल्लेखः कृतवान् । मम्मटः

इति ग्रन्थद्वयं लिखितवान् ।काव्यप्रकाशकर्ता राजानकसंज्ञब्राह्मणाकुलोत्पन्नो मम्मटाचार्यः कश्मीरेषु बभूव । अयमेव चिरायुरुढान् गण्डुलिकाप्रवाहेण विततान् दोषगुणरीत्यलंकारान् संक्षिप्य यथाशास्रं परिष्कृत्य च स्वोन्मीलिते काव्यप्रकाशे प्रथमं दर्शितवान्; अचिरात्प्रवृत्तान् ध्वनिविषयान् यथायथं संकलय्य परिसंख्याय च यथावसरं समासव्यासाभ्यां विन्यस्तवान् ; पाठ्यदृष्ट्या कारिकासंदृब्धान् प्रमेयान् वृत्त्या मनाग् व्याक्रुतवान् । एवं यथा शब्दार्थपरिशुध्दये सूत्रवृत्त्युदाहरणैर्वेयाकरणसिध्दान्तकौमुदी विभज्यते, तथैवैष काव्यप्रकाशः शाब्दार्थगुम्भपरिष्कृतये । स एष परिकरालंकारपर्यन्तो मम्मटेन तत उर्वरितः किंचिद् अल्लटेन (अलकेन) कृत इत्येतट्टीकायां निदर्शनाख्ययामुक्तम् –

कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः ।
प्रबन्धः पूरितः शेषो विधायाल्लटसूरिणा ॥

एतदृत्तं काव्यप्रकाशस्य ‘इत्येष मार्गो विदुषां –’ इत्यन्तिमश्लोकव्याख्यानतोऽपि निवेद्यते । एतस्य टीकास्तत्कर्तारश्च –

  1. संकेतः … … … जैनमाणिक्यचन्द्राचार्यैः कृतः ।
  2. बालचित्तानुरञ्जिनी … सरस्वतीतीर्थैः कृता ।
  3. दीपिका … … … जयन्तभट्टैः कृता ।
  4. आदर्शः (संकेतः) … सोमेश्वरभट्टैः कृतः ।
  5. दर्पणः … … … विश्वनाथकविराजैः कृतः ।
  6. विस्तारिका … … परमानन्द – चक्रवर्ति – भट्टाचार्यैः कृता ।
  7. निदर्शनम् (सारसमुञ्चयः) राजानकानन्दकविभिः कृतम् ।
  8. सारबोधिनी … … श्रीवत्सलाञ्छनभट्टाचार्यैः कृता ।
  9. आदर्शः … … … महेश्वरभट्टाचार्यैः कृतः ।
  10. काव्यप्रकाशटीका ….. कमलाकरमट्टैः कृता
  11. नरसिंहमनीषा … … नरसिंहठक्कुर्रेः कृता ।
  12. सुधासागरः … … भीमसेनदीक्षितैः कृतः ।
  13. बालबोधिनी … … भट्टवामनाचार्यैः कृता ।

एवमादयो ग्रन्थत उपलब्धाः, श्रीघर- चण्डीदास – भास्कर प्रभृतिरचिता नामत उपज्ञाताः संहत्य पञ्चाशदासन्नाः काव्यप्रकाशस्य टीकाः । काव्यप्रकाशस्य कारिकाः प्राय उदाहृतीश्च मूलीकृत्य प्रवर्तमानो महामहोपाध्यायगोविन्वारचितः काव्यप्रदीपस्तु प्रथितटीकासरणिविलक्षणः प्रौढतरश्च । अत एवास्य प्रभाख्याव्याख्या कुवलयानन्दटीकाकारिर्वैद्यनाथभट्टैः, उद्दयोताख्या तु मञ्जूषादिसंदर्भरत्नकारैर्नागोजीभट्टैरकारि । एवं काव्यप्रकाशस्य केवलं कारिका मूलीकृत्य विद्याभूषणेव रचिता साहित्यकौमुदी । अस्याः कृष्णानन्दिनीव्याख्येत्यलम् ।

अत्र संकेतः ‘रसवक्रग्रहाधीशवत्सरे मासि माधवे’ इति स्वलेखाद् (१२१६) विक्रमाब्दे निर्मितः । बालचित्तानुरञ्जिनीकारः ‘सबसुग्रहहस्तेन ब्रह्मणा समलंकृते । काले-’ इत्यादिखलेखाद् (१२९८)वत्सरे जन्म लेभे । काश्यां संन्यस्तः सरस्वतीतीर्थसंज्ञां गतो बालचित्तानुरञ्जिनीं चक्रे । दीपिकानिर्माणकालः ‘संवत् (१३५०) वर्षे ज्येष्ठवदि ३ रवौ –’ इत्येवं जयन्तभट्टेनैव दर्शितः । एवं सोमेश्वरभट्टप्रभृतयोऽपि यथोत्तरं नवीना इति सांप्रतिकभट्टवामनाचार्यस्य बालबोधिनीभूमिकातो व्यक्तम् । काव्यप्रदीपकारो गोविन्दपण्डितस्तु कमलाकरभट्टात किंचिदेव प्राक्तनः, यस्मात्प्रदीपस्य चर्चा कमलाकरग्रन्थात्प्राग्भवे नास्ति । कमलाकरस्थितिकालस्तु तत्कृतनिर्णयसिन्धुतः (१६६८) विक्रमाब्दः । प्रदोषप्रभाकारो वैद्यनाथभट्टस्तु खनिर्मितोदाहरणचन्द्रिकान्ते (१७४० ) इति विकमाब्दं व्यलिखदेव । प्रईपोद्द्योतकारो नागोजीभट्टो (नागेशभट्टः)ऽपि वैश्वनाथासन्नकालिकः । यदेष महात्मा काशीमधितिष्ठत् जयपुरनिर्माणकारिणा महाराजजयसिंहदेवेन अश्वमेधाध्वरे समाहूतो नागतवानिति जयपुरीयब्रह्मपुरीब्राह्मणवृध्देषु प्रसिध्दम् । सोयमश्वमेधः (१७७०) विक्रमवत्सरेऽभूत् । अस्मिन्समये सुधासागरनिर्माता भीमसेनदीक्षितोऽप्यासीत् । यदयं (१७७९) इति संवत् प्रादर्शयत् ।

अथ यद्यपि काव्यप्रकाशकर्तुर्मम्मटस्य कालो न प्राप्यते तथाप्येवं सुदृढमनुमीयते – प्रकाशकर्ता हि प्रकाशस्य चतुर्थोल्लासे रसविचारे ‘श्रीमदाचार्यामिनवगुप्तपादाः’ इत्येवं सश्लाघमभिनागुप्तमेव स्मरति; पदेपदे ध्वनिविषयानाकलयन्नपि आनन्दवर्धनाचार्यस्य नाम न गृह्णीते, केवलं ध्वनिकार इत्येतावदेवाच्ष्टे; लोल्लटादिनाम् गृह्णानोऽपि न तादृशमादरं दर्शयते । इत्येवं मम्मटोऽभिनवगुप्तस्यातिनिकटवर्ती कश्चित्प्रतिभाति । यद् अभिनवगुप्तस्य महामाहेश्वराचार्यत्वं षट्रत्रिंशत्तत्त्वप्रतिपादकप्रत्यभिज्ञादर्शनारुढत्वं काश्मीरिकत्वं च नानाग्रन्थेभ्यो व्यक्तम् । मम्मटस्य काश्मीरिकत्वमतितरां प्रसिध्दम् । इतश्च काश्मीरिक आनन्दकविर्निदर्शनारम्भे – ‘…..शिवागमप्रसिध्दषट्रत्रिंशात्तत्त्वदीक्षाक्षपितमलपटलः प्रकटितसत्स्वरुपश्चिदानन्दघनो राजानककुलतिलको मम्मटनामा दैशिकवरः…’ इति निर्दिशति । काव्यप्रकाशस्य संकेताख्यटीकासमयः (१२९६) इति संवित् पूर्वमुक्तः । (१२१६-१०७१= १४५ इति समयान्तरम् । एतेन आचार्यमम्मटविषयेऽस्मदनुमानं साधूपपद्यत इति परीक्षणीयम् ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मम्मटः&oldid=438452" इत्यस्माद् प्रतिप्राप्तम्