मीमांसादर्शनम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(मीमांसा इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

यज्ञप्रक्रिया

मीमांसादर्शनं ( ( शृणु) (/ˈmmɑːnsɑː/)) (हिन्दी: मीमांसा, आङ्ग्ल: Mīmāṃsā) भारतीयदर्शनेषु अन्यतमम् । इदं दर्शनं मूलतः अनीश्वरवादि दर्शनमस्ति । यद्यपि कतिपये विचारका मीमांसादर्शनं दर्शनरूपेण स्वीकर्तुं विवदन्ते तथापि वेदानां कर्मपरताव्याख्यां धर्मस्वरूपविचारं च दृष्ट्वाऽमुष्य दर्शनस्वरूपे आपत्तिर्नास्ति । इतरदर्शनेष्विव मीमांसादर्शनेऽपि आत्मतत्त्वस्य विचारो विहितः । अतो यथा उत्तरमीमांसायाम् अर्थात् वेदान्ते आत्मेश्वरयोः प्रतिपादनात् दार्शनिकता स्थिरीक्रियते तथा पूर्वमीमांसायामपि तादृशविवेचनात् दार्शनिकताऽवश्यमेव स्वीकार्या ।

मन् धातोर्निष्पन्नो मीमांसा शब्दः पूज्यविचार-यथार्थवस्तुरूप-अनुसन्धानादिषु अर्थेषु गृह्यते । वेदस्य कर्मसिद्धान्तानुगतव्याख्या मीमांसादर्शनस्य प्रधानलक्ष्यमस्ति । दर्शनशास्त्रे वेदस्य रूपद्वयं प्रसिद्धमस्ति –कर्मकाण्डः ज्ञानकाण्डश्चेति । ज्ञानकाण्डः उत्तरमीमांसाया विषयोऽस्ति, यत्र वेदस्य ज्ञानपरकं विश्लेषणं कृतम् । किन्तु कर्मकाण्डः पूर्वमीमांसायाः विषयो वर्तते, अतः पूर्वमीमांसा एव कर्ममीमांसा इत्यपि कथ्यते ।

मीमांसदर्शने वेदविहितं कर्म एव धर्मरूपेण प्रतिपादितम् । तदेव इहलौकिकानां पारलौकिकानां च सुखानां साधनमस्ति । यदा कर्म एव सुखदुःखयोः मूलकारणं भवति तदा तस्य सूक्ष्मविश्लेषणकारकं शास्त्रं कर्ममीमांसैव उपयुक्तं प्रतीयते । मीमांसादर्शनम् अतिप्राचीनम् अस्ति । ब्राह्मणग्रन्थैः उपनिषद्ग्रन्थैश्च सूचितं भवति यत् प्राक्तनैः ऋषिभिः अनेकेषु अस्पष्टविषयेषु युक्तियुक्ताः विचाराः प्रस्तुताः । ते कर्ममीमांसाया आधारतत्त्वरूपाः सन्ति ।

मीमांसादर्शनस्य सर्वाधिकं महत्त्वपूर्णं तत्त्वं धर्मविचारोऽस्ति । धर्मस्य आधारशिला कर्मकाण्डम् आधारीकृत्य तिष्ठति । उत्तरमीमांसाम् अतिरिच्य चार्वाक-जैन-बौद्धैः वैदिककर्मकाण्डस्य खण्डनं कृतम् । आत्मनो नित्यता इतरवैदिकदर्शने यथा स्वीक्रियते तथैवात्रापि अभीष्टा वर्तते । मीमांसादर्शनस्य मतानुसारं मृत्यूत्तरमपि आत्मा स्वकीयानां शुभाशुभकर्मणां फलानि प्राप्नोति । मीमांसायां 'स्वर्ग' नामकस्य स्वतन्त्रतत्त्वस्य व्याख्या कृताऽस्ति । यतो हि वैदिककर्मकाण्डेषु प्रवृत्तेर्मूलाधारः स्वर्ग एवास्ति । मृत्योरनन्तरं स्वर्गप्राप्तिर्भवति । स्वर्गः कः? अस्मिन् विषये तत्राेक्तम् - यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् । अभिलाषाेपनीतं च तत् सुखं स्वःपदास्पदम् ।। इति । एतत्कृते 'अपूर्व'स्य सिद्धिरपि मीमांसकैः कृता यतो हि कर्मणि तु जीवितावस्थायामेव क्रियन्ते, किन्तु स्वर्गादीनां प्राप्तिर्मृत्योरनन्तरं भवति । कर्मणि सम्पन्ने सति तदुत्पन्नम् अपूर्वम् आत्मनि अवतिष्ठते तदेव च मृत्योरनन्तरं स्वर्गादि प्रापयति ।

दुर्गापूजा

जीवनस्वर्गयोरन्तराले कर्मकाण्डजन्यम् अपूर्वमेव सेतुरूपमस्ति । अपूर्वमेव पापपुण्ययोराशयः वर्तते । वेदः कर्मविधानं करोति । वेदाः अपाैसरुषेयाः सन्ति । अतस्तत्र काम-क्राेध-लाेभ-माेह-मात्सर्यादयः पुरूषदाेषा न सन्ति । अतः वेदविहितं कर्म एव धर्मः । अयमेव मीमांसायाः मान्यः सिद्धान्तोऽस्ति । मीमांसा स्वीकरोति यत् इदं जगत् सत्यमेव अस्ति । अस्य मिथ्यात्वं निराधारकल्पना वर्तते । मीमांसाशास्त्रस्य सूत्रमारः महर्षिः जैमिनिः । अस्मिन् शास्त्रे धर्मानुष्ठानेनैव अभिमतफलसिद्धिर्भविष्यतीति मतम् । अत्र वैदिकयज्ञानामेव मुख्यधर्मत्वं स्वीक्रियते । धर्मानुष्ठानं तु श्रुतिस्मृतिपुराणद्यनेकधर्मग्रन्थेषु प्रसिद्धमस्ति । धर्मस्य लक्षणं किम् ? धर्मे प्रमाणं किम् । इत्यादिशङ्कानां समाधानं पूर्वमीमांसाशास्त्रादेव सिद्धं भवति । एतच् शास्त्रं षाेडशाध्यायात्मकं वर्तते । तत्र द्वादशाध्यायाः प्रसिद्धाः सन्ति । प्रत्येकस्मिन् अध्याये चत्वारः पादाः विलसन्ति । परं तृतीयेध्याये अष्टाै पादाः सन्ति, एवमेव षष्ठे दशमे च ।

अन्तर्विषयाः

मीमांसाशास्त्रपरिचयः[सम्पादयतु]

द्वादशाध्यायेषु प्रथमाध्यायस्य प्रथमे पादे प्रमाणविचारः कृतः । द्वितीये मन्त्राणामर्थवादविचारः प्रस्तुतः । तृतीये मन्वादिस्मृतीनामेवमाचारभूतविषयाणां प्रामाण्यविवेचन कृतम् । चतुर्थे उद्भिद- चित्रादि नामधेयानां प्रामाण्यविचारः सम्पादितः । द्वितीयाध्यायस्य प्रथमे पादे कर्मभेदचिन्तानामुपयुक्तः उपोद्घातः, द्वितीये धातुभेदाः एवं पुनरुक्त्यादिकर्मभेदानां वर्णनम् तृतीये कर्मभेदप्रामाण्याऽपवादानां प्रस्तुतीकरणम्, चतुर्थे नित्यकाम्यकर्मणां प्रयोगे भेदनिरूपणमिति द्वितीयाध्याये विचारिताः । तृतीयाध्याये अष्टौ पादाः सन्ति । प्रथमपादे अङ्गत्वबोधकेषु षट् प्रमाणेषु श्रुतेः विचारः कृतः । द्वियीये लिङ्गविचारः, तृतीये वाक्यप्रकरणस्थानसमाख्यानां विचारः, चतुर्थे निवीतोपवीतत्त्वादिषु अर्थवादत्वविधित्वादीनां निर्णयहेतुभूतानां श्रुत्यादीनां विरोधपरिहारात्मको विचारः , पञ्चमे प्रतिपत्तिकर्मविचारः प्रतिपत्त्यर्थः भवति-उपयुक्तद्रव्यस्य विनियोगः इति । षष्ठे –अनारभ्याधीतविचारः, सप्तमे- बहुप्रधानोपकारकप्रयाजादिकर्मणां विचारः, अष्टमे पादे यजमानेन क्रियमाणस्य कर्मणः विचारः इति एते अष्टौ विचाराः तृतीयाध्याये विचारिताः दृश्यन्ते । चतुर्थाध्यायस्य् प्रथमे पादे –प्रधानभूतस्य दध्यानयनस्य आमिक्षाप्रयोजनमित्यादि प्रधानस्य प्रयोक्तृत्वादिविचारः, द्वितीये –अप्रधानभूतानि यानि, यथा –वत्सापाकरणम् अनेन शाखाच्छेदे उपयोगः इत्यादि तेषां कर्मणां प्रयोक्तृत्वेन प्रदर्शनात्मकौ विचारः तृतीये –‘जुहू पर्णमयी ’ इत्यादि अपापश्लोकश्रवणादीनां कर्मणां भावाभावविचारः चतुर्थे राजसूययागगतत्वेन अक्षद्यूतादिगौणाङ्गानां विचारः प्रस्तुतः । पञ्चमाध्यायस्य प्रथमे पादे –श्रुतेः क्रमः, श्रुत्यादिषु कर्मविचारस्यावश्यकत्वमपि संक्षेपेण प्रतिपादितम् । द्वितीये – क्रमविशेषाणाम् एवम् अनेकेषु पशुषु एकैकधर्मसमापनमित्यादिविचाराः प्रस्तुताः । तृतीये –वृध्यवृद्धिविचारः साधितः । चतुर्थे –श्रुत्यादि षट्प्रमाणानां पूर्वपूर्वप्राबल्यात्मको विचारः सम्पादितः । षष्ठाध्यायस्य अष्टौ पादाः विलसन्ति । तत्र प्रथमे पादे –कर्मणः अधिकारविषयिकी चर्चा प्रस्तुता । अर्थात् अन्धत्वादि इन्द्रियरहितानां पुरुषाणां यागादिषु नाधिकारः, किन्तु चक्षुष्मान् इत्यादि इन्द्रिययुक्तानां जनानामेव कर्मस्वधिकारः इति विस्तृतः विचारः कृतः । द्वितीये –अधिकारिणः कृते धर्मविचारः तृतीये –मुख्यस्य प्रतिनिधिभूतस्यान्यस्य ग्रहणं कदा कुत्र स्वीकर्तव्यमित्यादयः विषयाः, चतुर्थे –कर्मणः अनुष्ठानविषये कस्य लोपः भवितुं शक्यते ? इति विचारः, पञ्चमे षष्ठे च कालादिवैगुण्ये सति प्रायश्चित्तविचारः, सप्तमे-अदेयविषयस्य प्रस्तावः, अष्टमे लौकिकाग्नौ कदा इन्धनस्य सम्पादनं कर्तव्यम् ? इत्येते विषयाः उपन्यस्ताः । सप्तमाध्यायस्य प्रथमे –समानमित्यादि प्रत्यक्षवचनात् अतिदेशविचारः, द्वितीये –अतिदेशशेषवाक्यानां विवेचनम्, तृतीये अग्निहोत्रनाम्ना अतिदेशस्य निर्णयः , चतुर्थे –लिङ्गादीनामतिदेशविचारः इति सप्तमाध्यायः प्रस्तुतः । अष्टमाध्यायस्य प्रथमे पादे प्रत्यक्षवचनानामभावेऽपि स्पष्टलिङ्गैः अतिदेशविचारः , तथा द्वितीये अस्पष्टलिङ्गैः अतिदेशस्य विचारः तृतीये –प्रबललिङ्गेभ्यः अतिदेशस्य विचारः एवं चतुर्थे अतिदेशवाक्यानामपवादस्य वर्णनं प्रस्तुतम् । नवमस्य प्रथमे ऊहस्य विचारः, मन्त्रस्थितानां देवतालिङ्गसंख्यादिवाचकशब्दानां मध्ये तत्तद्देवतालिङ्गादिपरिवर्तनसम्पादनात्मकः ऊहः उच्यते । द्वितीये साममन्त्रस्य ऊहविचारः, तृतीये –मन्त्रादीनामूहविचारः, चतुर्थे मन्त्राणामूहप्रसङ्गकाले आगतानामन्येषां विषयाणां विचारः प्रस्तुतः । दशमाध्यायस्य प्रथमे पादे- बाधस्य हेतुभूताः ये लोपाः तेषां विधानं विहितम् । द्वारलोपस्तु अयं भवति यत् यत्र वेदिनिष्पादनार्थं द्वारत्वेन विहितमुत्खननमित्यादि कर्मणः अभावः तत्र उत्खननात्मकं कर्म बाधितं भवति, एवमेव यत्र धान्यवितुषीकरणात्मकं कर्म न सम्पाद्यते तत्र अवधातः, एवमन्यत्रापि द्रष्टव्यः । द्वितीये पादे – तस्यैव द्वारलोपस्य विचारः अनेकैः उदाहरणैः विस्तारेण कृतः । तृतीये तु बाधस्य कार्यकारणत्वं प्रदर्शितम् । यथा प्रकृतिभूतयागे ऋत्विजः परिग्रहत्वेन गवाऽश्वादीनां दक्षिणा कार्यत्वेन विहिता, विकृतिभूतयागे तु यागस्य दक्षिणारूपेण केवलं धेनुर्विहिता । अस्मिन् यागे प्रकृतिवत् प्राप्तायाः अश्वादिदक्षिणायाः कार्यरूपायाः तस्याः बाधः विहितः इत्यादि । चतुर्थे यत्र बाधः कारणत्वेन न तिष्ठति तत्र समुच्चयानुष्ठानस्य विचारः, पञ्चमे –बाधस्य प्रसङ्गे ग्रहादीनां विचारः षष्ठे –बाधप्रसङ्गे सामविषयाणां विचारः, सप्तमे –बाधप्रसङ्गे इतरसामान्यविषयाणां विचारः, एवमष्टमे- बाधस्य उपयुक्तानां नञर्थानां विचारः इत्यष्टौ विचाराः अत्र सम्यक् प्रतिपादिताः । एकादशाध्याये तन्त्रात्मको विचारः प्रस्तुतः । एककालानुष्ठानेन यस्य सिद्धिः तत्तन्त्रमित्युच्यते, अथवा अनेकैः उद्देश्यैः सम्पत्स्यमानस्य एकस्य कर्मणः एकवारानुष्ठानात्मकतन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्रमित्युच्यते । अध्यायस्यास्य प्रथमे पादे –तन्त्रस्योपोद्घातः द्वितीये –तन्त्र-आवापयोः विचारः , तृतीये-तन्त्रस्य लक्षणात्मको विचारः चतुर्थे –विस्तृतः आवापविचारः इत्यध्यायः सम्पादितः । द्वादशाध्याये प्रसङ्ग-तन्त्री –निर्णय- समुच्चय –विकल्पानां विचारः प्रस्तुतः । प्रथमे पादे प्रसङ्गस्य विचारः द्वितीये –तन्त्रिनिर्णययोः विचारः । साधारणधर्माः तन्त्रत्वेन कथ्यन्ते, यस्मिन् एते धर्माः सः तन्त्री भवति । तृतीये समुच्चयविचारः, चतुर्थे-विकल्पस्य विचारः इति प्रस्तुतोऽयमध्यायः । द्वादशलक्षणात्मके अस्मिन् शास्त्रे तृतीय-षष्ठ-दशमाध्यायेषु (३-६-१०) अष्टौ पादाः सन्ति इत्ययं विशेषः दरीदृश्यते । एवं धर्मानुष्ठानविषये प्रमाणभूतस्य द्वादशलक्षणी इत्याख्यस्य मीमांसाशास्त्रस्य सामान्यः परिचयः । वेदोक्तधर्मानुष्ठानजिज्ञासवः मीमांसात्मकविषयविशेषान् अस्मात् ग्रन्थाद् धारयन्ति इति मे मतिः ।

मीमांसाशास्त्रस्य प्रयोजनवत्त्वम्[सम्पादयतु]

"चोदनालक्षणोऽर्थो धर्मः"[१] इत्यस्मात् सूत्रात् “ अन्वाहार्थे च दर्शनात्”[२] इत्यन्तं महर्षिणा जैमिनिना प्रणीतं मीमांसाशास्त्रं भवति । एतच्छास्त्रं आरम्भणीयमथवा अनारम्भणीयमित्यस्याः शङ्कायाः उत्थापकत्वेन एतद्वाक्यं भवति यत् "स्वाध्यायोऽध्येतव्यः” इति ।

ननु अत्र विहितः अध्ययनविधिः दृष्टार्थः उत अदृष्टार्थः ? यदि अध्ययनविधिः अदृष्टार्थत्वेन मन्यते तर्हि विचारशास्त्रस्यास्य आरम्भणे आवश्यकत्वं नास्ति यतो हि वेदाध्ययने गुरुमुखानूच्चारणात्मकं कर्म अध्ययनमित्युच्यते । वेदमन्त्रोच्चारणेन न काऽपि दृष्टार्थस्य सिद्धिः भविष्यति, एवं विधिशास्त्रं निरर्थकमित्यपि आपतेत् । तस्माद् विधिशास्त्रस्य स्वर्गादिसाधनवत्त्वं यददृष्टं तत् फलत्वेन उच्यते । एतददृष्टम् अनुमानादिप्रमाणेन कल्प्यते । एवं स्वर्गरूपादृष्टफलं, केवलपाठमात्रेणैव सिद्धि चेत् मीमांसाशास्त्रारम्भणे नास्ति कश्चिदुपयोगः । यदि भवति अध्ययनविधेः दृष्टफलं, तदानीमर्थज्ञानं न सिध्यति । विधेः अनुकूलत्वेन विचारशास्त्रस्यास्य आवश्यकत्वात् शास्त्रमेतत् आरम्भणीयं भवति । यदि अध्ययनविधेः अर्थावबोधात्मकं दृष्टफलं न मुख्यं, स्वर्गादिरूपफलमेव तस्य मख्यमित्युच्यते तर्हि पाठरूपा ध्ययनविधिना एव स्वर्गफलं सिध्यति । अनेनापि हेतुना विचारशास्त्र स्याऽनपेक्षितत्वात् एतन्मीमांसाशास्त्रं न आरम्भणीयमिति आगते पूर्वपक्षे सिद्धान्ती समाधत्ते ।

स्वाध्यायोऽध्येतव्यः इत्यत्र वर्तमानेन तव्यप्रत्ययेन अभिधाभावनायाः बोधो जायते । तव्यप्रत्ययेन विहितं विधानं विध्यर्थे भवति । विध्यर्थः एव भावना इति गीयते । भावना द्विविधा अभिधाभावना आर्थिभावना चेति कथ्यते । अभिधीयते अर्थः अनेन इति व्युत्पत्त्या शब्दस्यैव अभिधा इति व्ययहारः । अभिधाभावना एव शाब्दीभावना अथवा प्रेरणा इत्युच्यते । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः सा आर्थीभावना इति भण्यते । शाब्दीभावना इयं तव्यप्रत्ययस्य वाच्यभूता भवति, यतः "स्वाध्यायोऽध्येतव्यः” इति वाक्यश्रवणेन अध्ययने मम प्रवृत्तिः बोध्यते इति स्वयमेव प्रतीतिरुत्पद्यते । यस्य वाक्यस्य श्रवणं कथं विहितं, तदनु तद्वाक्यस्यार्थः नियमेन प्रतीयते इति शब्दश्रवणेन तव्य इत्यस्य वाच्यभूता प्रवृत्तिः भवति इति सिद्धम् ।

अनया शाब्दीभावनया एव अध्ययने स्वर्गादिफलप्रयुक्तेषु यागादिषु पुरुषस्य प्रवृत्तिरुत्पद्यते । अस्याः प्रवृत्तेः नाम आर्थीभावना इति । यतः इयं पुरुषस्य अर्थरूपे प्रयोजने योजयति । इयमार्थिभावना तव्यप्रत्ययस्य वाचकरूपा भवति । उद्देश्यत्वेन यत्र पुरुषप्रवृत्तिः इति वाक्ये वर्तमानोद्देश्यपदेन सुखदुःखादयः नोच्यन्ते, किन्तु साध्यं यत् तदुच्यते । यत्र कियायाः फलमस्ति तदिति विवेकः । वेदः अनादिः नित्यः सिद्धश्च । अतः अयं वेदः साध्यः न भवति, अर्थात् उद्देश्यत्वेन तव्यप्रत्ययः एकः एव । शाब्दीभावनायाः आश्रयः तव्यप्रत्ययः पुरुषाश्रयः आर्थिभावना इति विवेकः ।

यस्मिन् क्रियाफलं तिष्ठति तत् उद्देश्यत्वेन भण्यते । एतदुद्देश्यं चतुर्धा भिद्यते – उत्पत्तिः प्राप्तिः विकारः , संस्कारश्चेति । तत्र उत्पत्तिः –कुलालस्य क्रियानुसारं घटस्योत्पत्तिर्जायते । गमनक्रियया देशान्तरस्य प्राप्तिः । पाकक्रियया तण्डुले अन्नात्मको विकारः । लाक्षारससेचनेन कर्पासबीजे गुणाधानद्वारा एकः संस्कारः उदेति । उद्देश्यत्वेन विहिताः इमे चत्वारः वेदे न सिध्यन्ति । यतः वेदस्य नित्यत्वाभ्युपगमात् अध्ययनप्रवृत्त्या तस्योप्तत्तिर्न भवति । स वेदः विभुः इति हेतोः तस्य प्राप्तिर्नास्ति । वेदे कृताध्ययनेन तस्मिन् न कोऽपि विकारः जायते । अध्ययनेन वेदस्य संस्कारः नोत्पद्यते । तस्मात् एतत् सिद्धं यत् वेदाध्ययनयोः उक्तेषु चतुर्षु कोऽपि आर्थिभावनायाः उद्वेश्यत्वेन भवितुं न शक्यते इति । उद्देश्यं विना भावनायाः व्यर्थत्वमापद्येत्, तदर्थमुद्देश्यत्वेन अर्थावबोधः अवश्यं स्वीकर्तव्यो भवति । यद्येवं नाङ्गीक्रयते, अध्ययनविधेः व्यर्थता स्यात् । अतः अध्ययनविधिसामर्थ्येन तस्य फलम्, अर्थज्ञानं तु केव्लाध्ययनेन न सिध्यति । अर्थज्ञानसम्पादनाय शास्त्रस्य अपेक्षा अस्तिम् । एकस्मिन्नेव कर्मणि कर्तुमकर्तुमन्यथा वा कर्तुं पुरुषस्य सामर्थ्यवत्त्वात्, एतत्कर्म एवमेव सम्पादनीयमिति कर्मानुष्ठाने एकस्य नियमस्य अपेक्षा अस्ति । तादृशीमपेक्षात्मिकामाकांक्षां एतन्मीमांसाशास्त्रं पूरयति । अर्थनिर्धारणे शास्त्रस्यास्य महान् उपयोगः अस्ति । तस्मात् अवश्यमेव एतन्मीमांसाशास्त्रमारम्भणीयमिति ।

यद्यप्यध्ययनविधेः विश्वजिन्न्यायानुग्रहेण स्वर्गफलं भवितुं शक्यते, तथापि तस्यार्थः स्वर्गफलं न भवति । यतः स्वर्गफलमदृष्टात्मकं भवति । सभ्मवति दृष्टफलकत्वे अदृष्टफलकल्पनाया अन्याय्यत्वम् इति वाक्यानुसारं सति दृष्टफले कुतः अदॄष्टफलं कल्पनीयम् ? सूक्ष्मदृष्टया एतदत्र आलोचनीयम् –स्वाध्यायोऽध्येतव्य इत्यत्र अपूर्वनियमविध्योः अपूर्वविधिः न भवतीति कृत्वा नियमविधिः स्वीक्रियते । अयं नियमविधिः गुरुमुखात् अध्ययनं बोधयन् लिखितपाठेन अध्ययनं निवारयन् च दृष्टफलत्वेन तिष्ठति । अस्मात् नियमबलादेव अध्ययनं नियमविधेः दृष्टफल न भवति इति कारणेन अगत्या अवान्तरापूर्वरूपमदृष्टफलमस्य अध्ययनस्य कल्प्यते । तथा च वेदस्य सामान्याध्ययनेन श्रोत्रियत्वसम्पादनात्मकं दृष्टं फलं, तस्यैव वेदस्य अर्थसम्पादनात्मक मीमांसाशास्त्रस्य विषयाध्ययनेन अदृष्टात्मकं विशेषफलं लभ्यते इत्यतः “ स्वाध्यायोऽध्येतव्यः इति वाक्यं दृष्टादृष्टफलजनकत्वेन तिष्ठति इति दिक् ।

कुमारिलमतानुसारमधिकरणविवेचनम्[सम्पादयतु]

पूर्वमीमांसायां "अथातो धर्मजिज्ञासा”[३] इति सूत्रेण प्रथमाधिकरणमारभ्यते । अवान्तरप्रकरणस्य नाम अधिकरणमिति । अधिकरण पञ्चावयवात्मकं भवति । यथा –

विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।
सङ्गतिश्चेति पञ्चाङ्गं प्राञ्चोऽधिकरणं विदुः ॥ इति ।।

विशयः नाम संशयः । यमुद्दिश्य विचारः क्रियते सः विषयः विषये यज्ज्ञानं प्रकारद्वयेन न स्पष्टीक्रियते सः भवति संशयः । प्रकारद्वये एकः भावरूपः, अन्यः अभावरूपः । कोटिद्वये वादी यस्मिन् पक्षे स्वमतमुपस्थापयति सः पूर्वपक्षः । प्रतिवादिनः पूवपक्षखण्डनात्मकः । सिद्धान्तः नाम उत्तरपक्षः । सङ्गतिः त्रिविधात्मिका भवति – अधिकरणसङगतिः, पादसङ्गतिः, अध्यायसङ्गतिश्चेति । सङ्गतेः स्वरूपमेवं भवति-अयं विचारोऽस्मिन्नधिकरणे, अस्मिन् पादे, अस्मिन्नध्याये कर्तव्यत्वेन यद्विहितं तत्समुचितम् इति एवं प्रकारात्मकः विचार एव सङ्गतिरित्युच्यते ।

भाट्टास्तु –सङ्गतिमधिकरणाङ्गत्वेन मन्यन्ते । ते तु सङ्गतिस्थाने उत्तरमिति अङ्गत्वेन स्वीकरिष्यन्ति । निर्णयोत्तरयोः अयं भेदः यत् उत्तर वादिमतस्य खण्डनमात्रं भवति, न तु सिद्धान्तः । यथा जात्युत्तरं तद्वत् । निर्णयः एव सिद्धान्तो भवतीति । एतेषां मतानुसारमयं श्लोकः –

विषयो विशयश्चैव पूर्वपक्षस्तथोत्तरः ।
निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ॥ इति ।

एतेषां न्यायानुसारं –विषयः, संशयः, पूर्वपक्षः उत्तरपक्षः, निर्णयः इति अधिकरणस्य पञ्चावयवाः । एवं पञ्चावयवात्मकस्य अधिकरणस्य स्वाध्यायोऽध्येतव्यः इत्यादिश्रुतिपठितं वेदाध्ययनं विचाराङ्गत्वेन विषयः भवति इति आचार्यस्य कुमारिलस्याभिप्रायः । एतन्मतस्यैव भट्टमतमथवा आचार्यमतमिति लोके व्यवहारः ।

गुरुमतपदौचित्यविचारः[सम्पादयतु]

एवमेव "गुरुमतम्” इत्युक्ते प्रभाकरस्य । अत्र कारणमेतद् भवति एकवारं प्रभाकरः गुरुणां सकाशे अधीयनः आसीत् । समये च तस्मिन् एकस्यां फक्किकायां वर्तमानायां “ तत्र तु नोक्तम्, अत्रापि नोक्तमतः पौनरुक्त्यम्,’ इत्यस्मिन् विषये गुरोः संशयः समजनि । 'तत्र तु' इत्यस्य तात्पर्यमेतदस्ति –तस्मिन्नपि प्रकरणे वाक्यमेतद् नोक्तम्, प्रकरणे अस्मिन्नपि वाक्यमेतद् नोक्तम्, तस्मात् पुनः उक्तं भवति इति सति पौनरुक्त्यं कथमिति प्रभाकरेण पृष्टे विषयेऽस्मिन् गुरुभिरपि विचारः कृतः । यदि एतद न कुत्रापि भणितं पूर्वापरत्वेन तर्हि तस्य पुनरुक्तत्वं कथमागमिष्यति ? पुनरुक्तदोषस्तु अत्र जायते यत्र पूर्वमेकवारं प्रतिपाद्य तदैवान्यत्र प्रतिपाद्यत्वेन स्वीक्रियते इति तु दृष्टः । सत्येवमत्र का गतिः । इति मनः कोटिद्वयमध्यवर्ति अभूत् । ते गुरवः स्थानान्तरं गत्वा चिन्तितुमारभन्त । एतच्छ्रुत्वा झटिति शिष्यः प्रभाकरः तस्मिन् वाक्ये एवं पदपरिच्छेदं कृतवान् । यथा –तत्र तुना –तुशब्देन उक्तम्. अत्र अपिना-अपिशब्देन उक्तम, अतः पौनरुक्त्यमिति । एवं विकल्पितं वाक्यं दृष्ट्वा गुरोः सन्देहः निवारितः । तदा ते शिष्यानपृच्छन्, -केन एवं पदव्यत्यासः कृतः ? इति । तदा प्रभाकरस्य नाम श्रुत्वा गुरुः परमसन्तोषमवाप्य –“त्वमेव गुरुः” इति तं व्यपदिदेश । तदानीमारभ्य सः प्रभाकरः गुरुरिति प्रथां प्राप । तस्य मतं भवति गुरुमतमिति । एवं मीमांसाशास्त्रे मतद्वयम् –एकमाचार्यमतम्, अन्यद् गुरुमतमिति इदानीं प्रभाकरमतानुसारमधिकरणं विवेचयामः

प्रभाकरमतानुसारमधिकरणविवेचनम्[सम्पादयतु]

अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत इति श्रुत्यनुसारं विधेय विषयत्वेन अध्यापनं प्रतीयते इति प्रभाकरमतम् । अन्येषां मते तु श्रुतिः अध्यापनस्यैव विधानं भवति इत्यन्यदेतत् । विधेः एव नियोगः इति संज्ञा । यस्मिन् प्रति नियोगः अर्थात् विधानं करिष्यते सः नियोज्यः इत्युच्यते । अतः नियोगः नियोज्यस्यापेक्षां करोति । तर्हि निजोज्यपदार्थः कः ? आचार्यत्वप्राप्तये यः भवति सः एव नियोज्यशब्दार्थः । अत्र कारणं तु उपनयीत इत्यत्र उपपूर्वक –नीधातोः विधिपूर्वकं स्वसमीपे शिष्यस्य नयनमेव अर्थत्वेन उच्यते । यतः उपनयीत इत्यात्मनेपदप्रयोगेन आचार्यस्य कर्मप्रतीतिरेव बोध्यते । आचार्यकर्मकरणे यः इच्छावान् सः नियोज्यः भवितुं शक्यते । उपनयने यः नियोज्यत्वेन नियुक्तो भवति सः एव अध्ययनेऽपि नियोज्यत्वेन तिष्ठति अर्थात् उपनयनपूर्वकाध्ययनकरणे एव अध्यापके एकप्रकारस्य संस्कारस्योत्पत्तिः भवति । स एव संस्कारः आचार्यशब्दस्य प्रवृत्तिनिमित्तं भवति । अनेन निमित्तेन सः आचार्य इति कथने योग्यः इति । “ अष्टवर्षं ब्राह्मणमुपनयीत तमध्यापयीत" इति श्रुत्यर्थं प्रतिपादयन् नियोगः कः ? नियोज्यः कः ? इत्यादि विषयसम्पादनेन आचार्यः प्रभाकरः अधिकरणमारचयति ।

श्रुत्यादीनां प्रामाण्यविचारः[सम्पादयतु]

श्रुत्यादयः षट् वेदोक्तार्थनिर्णये प्रमाणानि भविष्यन्ति । तत्र सूत्रम् –“श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्”[४] इति मन्त्रदेवताहविरादिद्रव्याणां विनियोगः कुत्र कर्तव्यः ? इतीमामाकाक्षां निर्धारयन्ति श्रुत्यादिषट्प्रमाणानि प्रवर्तन्ते । इमानि षट् एकस्मिन् काले अथवा सर्वदा एकत्र प्रावर्तिष्यन्त् तर्हि अनवस्था स्यात् । अतः पारदौर्बल्यमर्थविप्रकर्षात् इत्युक्तम् । यत्र प्रमाणद्वयस्य सन्निपातः तत्र पूर्वापेक्षया अपरं प्रमाणं दुर्बलमित्युच्यते । एतत्क्रमानुसारं सर्वेषां प्रमाणानां निर्णायकत्वेन मुख्यत्वेन च श्रुतिरेव अन्तिमत्वेन तिष्ठति । अस्याः अपेक्षया अन्ये लिङ्गादयः सर्वे दुर्बलाः भविष्यन्ति ।

श्रुतिः द्विप्रकारात्मिका अस्ति – एका साक्षात् पठिता, अन्या अनुमिता । प्रथमस्योदाहरणम् –ऐन्द्रया गार्हपत्यमुपतिष्ठते इति । अत्र देवतासम्बन्धी या ऋक् तस्याः गार्हपत्याग्नि उपस्थाने विनियोगः इति पुरोडाशस्य सदनं करोति इति । वाक्यमेतद् श्रुतिसमूहेषु न कुत्रापि प्राप्यते । "श्योनं ते सदनं कृणोति”[५] इति ब्राह्मणवाक्यानुसारं मन्त्रार्थं दृष्ट्वा अनेन लिङ्गात्मकज्ञापकबलेन मन्त्रार्थानुसारं मन्त्रविनियोगं कुर्वन्त्याः श्रुतेरस्याः अनुमानं क्रियते ।

अर्थप्रकाशनसामर्थ्यत्मकं यत् तल्लिंगमित्युच्यते । लिंगमेतत् श्रुत्यनुसारं भवति । लिंगमपि द्विविधम्-साक्षाद्, दृश्यमानम्, अनुमितं चेति । साक्षाद् दृश्यमानं लिंगं नाम 'श्योनं ते' इति पुरोडाशस्य सदनं करोति इति भवति । अनुमितलिंगस्योदाहरणम् –“ देवस्य त्वा सवितु प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि” (ते० स० १-१ ४ ) इति वाक्यम् । आकांक्षायोग्यतादिवशेन परस्परान्वितार्थपदानां यः समूहः तत् वाक्यमित्युच्यते । 'देवस्य त्वा' इति वाक्ये 'अग्नये जुष्टम्' इति भागस्यास्य निर्वापरूपात्मकार्थप्रकाशनसामर्थ्यं प्रत्यक्षत्वेन दृष्टम् तेन एकवाक्येन अवशिष्टभागस्य अनेन वाक्यप्रमाणबलेन अर्थप्रकाशनसामर्थ्यमनुमीयते । तेन समुदितलिङ्गेन देवस्य त्वेति निर्वपति इति श्रुतेः अनुमानं क्रियते इति श्रुतेरपेक्षया लिंगं दुर्बलम् ।

लिंगास्यानुमापकवाक्यमपि द्विविधम्-साक्षादनुमितभेदेन वाक्यस्य साक्षादुदाहरणं 'देवस्य त्वा' इति । अन्यस्योदाहरणम् –“समिधो यजति” इत्यस्यां श्रुतौ इष्टविशेषनिर्देशाभावात् यागेनानेन कस्याः भावना करणीया ? इत्याकांक्षायाम्, एवमेव 'दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्’ > इत्यस्मिन्नपि वाक्य कथं भावयेत् इत्याकांक्षायाम् इमे द्वे आकांक्षे यत्र प्रतिपादिते स्तः तत्प्रकरणम् भवतीति हेतोः तदेवात्र वाक्यद्वयस्य प्रमाणं भवति । प्रकरणमेतद् द्वयोस्तयोः एकवाक्यतां सम्पादयति । अर्थात् प्रकारणेन अनुमीयते तयोः एकवाक्यतात्मकः अर्थावबोधः , इति कृत्वा "समिधो यजति” इति वाक्यं लिङ्गापेक्षया दुर्बलम् ।

उभयाकांक्षा यत्र तत्प्रकरणमित्युच्यते । एतदपि द्विविधम्-साक्षात् श्रुतम्, अपरमनिमितं चेति । प्रथमस्योदाहरणं पूर्वमेव प्रतिपादितम् । द्वितीयस्य- 'ऐन्द्राग्नमेकादशकपालं निर्वपेत्’ (तै० स० २-२-११) इत्यादिना इष्टविधानं क्रियते । "इन्द्राग्नी रोचना दिवः (तै० सं ४-२-११)इत्यादि मन्त्रानुसार यथासंख्यपाठानुरोधेन यथाक्रमं विनियोगोऽपि उक्तः । एवं तत्तद्वाक्यं तत्तत्स्थानविशेषेण एकवाक्यत्वं भजते इत्यतः स्थानानुमानेन प्रकरणार्थः निश्चीयते । एवं प्रकरणार्थः वाक्ये, वाक्यं लिङ्गे लिंङ्ग श्रुतौ इति परम्परया प्रकरणार्थस्य विनियोगात् वाक्यापेक्षया प्रकरणं दुर्बलं भवति ।

उभयाकांक्षायाः अनुमापकं स्थानप्रमाणमपि द्विविधम्-साक्षादेकम्, अन्यत् समाख्यया अनुमितं चेति । समाख्या नाम योगबलम् अर्थात् अन्वर्थता इत्युच्यते । स्थानस्य साक्षादुदाहरणं प्रकरणे प्रतिपादितम् । अन्यानुमितस्योदाहरणम् –हौत्रम्, औद्गात्रम् इत्यादि । होतुरिदं हौत्रम् इति योगबलेन हौत्रादिसमाख्यया यल्लब्धं कर्म तत् होतुः पुरुषस्य अनुष्ठानयोग्यमिति अनुमीयते । समाख्या सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धप्रयुक्ता एव भवति । असन्निहितपुरुषेण सह सम्बन्धाभावात्, सम्बन्धस्य सिद्ध्यर्थं सन्निधिपाठरूपक्रमस्य कल्पना क्रियते । अनुमानेन पाठक्रमे सिद्धे सति तेन उभयाकांक्षायाः अनुमानं क्रियते । तेनानुमानेन एकवाक्यतायाः सिद्धिः इति हेतोः षट् प्रमाणेषु अन्तिमत्वेन दुर्बला भवति इयं समाख्या ।

तस्मात् समाख्या स्थाने अन्तर्भवति, स्थानं प्रकरणे अन्तर्भवति, प्रकरणं वाक्येऽन्तर्भावं भजते, वाक्यं लिङ्गे स्वात्मानमर्पयति, लिङ्गं स्वस्वरूपं श्रुत्या स्वीकरोति इत्यतः जैमिनिना उक्तम् – “ श्रुतिलिङ्ग वाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्” इति श्रुतिः वेदरूपः इत्युच्यते ।

प्रामाण्यवादविचारः[सम्पादयतु]

प्रमाणानां यः भावः अर्थात् धर्मविशेषः अस्ति तदेव प्रामाण्य मित्युच्यते । यथार्थानुभवः प्रमाणमित्युच्यते । एतद् प्रमाणं प्रमा इत्यपि कथ्यते । यथार्थानुभवे वर्तमानः यः विशेषधर्मः तस्य प्रामाण्यमिति कथनात् एतत् प्रमात्वं , प्रमाणत्वमित्यादिशब्दैः व्यपदिश्यते । भावाभावभेदेन विरुद्धत्वेन अप्रमात्वमप्रमाणत्वमित्यपि कथ्यते । प्रामाण्यकारणत्वेन यः वादः अस्ति तस्य "प्रामाण्यवादः” इति नाम । अयं वादः द्वेधा व्यवह्रियते –जननकारणविषयकः, ज्ञापककारणविषयकश्चेति । यस्मिन् कार्यस्योत्पत्तिः भवति सः वादः जननकारणविषयकः ।ज्ञापक- कारणविषयस्तु यस्मिन् कार्यज्ञानं सम्पाद्यते सः इति । प्रामाण्यस्य कारणं भवति-स्वतः परतश्चेति । यत्र स्वतः परतश्चेति संशयः तत्र वादारम्भो भवति । स्थिते एवं के स्वतः प्रामाण्यं स्वीकुर्वन्ति , के परतः प्रामाण्यमभ्युपगच्छन्ति इति ज्ञापनाय भवत्ययं श्लोकसन्दर्भः

प्रमाणत्वाप्रमाणात्वे स्वस्तः सांख्याः समाश्रिताः ।
नैयायिकास्ते परतः सौगताश्चरमं स्वतः ॥
प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः ।
प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम् ॥

इति । सांख्याः प्रमाणत्वाप्रमाणत्वयोः जन्म स्वतः इति, नैयायिकाः परतः इति, बौद्धास्तु अप्रामाण्यस्य जन्म स्वतः प्रामाण्यस्य परतः इति । वेदवादिनः मीमांसकास्तु प्रामाण्यं स्वतः अप्रामाण्यं परतः इति स्वस्व मतमुपस्थापयन्ति । एतेषां विस्तारः खण्डनमण्डनात्मको विचारः ग्रन्थान्तरादवलोकनीयः । स्वतः प्रामाण्यं युक्तियुक्तं भवति । यतः प्रामाण्यस्य स्वतः सिद्धत्वं एतद् भवति यत् विज्ञानसामग्रीजन्यम् एवं तद्भिन्नहेत्वजन्यमिति । अयं भावः –येन सामग्रीवशेन विज्ञानमुत्पद्यते, तेनैव वर्तमानं प्रामाण्यमपि उत्पन्नं भवति । प्रामाण्योत्पत्तौ गुणमथवा दोषाभावं विहाय अन्यः हेतुः न कोऽपि तिष्ठति । दोषास्तु प्रमायाः प्रतिबन्धकमात्रत्वेनोच्यन्ते । अयं मीमांसकाभिमतः प्रामाण्यवादविचारः ।

सततं प्रामाण्ये मीमांसामतानुसारमनुमाने – विवादास्पद प्रामाण्यं पक्षत्वेन स्वीक्रियते, विज्ञानसामग्रीजन्यं तद्भिन्नहेतुना यदजन्यं तत् साध्यत्वेन स्वीक्रियते, अप्रमायाः अनाश्रयत्वं हेतुत्वेन तिष्ठति, घटादि-प्रमासदृशः दृष्टान्तः भवति इति विवेचनीयम् । एवं विध्यर्थवादमन्त्रनामधेयात्मकैः चतुर्भिः भागैः विभक्तः वेदः धर्मविषये स्वतः प्रामाण्यं भवति । अज्ञातार्थज्ञापकः यः वेदमन्त्रः सः विधिर्भवति । यथा “ अग्निहोत्रं जुहुयात्स्वर्गकामः” इति । प्रशंसा अथवा निन्दापरकस्य वेदवाक्यस्य अर्थवादः इति संज्ञा । यथा – “वायुर्वे क्षेपिष्ठा देवता” इति वायोः स्तुतिद्वारा “ वायव्यं श्वेतमालभेत” इति विधेः प्रशंसां करोति । एवमेव "सोऽरोदीत्, यदरोदीत्, तद् रुद्रस्य रुद्रत्वम्" इति विधेः प्रशंसां करोति । एवमेव “ सोऽरोदीत्, यदरोदीत्, तद् रुद्रस्य रुद्रत्वम्” अनेन वाक्येन रजतस्य निन्दाबोधनं जायते । प्रयोग समवेतार्थस्मारकत्वेन यद वेदवाक्यं सः मन्त्रः भवति । यथा – श्येनं ते सदनं कृणोमि इति । अस्य मन्त्रस्य उपयोगः पुरोडाशस्य सुखकराशयद्वारा यज्ञादिकर्मणि भवति । अर्थस्मरणं मन्त्रेणैव कार्यम् इति हेतोः मन्त्रस्यापि आम्नायत्वमुक्तम् । नामनिर्देशपूर्वकं यागस्य विधानं यत् तन्नामधेयत्वेन कथ्यते । यथा –“श्येनेनाभिचरन् यजेत, उद्भिदा यजेत पशुकामः” इत्यादयः । एते चत्वारः क्रियापरकाः इति हेतोः एतेषां चतुणांमपि आम्नायत्वं सिद्धम् ।

मीमांसकाः वेदवादिनः इति हेतोः जैमिनिनोक्तम् – आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्” (जै० सू० १-२-१) इति । वेदस्य स्वतः प्रामाण्यमेतैः आचार्यैरेव साधितम् इत्यतः वेदार्थमीमांसारूपमेतद् मीमांसादर्शनं भवति ।

वेदस्यापौरुषेयत्वविचारः[सम्पादयतु]

इमे ग्रन्थात्मकाः वेदाः अग्न्यादिप्राणविधवेदाः इव अपौरुषेयाः भवन्तीति मीमांसकाः । तत्र पौरुषेयत्वं नाम प्रमाणान्तरेण अर्थमुपलभ्य रचितत्वम् तत् वेदे नास्ति । अतः अयं वेदः अपौरुषेयः इति । अनेनैव कारणेन वेदस्य स्वतः प्रामाण्यमपि सिध्यति । पुरुषसम्बन्धसम्भाविताः भ्रम-प्रमाद-विप्रलिप्सादयः अप्रमाण्यहेतवः ये ते वेदे न मिलिष्यन्ति । वेदस्य ब्रह्मस्वरूपत्वात् तस्मिन् वेदे प्रतिपादितः वेदनारायण एव पुरुषः जीवः इति च वक्ष्यमाणत्वात् वेदस्यापौरुषेयत्वं सिद्धमिति एतेषां सिद्धान्तः ।

ईश्वरकृताः वेदाः” इति वैशेषिकाः नैयायिकाः वेदान्तिनश्च भणन्ति । तत्र कारणम्-कण्ठताल्वाद्यभिधातजन्य –वर्णारूपाणां वेदानामपोरुषेयत्वासम्भवात् इति । ब्रह्मणः स्वासोच्छ्वासरूपेण वेदानामुत्पत्तिः इति श्रूयते । आप्तोक्तत्वे यया प्रामाण्यं तथा तेषां वेदानां प्रामाण्यमुत्पद्यते । भवति ऋङ्मन्त्रः –

तस्माद्यज्ञात्सर्बहुतः ॠचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
- (ऋ० सं० १०-३०३) इति एवमुपनिषदि-

यो ब्राह्मणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै (श्वे० उ० ६-१८) इति च भवति न्यायसूत्रमपि – मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्मात् (न्या० सू० २-१-६३) इति । एवमादिभ्यः मन्त्रोपनिषद्वाक्येभ्यः ईश्वरकृतत्वम् ईश्वरप्रोक्तत्वं वा वेदस्य स्पष्टमिति एतेषामाशयः ।

अत्रेदमवधार्यम् । वेदः पौरुषेयो वा अपौरुषेयो वा इति विशिष्य न चिन्तनीयम् । यतः कीदृशाः अपि ते ज्ञान-विज्ञानराशयः सन्ति । गुणैकपक्षपातिभिः विद्वद्भिः तेषामर्थानुसन्धानपूर्वकमध्ययनमवश्यं कर्तव्यमेव । तैरैव वेदैः पुनरपि वयं पुरा इव जगतः गुरुत्वं प्राप्तुं ज्ञातु च शक्नुमः इदानीमित्यविस्मरणीयम् ।

ईश्वरस्य निः श्वासरूपेण स्थिताः वेदाः पौरुषेयाः इति स्त्यपि लौकिक पुरुषनिर्मितत्वाभावमात्रेण अपौरुषेयाः भवन्ति । यतः ब्रह्मणः लौकिकपुरुषवत् जननमरणधर्मौ न स्तः । ईश्वरः अनादिः इत्युक्तत्वात् वेदोऽपि अनादिरिति स्वयमेव सिद्धम् । अत एव वेदाः निर्दोषाः प्रामाणिकाश्च इत्यतः मीमांसाशास्त्रे वेदस्यापौरुषेयत्वं सिद्धम् ।

वेदस्य स्रष्टा ब्रह्म[सम्पादयतु]

ईश्वरः एव सम्पूर्णस्य जगतः सृष्टेः कारणरूपो भवति । तेनैव निर्मितं भवति इदं जगत् । यथा –लोके कुलालः घटस्य निर्माता भवति, घटनिर्माणात् पूर्वं तद्विषयकचिन्तां मनसि कृत्वा तज्ज्ञानं बुद्धौ सम्यगवधार्य अनन्तरं घटं निर्मास्यति एव परमात्मा प्राणिनां धर्माधर्मपुरस्सरं वेदोक्तरीत्या सृष्टिं करोति । यद्यपि वेदस्यापौरुषेयत्वमेव सिध्यति तथापि साक्षाद्वेदेनैव सृष्टयादयः न जायन्ते । अतः वेदस्य स्वतः अपौरुषेयत्वं ब्रह्मणा श्वासोच्छ्वासमुखेन प्रणीतत्वात् पौरुषेयत्वं च सिध्यतः । वेदस्य पौरुषयत्वमपि ब्रह्मणः नित्यत्वात् अपौषेयत्वं च सिध्यतः वेदस्य पौरुषतत्वमपि ब्रह्मणः नित्यत्वात् अपौरुषेयत्वमेव भजते जन्मनाशराहित्यात् । सत्वप्राणिनां धर्माधर्माः बुध्यादयश्च परमात्मनि वर्तन्ते । अयमीश्वरः तेषां धर्माधर्मानुसारेण चराचरप्राणिनां सृष्टिं करोति । तेषां भरणार्थं वेदानां निर्माणं करोति । यथा लोके पिता पुत्रमुत्पादयति, अनन्तरं तस्मै हिताय ज्ञानं बोधयति, तेन ज्ञानेन अहितानां कर्मणां परिहारं कर्तुं तस्य् शिक्षां ददाति तथा परमेश्वरः जीवानामिष्टप्राप्तेः अनिष्टपरिहारार्थं च वेदानां सृष्टिं करोति । किं च जीवानां सुकृत-दुष्कृतकर्मणां फलमीश्वरः ददाति । पूर्वमीमांसायां तु कर्म स्वतः अपूर्वोत्पादनद्वारा स्वस्य फलं ददाति इत्यभ्युपगम्यते । ईश्वरः इत्येको वर्तते वा न वा इत्यत्र एतेषां मीमांसा नास्ति । वेदान्तदर्शने परब्रह्म इत्येकम् अनन्तमनादि अस्तीत्यभ्युपगम्यते, तद वेदस्य् निर्मातृ भवति इति च पूर्वोत्तरमीमांसयोः अभेदः ।

किञ्च मीमांसानये वेदः अपौरुषयः, तेनैव सृष्टयादिकर्मजातं चाल्यते इत्युच्यते । कर्मणः मुख्यत्वं प्राबल्यत्वं च दातुं मतमेतदङ्गीक्रियते । यदा बौद्धानां चार्वाकाणां च मतस्य बाहुल्यमासीत् तदा तत्तन्मतं खण्डयितुम् एवं वेदोक्तकर्मानुष्ठाने जनानुरागमाक्रष्टुम् आचार्याः कुमारिलभट्टापादाः कर्मणः एवं मुख्यत्वं ददुः । शारीरकमीमांसकास्तु ब्रह्मणः जगत्सृष्टिं, तस्य जगतः सृष्टयर्थं, सृष्टिगताना जीवानां च वेदस्योपयोगः वेदस्तु यथावत् ब्रह्मणा निर्मितः –धाता यथा पूर्वमकल्पयत् (ॠ० स० १०-१६०-३) इत्यादि श्रुतेः इति वदन्ति । अतः ईश्वरापेक्षया वेदः पौरुषयः जीवापेक्षया वेदः अपौरुषेय एवेति अभ्युपगम्यते । यदि जीवापेक्षया वेदः पौरुषेयो भवति तर्हि जीवगतधर्माः ये भ्रमप्रमादादयः एते वेदेऽपि अवश्यं सम्भवेयुः । वेदे तु न तथा दृश्यते । तस्मात् वेदस्य सृष्टृ ब्रह्म इति सिध्यति ।

वेदस्य नित्यत्वविचारः[सम्पादयतु]

भगवता परमर्षिणा जैमिनिना अभिप्रेतं यत् अर्थेन सह शब्दस्य सम्बन्धो भवति, अयं सम्बन्धः औत्पत्तिकरूपेण नित्यो भवति, न तु कृत्रिमः साङ्केतिको वा । तस्य नित्यत्वं स्वाभाविकमित्युच्यते । अतः एव विधिवाक्योत्पन्नज्ञानमबाधितं सत् सत्यं भवति वेदशब्दाः अज्ञातविषयाणां ज्ञानं जनयन्ति, अतः ते स्थायिनः भवन्ति । उच्चारणात् पूर्वं शब्दः अव्यक्तावस्थायां तिष्ठति, उच्चारणेन ते एव अव्यक्तभूताः शब्दाः व्यक्ताः भविष्यन्ति । अतः शब्दो नित्यः । उत्पन्ने शब्दे करणरूपक्रिया न सम्भवति । उच्चारणानन्तरमपि शब्दः तथैव तिष्ठति, किन्तु अव्यक्तावस्थायाम्, तदा तस्य नाशः न हि भवति । तस्माद् वेदो नित्यः इति । वेदशब्दानां नित्यत्वात् शब्दैः प्रतिपाद्यमाना देवता अपि नित्या एव भवति । एतेन देवतानामपि नित्यत्वं स्थापितं भवति ।

देवतानामेकत्वविचारः[सम्पादयतु]

ऋग्वेदे प्रतिपादिताः अनेके देवतात्मानः एकस्यैव परमात्मनः स्वरूपभूताः भवन्ति । 'एकं सद्विप्राः बहुधा वचन्त्यगिंन यमं मातशिखानमाहुः । (ऋ० सं० १-२२-१६) इति श्रुतेः । ऋग्वेदे वर्गत्रयात्मकाः देवताः भवन्ति । तेषां वर्गाणां नाम-पृथिवी, अन्तरिक्षं , द्योः इति । एतेषु पृथिव्याः देवता – अग्निः, अन्तरीक्षस्य देवता –इन्द्रः अथवा वायुः द्युलोकस्य देवता –सूर्यः इति । एतेषां त्रयाणां मध्ये सम्बन्धस्य वर्तमानत्वात् पृथिवी-अन्तरिक्षं द्योः एते त्रयः एकीभूताः भवन्ति । यद्यपि एताः देवताः स्वस्वकर्मानुसारेणा त्रिषु नामसु प्रसिद्धाः अथापि वस्तुतः एते त्रयः एकस्मिन्नेव परमात्मनि अन्तर्भवन्ति । तथा च वाक्यम् – “तासां महाभाग्यात् एकैकस्यापि बहूनि नामधेयानि भवन्ति” इति । यास्कोऽपि निरुक्ते लिखति- “नरराष्ट्रमिव" इति । यथा एकस्यैव राज्ञः कृते सर्व राष्ट्रं भवति, तद्वत् एकस्य परमात्मनः कृते सर्वं भवति । सर्वं परमात्मस्वरूपमित्यर्थः ।

चोक्तमुपनिषदि –

एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा” (श्वे० उ० ६-११) इति निरुक्तेऽपि –एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति इत्याम्नातं भवति । तस्मात् सर्वे देवाः एकस्यैव परमात्मनः स्वरूपभूताः भवन्ति । तस्य आत्मनः ज्ञानायैव सर्वाः वेदान्तोपनिषच्छुतयः वेदश्च प्रभवन्ति इत्यतः एकविज्ञानेन सर्वविज्ञानं सिध्यतीति एतदेव मोक्षतत्त्वमित्युच्यते ।

मीमांसादर्शने ज्ञानसमीक्षा[सम्पादयतु]

मीमांसादर्शनेऽपि प्रमाजन्यस्य ज्ञानस्य प्रामाण्यं स्वीकृतमस्ति । मीमांसायाः प्रमाणलक्षणमस्ति -`कारणदोषबाधकज्ञानरहितं गृहीतग्राहि ज्ञानं प्रमाणम्’ इति । अर्थात् भ्रमरहितस्य संशयरहितस्य च अज्ञातस्य वस्तुनोऽनुभवः प्रमा कथ्यते । मीमांसादर्शने प्रमाणानां संख्या षट् वर्तते । यद्यपि प्रभाकरः पञ्चैव प्रमाणानि स्वीकरोति तथापि कुमारिलभट्टमते षट् प्रमाणानि स्वीकृतानि-प्रत्यक्षम अनुमानम्, उपमानम्, शब्दः, अर्थापत्तिः, अनुपलब्धिश्चेति । दर्शनेषु प्रत्यक्षानुमानयोः सन्दर्भे प्रायेण विवादो नास्ति । यद्यपि अनुमानप्रमाणविषये मीमांसकाः पञ्चावयववाक्यानि नैव स्वीकुर्वन्ति तथापि प्रतिज्ञाहेतूदाहरणनीति त्रीण्येव वाक्यानि परार्थानुमाने प्रतिपादयन्ति । मीमांसायाम् उपमानमपि भिन्नमस्ति । तथाहि तत्र उपमितिः आप्तवाक्यस्य स्मरणपूर्विका भवति, दृष्टवस्तुनः सादृश्यात् स्मृतवस्तुनः सादृश्यमनुमाय पदार्थज्ञानमत्र विधीयते अतः मीमांसोक्ते उपमानप्रमाणे शब्दानुमानयोः अपि संयोगोऽस्ति ।

मीमांसादर्शने शब्दप्रमाणस्यापि महत्त्वमस्ति । वाक्येन शब्दप्रमाणेन वा प्रायेण वेदवाक्यानि गृहीतानि सन्ति, किन्तु लौकिकवाक्यान्यपि आप्तेन कथितानि चेत् तेषां प्रामाण्यं स्वीक्रियते । मीमांसादर्शने वाक्यं द्वेधा प्रतिपादितम् सिद्धार्थकं विधायकं चेति । वेदेषु उपनिषद्वाक्यानि सिद्धार्थकानि सन्ति यानि च ब्रह्मणः स्वरूपादेः प्रतिपादकानि वर्तन्ते । अपराणि विधायकानि विधिवाक्यानि ब्राह्मणादिषूक्तानि सन्ति । तानि विधिवाक्यानि विनियोगवाक्यरूपेणापि प्राप्यन्ते । तानि सर्वाणि प्रमाणम् ।

मीमांसामतानुसारेण वेदप्रतिपादितं वस्तु कर्मरूपमस्ति न तु ज्ञानरूपम् यतो हि मीमांसादर्शने ज्ञानबोधकानां वाक्यानां तात्पर्यमपि विधिबोधकत्वमेवाभिमतम् । विहि तकर्माणि धर्मरूपाणि सन्ति, धर्मस्य प्रतिपादनं च मीमांसाया मूलभूतम् उद्देश्यं वर्तते । धर्मस्य विशेषता इयमस्ति यत् वेदविहितत्वात् तेषां प्रामाण्यं स्वीक्रियते । एवं चेत् वेदानां स्वतः प्रामाण्यम् अस्ति। वेदानां प्रामाण्यस्य प्रतिपादनमपि मीमांसायाः मुख्यं लक्ष्यमस्ति ।

मीमांसोक्तमतेन वेदाः नित्याः सन्ति । नित्यत्वादेव ते अपौरुषेयाः सन्ति अर्थात् वेदाः कस्यापि पुरुषस्य कृतिर्नास्ति । ऋषिभिः ऋचां दर्शनं कृतं, अतस्ते वेदानां रचयितारो न वर्तन्ते, ते केवलं मन्त्रदृष्टारः सन्ति । मीमांसामते वेदानां कर्त्ता ईश्चरो नास्ति । वेदे लोके च आप्तत्वात् शब्दप्रामाण्यमस्ति । शब्दो नित्यो वर्तते । शब्दोच्चारणं शब्दोत्पत्तिर्नास्ति । यतोहि उच्चारणात् पूर्व शब्दो विद्यमान आसीत् । यदि शब्दोऽनित्यः स्यात् तदा उच्चारणभेदेन तस्यानेकानि रूपाणि स्युः, किन्तु एकस्य शब्दस्य एकमेव कारणं भवति । शब्दस्य अर्थेन सह सम्बन्धोऽपि स्वाभाविक एवास्ति, कृत्रिमो नास्ति । अयमेवापौरुषेयो वेदो धर्मे प्रमाणम् अस्ति ।

मीमांसकानाम् अवधारणा वर्तते यत् वेदस्य विषयः पञ्चधा वर्तते-विधिवाक्यानि, मन्त्रवाक्यानि, फलवाक्यानि, अर्थवादवाक्यानि, निषेधवाक्यानि चेति । क्रियाप्रवर्तकानि वाक्यानि विधिवाक्यानि सन्ति । मंत्रवाक्यानि यज्ञानुष्ठानेऽर्थस्मरणकारीणि भवन्ति । यज्ञानां नामानि फलवाक्यानि नामधेयानि सन्ति । निषिद्धकर्मभ्यो निवर्तकानि निषेधवाक्यानि जायन्ते पदार्थानां गुणदोषविवेचनपूर्वकं स्तुतिनिन्दापरकाणि वाक्यानि अर्थवादवाक्यानि कथ्यन्ते । विधिविचारो मीमांसायाः मुख्यविषयो वर्तते । विधि श्चतुर्धाऽभिमता –

  1. उत्पत्तिविधिः
  2. विनियोगविधिः
  3. अधिकारविधिः
  4. प्रयोगविधिश्च

कर्मणः स्वरूपस्य प्रतिपादयिता विधिः उत्पत्तिविधिरस्ति । अङ्गभूतानां प्रधान भूतानां च प्रज्ञानां सम्बन्धबोधकानि वाक्यानि विनियोगविधिरस्ति । कर्मोत्पन्नफलस्य स्वामित्वं या प्रतिपादयति सा अधिकारविधिर्भवति । प्रयोगस्य शीघ्रतां या व्यनक्ति सः प्रयोगविधिः कथ्यते ।

अर्थापत्तिः[सम्पादयतु]

कस्याप्यर्थस्य अन्यार्थं विना सिद्धौ असति तस्य सिद्धये पदार्थान्तरस्य कल्पना अर्थापत्तिर्भवति । यथा 'पीनो देवदत्तो दिवा न भुङ्क्ते, इत्यादौ भोजनाभावे पीनत्वं सिद्धं नास्ति । अत्र दिवाभोजनस्य अभावोऽस्ति, पीनत्वसिद्धये तदतिरिक्तस्य रात्रिभोजनस्य कल्पना क्रियते । इदमेवार्थापत्तिप्रमाणम् । प्रत्यक्षानुमानशब्देस्वस्यान्तर्भावोऽसम्भ्व आसीत् अतः स्वतंत्रप्रमाणरूपेणेदं स्वीकृतम् । अर्थापत्तिर्द्विविधा प्रतिपादिता-श्रुतार्थापत्तिः दृष्टार्थापत्तिश्च ।

अनुपलब्धिः[सम्पादयतु]

अभावपदार्थस्य ज्ञापकं प्रमाणम् अनुपलब्धिर्भवति । यथा 'इह भूतले घटो नास्ति’ । मीमांसायां प्रमाणानां स्वतः प्रामाण्यं स्वीकृतमस्ति, अर्थात् ज्ञानस्य प्रामाणिकतां निर्धारयितुं ज्ञातेतरस्य कस्यापि साधनस्य आवश्यकता नास्ति । ज्ञानं प्रमाण्येन सहैव आविर्भूतं भवति । अतः मीमांसायां ज्ञानस्य स्वतः प्रामाण्यमेवाभीष्टम् अस्ति । दृष्टिकोणस्य भेदात् भ्रमज्ञानमुत्पद्यते । यथा 'इदं रजतम्’ इत्यादौ 'इदं’ पदेन प्रत्यक्षदृष्टस्य पदार्थस्य 'रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थास्य 'रजतम्’ इत्यनेन अनुमितमात्रस्य पदार्थान्तरस्य भेदकत्वं न प्रतीयते, दृष्टिभेदात् रजतस्य मिथ्याप्रतीतिर्जायते । इयमेव अख्यातिरस्ति ।

प्रमेयतत्त्वसमीक्षा[सम्पादयतु]

मीमांसादर्शने पदार्थानां निर्धारणसम्बन्धे ऐकमत्यं नास्ति । कुमारिलभट्टाः केवलं पञ्चैव पदार्था इति स्वीकुर्वन्ति-द्रव्यम्, गुणः,कर्म, सामान्यम्,अभावश्च । द्रव्याण्यपि भट्टमते एकादश सन्ति । नवद्रव्यातिरिक्तं तमसः शब्दस्य चापि द्रव्यत्वं तेन प्रतिपादितम् । प्रभाकरः अष्टौ पदार्थान् स्वीकरोति । तन्मतानुसारेण अष्टौ पदार्थाः एवमुक्ताः –द्रव्यं, गुणः, कर्म, सामान्यम्, परतन्त्रता, शक्तिः सादृश्यं, संख्या चेति । एषु परतन्त्रता समवायस्यैव रूपान्तरमस्ति शक्तिसादृश्ययोः पदार्थतत्वं नूतनपरिकल्पनाऽस्ति । मुरारिमिश्राः चतुरः पदार्थान् स्वीकरोति । तन्मते चत्वारः पदार्था एवं प्रकारेण ग्राह्याः –धर्मिविशेषः, धर्मविशेषः, आधारविशेषः, प्रदेशविशेषश्च ।

जगतः सम्बन्धे मीमांसकविचारणा पृथगेवास्ति । जगत् तस्मिन्नेव रूपे सत्यमस्ति, यस्मिन् रूपे तद् अस्माकं ज्ञानेन्द्रियाणां विषयो भवति । संसारः इन्द्रियविषयरूपोऽस्ति अथवा भोगायतन- भोगसाधन-योग्या दिरूपेण संसारस्य अवस्थितिर्विद्यते । जगद् अनादि अनन्तं चास्ति । केषांचन मीमांसकानां दृष्टौ जगतो मूलं परमाणुरस्ति । कृतकर्मणाम् अपूर्वस्य फलोन्मुखे सति अणुसंयोगात् जगद् उत्पद्यते । मीमांसकमते परमाणुः प्रत्यक्षदृष्टं सूक्ष्मकणं विद्यते न तु नैयायिकमते यथा अलौकिकप्रत्यक्षस्य विषयः । एवं मीमांसायाः सृष्टिक्रमः स्थूलोऽस्ति किन्तु यः परमाणुवादं न स्वीकुर्वन्ति, तेषां दृष्टौ जगत् उत्पत्तिविनाशाभ्यां रहितं नित्यतत्त्वमस्ति अतः मीमांसकमते जगतः विनाशो न भवति ।

शक्तिसिद्धान्तोऽपि मीमांसकानां स्वतन्त्रकल्पनाऽस्ति । तदनुसारं कार्यस्योपादाने शक्तिनामकः पदार्थो विद्यते यस्य सद्भावाद् एव कार्योत्पत्तिर्भवति, अन्यथा वह्नौ दाहकत्वशक्तेरभावे यथा स्वरूपमात्रेण दाहकत्वं न सम्भवति । यथा वा चन्द्रकान्तो मणिः वह्नेर्दाहकत्वाभावात् स्वरूपतः वह्निमान् अपितु दाहकत्वरहितो भवति । इतरदार्शनिकैरस्य मतस्य पूर्णतया खण्डनं कृतम् ।

आत्मविचारः[सम्पादयतु]

आत्मैव कर्म कर्त्ता भोक्ता चास्ति । ज्ञान-इच्छा-सुख-दुःख –प्रयत्नादि विशेषगुणानाम् अधिकरणम् आत्मैवास्ति । अयं आत्मा व्यापकोऽपि प्रतिशरीरं भिन्नोऽस्ति । मीमांसका आत्मनि परिमाणरूपिणं कर्म स्वीकुर्वन्ति । अस्मिन् मते आत्मा जडो बोधात्मकश्चास्ति । यतो हि स्वप्ने आत्मनो विषयैः सह सम्पर्कस्य अभावात् आत्मनि चैतन्यस्याप्यभावो भवति, किन्तु इन्द्रियार्थसन्निकर्षे सति चैतन्यमाविर्भवति । आत्मनो ज्ञानम् आत्मसंवित्तिद्वारा जायते इति कुमारिलभट्टस्य मतमस्ति । एतदनुसारं आत्मा ज्ञानस्य कर्त्ता कर्म च युगपद भवति । प्रभाकर इदं न स्वीकरोति । प्रभाकरमतेन प्रत्येकं वस्तुज्ञाने तेनैव ज्ञानेन आत्मज्ञानमपि कर्तृत्वेन प्रकाशितं भवति । आत्मैव अहंप्रत्ययस्य विषयो वर्तते ।

कर्ममीमांसा[सम्पादयतु]

धर्मतत्त्वस्य व्याख्या मीमांसाया मुख्यो विषयः वर्तते । अत एव कस्यापि प्रयोजनविशेषस्य कृते वेदप्रतिपादितः यागादि धर्म एव कर्म कथ्यते । इष्टसाधनताया ज्ञानेनैव धर्मे प्रवृत्तिर्भवति, किन्तु प्रभाकरमते यज्ञयागादीनि अनुष्ठानानि कर्त्तव्यत्वेन विहितानि सन्ति, न तु इष्टसाधनतया । एवं कुमारिलमतात् प्रभाकरमतस्य भेदो वर्तते तथापि प्रभाकरस्य वैचारिकः पक्षः समुचितः प्रतिभाति । तदनुसारेण कर्मानुष्ठानं निष्कामकर्मणो दृष्टिकोणेनैव अनुष्ठेयम् । अनेन निष्कामेन सकामेन वा कर्मणा 'अपूर्व' पदार्थस्योत्पत्तिर्भवति । वस्तुतो वेदविहितस्य कर्मणः सम्पादनमेव मानवजीवनस्योद्देश्यमस्ति । अस्मादुत्पन्नम् अपूर्वमेव स्वर्गस्य प्रापकमस्ति । अर्थात् निष्कामधर्माचरणेन आत्मज्ञानेन च प्राणिनां सञ्चितकर्माणि नश्यन्ति । येन जननमरणयोः क्रमोऽवरुध्यते, जीवश्च शाश्वतसुखे लीनो भवति ।

मीमांसादर्शने ईश्वरविचारः[सम्पादयतु]

यद्यपि मीमांसादर्शने ईश्वरतत्त्वम् अभीष्टं नास्ति, तथापि कर्मफलदायकं किमपि अचेतनं तत्त्वं न भवितुं शक्नोति । स्वर्गादिफलानां प्रदाता तु यज्ञोऽस्ति । तथापि यज्ञपतिरूपेण ईश्वरः स्वीकर्त्तुं शक्यते । अत एव अर्थसंग्रहकारः मोक्षावस्थायां –‘कर्मफलाभावो तदैव भवति यदा कर्मफलसमर्पणं भवेत्’ इति श्रुत्यर्थमगवत्य सर्वकर्मफलानाम् ईश्वराय समर्पणनैव मोक्षो भवतीति उल्लेखं कृतवान् । 'सेश्वरमीमांसा’ नामकस्य ग्रन्थस्यापि इदमेवोद्देश्यमस्ति । प्रभाकरविजयेऽपि स्पष्टरूपेण ईश्वरोऽभिमतः । तथापि मीमांसकानाम् ईश्वर्ः श्रुतिसिद्धौ वर्तते, न तु अनुमानसिद्धः । सूत्रकारेण भाष्यकारेण च एतद्विषये चर्चा न कृता ।

मीमांसादर्शने मोक्षविचारः[सम्पादयतु]

मीमांसादर्शने जगता सह आत्मनः सम्बन्धस्य नाशः मोक्षोऽभिमतः । अस्य मतस्यानुसारेण आत्मा शरीरेण युक्तो भूत्वा एव बाह्यविषयाणाम् उपभोगं करोति । अनेन सम्बन्धेन आत्मा संसारसमुद्रे निमग्नोऽस्ति । अत एव भोगायतनं शरीरं भोगसाधनम् इन्द्रियं भोगविषयाः पदार्थाश्च अभिमताः । एभिस्त्रिभिः आत्मनः आत्यन्तिकम् एकान्तिकं वा सम्बन्धविच्छेद एव मोक्षोऽस्ति । मीमांसकमते आत्मनि चैतन्यं स्वाभाविकं नास्ति । मोक्षस्य प्रारंभिककाले सुखदुः खादीनां पूर्णविनाशो जायते स चात्मा स्वविशुद्धस्वरूपेऽवतिष्ठति । निवृत्तिमूलकतायां स्वीकृतायामपि मीमांसकमते मोक्षप्राप्त्यर्थं नित्यनैमित्तिकम् अनुष्ठानम् अपेक्षितमस्ति । काम्य-निषिद्ध-कर्मणाम् अनुष्ठानं मोक्षस्य साधनं नास्ति । नित्यनैमित्तिककर्मणां सम्पादनेन सह आत्मज्ञानरूपि सहकारि कारणमेव मोक्षस्य प्रधानं साधनं वर्तते । एवं मीमांसा कर्त्तव्यशास्त्रस्य दृष्टिकोणेन ज्ञानकर्ममसुच्चयस्य पक्षपातिनी अस्ति । अात्मविषयकबाेधस्य दृढत्वं तु वेदान्तनिषेवणेन सम्पादनीयमिति वार्त्तककाराणां कुमारिलभट्टपादानां निर्देशाे वर्तते ।

मीमांसादर्शनस्य आचार्यपरम्परा[सम्पादयतु]

मीमांसासूत्राणां रचना महर्षिणा जैमिनिना विहिता । जैमिनेः स्थितिकालः ईस्वीपूर्व ३६० वर्षाणि स्वीक्रियते । प्रसिद्ध इतिहासविद् युधिष्ठिरमीमांसकः जैमिनेः समयः विक्रमपूर्व ३००० वर्षाणीति प्रमाणयति । मीमांसासूत्राणां रचना षोडशसु अध्यायेषु विहिता तथापि जैमिनीयमीमांसा 'द्वादशलक्षणी’ नाम्ना प्रसिद्धाऽस्ति । अवशिष्टाश्चत्वारोऽध्यायाः 'सङ्कर्षणकाण्ड’ इति नाम्ना प्रसिद्धाः वर्तन्ते । कतिपये विद्वांसो वदन्ति यदेते चत्वारोध्यायाः जैमिनेः रचना नास्ति । जैमिनिकृतसूत्राणां संख्या २६४४ मन्यते ।

जैमिनीयसूत्रस्य प्रथमाध्याये धर्मलक्षणं प्रमाणनिरूपणं च प्रतिपादितमस्ति । द्वितीयाध्याये धर्मभेदो निरूपितः । तृतीयाध्याये अङ्गत्वं चतुर्थाध्याये प्रयोज्यप्रयोजकभावश्च प्रस्तुतः । पञ्चमाध्याये क्रिमिनिरूपणमस्ति, यज्ञाधिकारिणो वर्णनमपि अस्मिन्नेवाध्याये प्राप्यते । षष्ठाध्यायेऽपि अधिकारिवर्णनमस्ति । सप्ताष्टमयोरध्याययोरतिदेशो वर्तते । नवमाध्याये ऊहनिरूपणमस्ति । एवमेव एकादशाध्याये तन्त्रं, द्वादशाध्याये च प्रसङ्गो निरूपितः ।

होमकुण्डम्

यद्यपि आचार्यो जैमिनि मीमांसायाः सूत्रकारो वर्तते तथापि स आदि आचार्यो नास्ति यतोहि तेन स्वकृते मीमांसासूत्रे मीमांसादर्शनस्य अनेकेषां पूर्वाचार्याणां नामानि उल्लिखितानि । तदनुसारेण जैमिनेः पूर्वमीमांसायाः अष्टौ प्रसिद्धाः आचार्याः अभूवन् –

  1. आत्रेयः
  2. आश्मरथ्यः
  3. कार्ष्णाजिनिः
  4. बादरिः
  5. ऐतिकायनः
  6. कामुकायनः
  7. लाबुकायनः
  8. आलेखनः

मीमांसासूत्राणां वृत्तिकारेषु उपवर्षाचार्यः सर्वप्राचीनो मन्यते । अनेन मीमांसासूत्रस्य षोडशाध्यायेषु वृत्तिर्विरचिता । अस्य आचार्यस्य स्थितिकालः ईस्वीपूर्व द्वितीयशताब्द्यां मन्यते । अस्य आचार्यस्य समकालिकः कश्चित् भवदासनामकोऽप्याचार्य आसीत् । अनेनापि मीमांसासूत्राणां वृत्तिर्विरचिता ।

मीमांसासूत्रेषु आचार्य शबरस्वामिनो भाष्यम् उपलभ्यते । तद् यद्यपि उपलब्धमस्ति । भाषाविषययोः पूर्वं व्याख्यानस्य दृष्ट्या शाबरभाष्यस्य महत्त्वं शाङ्करभाष्यतुल्यं स्वीक्रियते । इदं शाबरभाष्यं द्वाद्वशाध्ययेष्वेव लिखितमस्ति । अस्य स्थितिकालः ईस्वी द्वितीयशताब्दी अस्ति । शबरस्वामिनोऽनन्तरं आचार्यभर्त्तृमित्रस्य 'तत्त्वशुद्धि’ रित्याख्या वृत्तिरपि मीमांसासूत्रेषु उपलभ्यते । कालान्तरे कुमारिलभट्टेन अस्य आलोचना विहिता ।

शबरस्वामिनः उपरान्तं मीमांसादर्शने कुमारिलभट्टस्य प्रसिद्धिः श्रूयते । कुमारिलभट्टेन मीमांसासूत्रस्य प्रथमाध्यायम् अधिकृत्य तर्कपादे श्लोकवार्त्तिकस्य रचना विहिता । शेषभागम् अधिकृत्य तन्त्रवार्तिकमप्यनेन विरचितम् । अस्यैव आचार्यस्य दुपटीकाग्रंथोऽपि प्राप्यते । कुमारिलभट्टस्य स्थितिकालः सप्तमशताब्द्याः अन्तिमभागे अष्टमशताब्द्याः प्रारम्भे च मन्यते ।

कुमारिलभट्टस्य शिष्यः आचार्यो मण्डनमिश्रोऽपि मीमांसायाः प्रसिद्धो विद्वान् आसीत् । शंकरद्विग्विजयग्रन्थस्य उल्लेखानुसारं शास्त्रार्थे शङ्कराचार्येण पराजितो भूत्वाऽयं सुरेश्वराचार्यनाम्ना शङ्कराचार्यस्य शिष्यतां गृहीतवान् । मण्डनमिश्रस्य अनेकाः रचनाः सन्ति-विधिविवेकः, भावनाविवेकः विभ्रमविवेकः मीमांसा-सूत्रानुक्रमणी च ।

उम्बेकाचार्योऽपि कुमारिलभट्टस्य शिष्य आसीत् । सः भावनाविवेकस्य टीकां श्लोकवार्तिकस्य तात्पर्यटीकां च रचितवान् । अयमपि कुमारिलमतानुयायी अवर्तत, किन्तु एतदितिरिक्ताः पार्थसारथि-मिश्र-माधवाचार्य –खण्डदेवादयः भाट्टमतानुयायिनोऽवर्तन्त । पार्थसारथिविरचिता 'शास्त्रदीपिका’ मीमांसादर्शनस्य अद्वितीया कृतिरस्ति । तर्करत्नं, न्यायरत्नाकरः, न्यायरत्नमाला चापि अस्य रचनाः सन्ति । शास्त्रदीपिकायां रामकृष्णभट्टस्य मुक्तिरनेहप्रपूरणी मयुखमालिका चेति टीकाद्वयं प्राप्यते ।

माधवाचार्यः वेदभाष्यकारस्य सायणस्य अग्रज आसीत् । अस्य रचनासु न्यायमालाविस्तरः सेश्वरमीमांसा च प्रसिद्धे स्तः । खण्डदेवमिश्रः भाट्टमते नव्यमतस्य आचार्योऽस्ति । अनेन भाट्टकौस्तुभः भाट्टदीपिका चेति गन्थद्वयं विरचितम् । 'भाट्टरहस्यम्’ अस्य शाब्दबोधविषयिणी प्रौढा कृतिरस्ति । खण्डदेवस्य स्थितिकालः चतुदर्शशताब्द्यां मन्यते विश्वेश्वरभट्टः अप्पयदीक्षितः आपदेव इत्यादयः आचार्याः खण्डदेवस्य समकालिका आसन् । षोडशशताब्द्यां नारायणभट्टः, लौगाक्षिभास्करः, शङ्करभट्टः, अन्नंभट्टः, रामेश्वरसूरिश्च मीमांसादर्शनस्य उल्लेखनीया आचार्या अभूवन् ।

प्रभाकरमिश्रोऽपि कुमारिलभट्टस्यैव शिष्य आसीत्, किन्तु गुरुमतापेक्षया भिन्नमतमयं प्रतिपादितवान् । अत एव प्रभाकरमतं गुरुमतनाम्ना पृथक् रूपेण प्रसिद्धमस्ति । गुरूपदं प्रभाकराय कुमारिलभट्टेनैव प्रदत्तमासीत् । प्रभाकरेण शाबरभाष्यम् अधिकृत्य स्वतन्त्राः टीका विरचिताः । 'बृहती’ टीकाऽस्य प्रकाशिता उपलभ्यते । प्रभाकरमतस्य प्रतिष्ठापकेषु आचार्येषु शालिकनाथः प्रमुखेऽविद्यत । शालिकनाथस्य टीकाद्वयं प्राप्यते ऋजुविमलाटीका, दीपशिखा टीका च । प्रकरणपञ्चिका नाम्नी मौलिकी रचनाऽपि शालिकनाथस्य कृतिः वर्तते ।

गुरुमतस्यैव आचार्यो महोदधिः वर्तते स्म । 'नयविवेकस्यकर्त्ता भवदासोऽपि प्रभाकरस्यैव मतं समर्थितवान् । अस्य कालो दशमशताब्दी मन्यते । नयविवेकमधिकृत्य कालान्तरे वरदराजेन नयविवेकदीपिका, शङ्करमिश्रेण पञ्चिका, दामोदरेण नयविवेकालङ्कारश्चेति ग्रन्थाः विरचिताः । प्रभाकरविजयस्य रचयिता नन्दीश्वरोऽपि अस्यैव मतस्य आचार्य आसीत् । अस्य कालः त्रयोदशशताब्दी मन्यते । रामानुजाचार्यस्य तन्त्ररहस्यमपि प्रभाकरमतस्य सुप्रसिद्धः ग्रन्थोऽस्ति । प्रभाकरस्य पश्चात् मुरारिमिश्रस्य महत्त्वपूर्णं स्थानं वर्तते । अस्य द्वौ ग्रन्थौ उपलभ्येते –त्रिपादीनीतिनयः एकादशाध्यायाधिकरणं च । मुरारिमिश्रस्य स्थितिकालः द्वादशशताब्दी स्वीक्रियते ।

दर्शनप्रतिपादकाः[सम्पादयतु]

अध्ययनकेन्द्राणि[सम्पादयतु]

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम् http://www.sanskrit.nic.in देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्http://www.rsvidyapeetha.ac.in आन्ध्रप्रदेशः तिरूपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम् http://www.slbsrsv.ac.in देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, निव् देहली -११००१६

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. मीमांसासूत्रम्, १-१-२
  2. मीमांसासूत्रम्, १२-४-४७
  3. जैमिनिसूत्रम्, १-१-१
  4. जैमिनीसूत्रम्- ३-३-१४
  5. तै० ब्रा० ३-६

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मीमांसादर्शनम्&oldid=394084" इत्यस्माद् पुनः प्राप्तिः