उपवर्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



उपवर्षः एकः मीमांसकः । जैमिनिसूत्राणाम् उपरि प्रथमतया वृत्तिं लिखितवान् एषः । एषः एव बोधायनः इत्यस्मिन् विषये संशयः वर्तते । परन्तु कुत्रापि स्पष्टतया उल्लेखाः न विद्यन्ते । एतस्य कालः समीचीनतया न ज्ञायते । तथापि शबरस्वामिनाम् अपेक्षया प्राकालीनः इति कारणतः प्रायः क्रिस्तशक २०० वर्षेभ्यः पूर्वं आसीत् इति वक्तुं शक्नुमः ।

उल्लेखाः[सम्पादयतु]

वृत्त्तिकारः उपवर्षः इत्येव प्रसिद्धः । शबरस्वामिः तु एतं भगवान् उपवर्षः इत्येव उल्लिखितवान् । शङ्कराचार्याः अपि वर्णा एव तु शब्दाः इति भगवान् उपवर्षः इति देवताधिकरणे ऊचुः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उपवर्षः&oldid=419054" इत्यस्माद् प्रतिप्राप्तम्